सर᳚स्वति देव॒निदो॒ नि ब᳚र्हय प्र॒जां विश्व᳚स्य॒ बृस᳚यस्य मा॒यिनः᳚ ।
उ॒त क्षि॒तिभ्यो॒॑वनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ॥
उ॒त क्षि॒तिभ्यो॒॑वनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ॥
पदपाठः (Word-by-word)
सर᳚स्वति । दे॒व॒॑निदः᳚ । नि । ब॒र्ह॒य॒ । प्र॒॑जाम् । विश्व᳚स्य । बृस᳚यस्य । मा॒यिनः᳚ ।
उ॒त । क्षि॒ति॑भ्यः᳚ । अ॒वनीः᳚ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒॑व॒ति॒ ॥
उ॒त । क्षि॒ति॑भ्यः᳚ । अ॒वनीः᳚ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒॑व॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेसरस्वति देवनिदोदेवानांनिन्दकानसुरान्निबर्हयन् न्यबर्हयः अवधीः । तथाविश्वस्यव्याप्तस्यमायिनोमायाविनः बृसयस्य बृसयइति- त्वष्टुर्नामधेयं त्वष्टुःप्रजांपुत्रंवृत्रासुरंचन्यवधीः । त्वत्साहा य्यादेवइन्द्रोहतवानित्यर्थः । उतअपिच हेवाजिनीवति अन्नवतिसरस्वति त्वं- क्षितिभ्योमनुष्येभ्यः अवनीः असुरैरपहृताभूमीःअविन्दः अलंभयः । एभ्योमनुष्येभ्यः विषमुदकंचअस्रवःअक्षारय । यद्वा क्षितयोसुर- जनाः तेभ्यः सकाशात् अवनीःभूमीः अविन्दोलब्धवानसि तान्हत्वाएभ्यश्चासुरेभ्यः विषंमृतिहेतुभूतंगरलंअस्रवः ॥ ३ ॥