श्रवणम्

6.67.3
आ या᳚तं मित्रावरुणा सुश॒स्त्युप᳚ प्रि॒या नम᳚सा हू॒यमा᳚ना ।
सं याव᳚प्न॒ःस्थो अ॒पसे᳚व॒ जना᳚ञ्छ्रुधीय॒तश्चि᳚द्यतथो महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒॑श॒स्ति । उप᳚ । प्रि॒या । नम᳚सा । हू॒यमा᳚ना ।
सम् । यौ । अ॒प्नः॒॑स्थः । अ॒पसा᳚॑इव । जना᳚न् । श्रु॒धि॒॑य॒तः । चि॒त् । य॒त॒थः॒ । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ सुशस्ति शोभनशंसनं नमसा अन्नेन हविषा स्तोत्रेणा हूयमाना स्तूयमानौ प्रिया विश्वस्य प्रियौ उपायातं उपागच्छतम् । यौ महित्वा महत्वेनयुक्तौ युवां श्रुधीयतः श्रुधिगन्नं यशो वा आत्मनइच्छतो जनान् अप्नःस्थः कर्मण्यधिकृतः पुरुषः अपः अप्नइति कर्मनामसु पाठात् अपसेव कर्मणेव संयतथः संगच्छथः ॥ ३ ॥