श्रवणम्

6.67.9
प्र यद्वां᳚ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम᳚ यु॒वधि᳚ता मि॒नन्ति᳚ ।
न ये दे॒वास॒ ओह᳚सा॒ न मर्ता॒ अय᳚ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम᳚ । यु॒व॑धि᳚ता । मि॒नन्ति᳚ ।
न । ये । दे॒वासः᳚ । ओह᳚सा । न । मर्ताः᳚ । अय᳚ज्ञ॑साचः । अप्यः᳚ । न । पु॒त्राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवयोः प्रिया प्रियाणि धाम धामानि कर्माणि युवधिता युवाभ्यां विहितानि यत् ये यजन्तौ जना स्पूर्धन् स्पर्धमानाः प्रमिनन्ति हिंसन्ति । ये च देवासो देवाः ओहसा वहनसाधनेन स्तोत्रेण युज्यन्ते मर्ता मनुष्याश्च ओहसा न युज्यन्ते ये च अप्यः अपः कर्म तद्वन्तः अयज्ञसाचः यज्ञयुक्ता न वृथा कर्माणि कुर्वन्त इत्यर्थः । ये च न पुत्राः पृणन्तीतिपुत्राः न पुत्राः अपृणन्त इत्यर्थः तान् सर्वा- न्विचयिष्टमित्यनुषज्यते ॥ ९ ॥