श्रवणम्

6.61.8
यस्या᳚ अन॒न्तो अह्रु᳚तस्त्वे॒षश्च᳚रि॒ष्णुर᳚र्ण॒वः ।
अम॒श्चर᳚ति॒ रोरु᳚वत् ॥
▶ पदपाठः (Word-by-word)
यस्याः᳚ । अ॒न॒न्तः । अह्रु᳚तः । त्वे॒षः । च॒रि॒ष्णुः । अ॒र्ण॒वः ।
अमः᳚ । चर᳚ति । रोरु᳚वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्याःसरस्वत्याः अमोबलंअनन्तः अपर्यन्तः अपरिमितः अह्रुतः अहिंसितः अकुटिलोवात्वेषोदीप्तः चरिष्णुः चरणशीलः सर्वत्राप्रति- हतगतिरित्यर्थः अर्णवः उदकवान् उदकप्रदइत्यर्थः एवंभूतः सन् रोरुवत् भृशंशब्दंकुर्वन् चरति वर्तते । सानोविश्वाइत्युत्तरत्रसंबन्धः ॥ ८ ॥