श्रवणम्

6.61.14
सर᳚स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप᳚ स्फरी॒ः पय᳚सा॒ मा न॒ आ ध᳚क् ।
जु॒षस्व᳚ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत्क्षेत्रा॒ण्यर᳚णानि गन्म ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वति । अ॒भि । नः॒ । ने॒षि॒ । वस्यः᳚ । मा । अप᳚ । स्फ॒रीः॒ । पय᳚सा । मा । नः॒ । आ । ध॒क् ।
जु॒षस्व᳚ । नः॒ । स॒ख्या । वे॒श्या᳚ । च॒ । मा । त्वत् । क्षेत्रा᳚णि । अर᳚णानि । ग॒न्म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसरस्वति नोस्मान् वस्योवसीयः प्रशस्तंवसुधनंअभिनेषि अभिप्रापय मापस्फरीः अप्रवृद्धान्माकार्षीः । स्फारोवृद्धिः उपसर्गवशात्त- द्विपरीतेवर्तते तथापयसोदकेनअधिकेननोस्मान् माआधक् नाभिदह नबाधस्व । अपिचनोस्माकंसख्यासख्यानिसखिकर्माणिवेश्याप्रवेश- नानिचजुषस्व सेवस्व । वयंचत्वत्सकाशात् अरणानिअरमणानिनिकृष्टानिक्षेत्राणिमागन्म माप्राप्रवाम अपितुरमणीयान्येव ॥ १४ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋ- क्संहिताभाष्येचतुर्थाष्टकेअष्टमोध्यायः समाप्तः ॥ ८ ॥

॥ चतुर्थाष्टकः समाप्तः ॥ ४ ॥