ता वि॒ग्रं धै᳚थे ज॒ठरं᳚ पृ॒णध्या॒ आ यत्सद्म॒ सभृ᳚तयः पृ॒णन्ति᳚ ।
न मृ᳚ष्यन्ते युव॒तयो॑वा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ॥
न मृ᳚ष्यन्ते युव॒तयो॑वा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ॥
पदपाठः (Word-by-word)
ता । वि॒ग्रम् । धै॒थे॒ इति᳚ । ज॒ठर᳚म् । पृ॒णध्यै᳚ । आ । यत् । सद्म᳚ । स॑भृ᳚तयः । पृ॒णन्ति᳚ ।
न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः᳚ । अवा᳚ताः । वि । यत् । पयः᳚ । वि॒श्व॒॑जि॒न्वा॒ । भर᳚न्ते ॥
न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः᳚ । अवा᳚ताः । वि । यत् । पयः᳚ । वि॒श्व॒॑जि॒न्वा॒ । भर᳚न्ते ॥
सायणभाष्यम् (Sayana Commentary)
ता तौ मित्रावरुणौ युवां विग्रं प्राज्ञं यजमानं विप्रः विग्र इति मेधाविनामसु पाठात् धैथे धारयथः । जठरमुदरं पृणध्यै सोमेन पूरयितुं यद्यदा सभृतयः सहभ्रियमाणा ऋत्विजः सद्म यज्ञसदनं आपृणन्ति आपूरयन्ति । विश्वजिन्वा हे विश्वजिन्वानौ यद्यदा पयो जलं भवद्भ्यां प्रहितं तदा युवतयो नद्यो दिशो वा न मृष्यन्ते रजसानाभिभूयन्ते । अवाताः अशुष्का श्चविरमन्ते विभूतिं धारयन्ति ॥ ७ ॥