प्र णो᳚ दे॒वी सर᳚स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती ।
धी॒नाम᳚वि॒त्र्य᳚वतु ॥
धी॒नाम᳚वि॒त्र्य᳚वतु ॥
पदपाठः (Word-by-word)
प्र । नः॒ । दे॒वी । सर᳚स्वती । वाजे᳚भिः । वा॒जिनी᳚॑वती ।
धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥
धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवी दानादिगुणयुक्ता वाजिनीवती वाजोन्नंयस्यांक्रियायांसावाजिनी तद्युक्ता धीनां द्यातॄणांस्तोतॄणांअवित्रीरक्षित्री एवंभूतासर- स्वती वाजेभिरन्नैर्नोस्मान्प्रावतुप्रकर्षेणतर्पयतु ॥ ४ ॥