यदी᳚ सु॒तेभि॒रिन्दु᳚भि॒ः सोमे᳚भिः प्रति॒भूष᳚थ ।
वेदा॒ विश्व᳚स्य॒ मेधि᳚रो धृ॒षत्तंत॒मिदेष᳚ते ॥
वेदा॒ विश्व᳚स्य॒ मेधि᳚रो धृ॒षत्तंत॒मिदेष᳚ते ॥
पदपाठः (Word-by-word)
यदि᳚ । सु॒तेभिः᳚ । इन्दु᳚॑भिः । सोमे᳚भिः । प्र॒ति॒॑भूष᳚थ ।
वेद᳚ । विश्व᳚स्य । मेधि᳚रः । धृ॒षत् । तम्॑त᳚म् । इत् । आ । ई॒ष॒ते॒ ॥
वेद᳚ । विश्व᳚स्य । मेधि᳚रः । धृ॒षत् । तम्॑त᳚म् । इत् । आ । ई॒ष॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअध्वर्यवः सुतेभिरभिषुतैः इंदुभिरुंदनशीलैः दीप्तैर्वासोमेभिःसोमैः यदिप्रतिभूषथ इन्द्रंप्रतियूयंप्रतिगच्छथ भूप्राप्तावित्यस्यैतद्रूपं तदानींमेधिरोमेधावी मेधोयज्ञस्तद्वान् वासइन्द्रः विश्वस्य विश्वंसर्वंभवदीयंकामंवेद वेत्ति जानानि ज्ञात्वाच धृषत् श्त्रूणांधर्षकःसन् तंतमित् तंतंकाममेव एषतेप्रापयति ॥ ३ ॥