श्रवणम्

6.42.2
एमे᳚नं प्र॒त्येत᳚न॒ सोमे᳚भिः सोम॒पात᳚मम् ।
अम᳚त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । ई॒म् । ए॒न॒म् । प्र॒ति॒॑एत᳚न । सोमे᳚भिः । सो॒म॒॑पात᳚नम् ।
अम᳚त्रेभिः । ऋ॒जी॒षिण᳚म् । इन्द्र᳚म् । सु॒तेभिः᳚ । इन्दु᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः सोमेभिःसोमैःकरणभूतैः सोमपातमंअतिशयेनसोमस्यपातारमेनमिन्द्रं आअभिमुखंप्रत्येतनप्रतिगच्छत ईमितिनिपातेन- र्थकः कीदृशमिन्द्रं अमत्रेभिःअमत्रैः सोमपात्रैः ग्रहचमसादिभिः ऋजीषिणं ऋजीषंशत्रूणामुपार्जकंबलं तद्वन्तं यद्वा ऋजीषिणमित्युत्तरत्र- संबन्धनीयं सुतेभिरभिषुतैरिन्दुभिः सोमैःऋजीषिणं गतसारःसोमऋजीषः तद्वन्तं अथवा अमत्रेभिः अमत्रैरमात्रैरपरिमितैः अभिषुतैः सोमैः ऋजीषिणं ऋजेर्गत्यर्थात् भावसाधनऋजीषशब्दः ततोमत्वर्थीयइनिः संगतमित्यर्थः एवंविधमिन्द्रंप्रतिगच्छतेत्यन्वयः अन्यआह- अमत्रेभिः ग्रहचमसादिगतैः अभिषुतैः सोमैः ऋजीषिणं बलवन्तमेनंइन्द्रंप्रतिगच्छतेति ॥ २ ॥