सा नो॒ विश्वा॒ अति॒ द्विष॒ः स्वसॄ᳚र॒न्या ऋ॒ताव᳚री ।
अत॒न्नहे᳚व॒ सूर्य᳚ः ॥
अत॒न्नहे᳚व॒ सूर्य᳚ः ॥
पदपाठः (Word-by-word)
सा । नः॒ । विश्वा᳚ । अति᳚ । द्विषः᳚ । स्वसॄः᳚ । अ॒न्याः । ऋ॒त॑व᳚री ।
अत᳚न् । अहा᳚॑इव । सूर्यः᳚ ॥
अत᳚न् । अहा᳚॑इव । सूर्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सासरस्वतीनोस्मान् विश्वाः सर्वाद्विषोद्वेषोद्वेष्ट्रीः प्रजाः अतिनयतु अतितारयतु तथास्वसॄः स्वयंसारिणीः सहोत्पन्नावा ऋतावरी ऋतमित्युदकनाम तद्युक्ताअन्याश्चनदीः अस्मान् अतिनयतु यद्वा जस्येव वाच्छन्दसीतिपूर्वसवर्णदीर्घः उदकवत्यः स्वसारोभगिन्यो- अन्याः गंगाद्यानद्यश्चअस्मान् शत्रूनतिनयन्तु तत्रदृष्टान्तः—सूर्यः सर्वस्यप्रेरकआदित्यः अतन् सततंगच्छन् अहेवअहानीवयशाअहानि- शीघ्रमतिनयतितद्वत् ॥ ९ ॥ दशरात्रेतृतीयेहनिप्रउगेउतनःप्रियेतिसारस्वतस्तृचः सूत्रितंच—उतनःप्रियाप्रियास्वित्यौष्णिहंप्रउगमिति । पवित्रेष्ट्यांउतनःप्रिये- तिसारस्वतस्यहविषोनुवाक्या सूत्रितंच—उतनः प्रियाप्रियास्विमाजुह्वानायुष्मदानमोभिरिति ।