श्रवणम्

6.61.7
उ॒त स्या न॒ः सर᳚स्वती घो॒रा हिर᳚ण्यवर्तनिः ।
वृ॒त्र॒घ्नी व᳚ष्टि सुष्टु॒तिम् ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्या । नः॒ । सर᳚स्वती । घो॒रा । हिर᳚ण्य॑वर्तनिः ।
वृ॒त्र॒॑घ्नी । व॒ष्टि॒ । सु॒॑स्तु॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच स्यासाप्रसिद्धासरस्वती घोराशत्रूणांभयकारिणी हिरण्यवर्तनिः वर्ततेअनेनेतिवर्तनिः रथः हिरण्यमयोवर्तनिर्यस्याः सात- थोक्ता वृत्रघ्नी वृत्राणाशत्रूणांहंत्री एवंभूतासासरस्वती नोस्मदीयांसुष्टुतिं शोभनांस्तुतिंवष्टिकामयतां ॥ ७ ॥