श्रवणम्

6.61.11
आ॒प॒प्रुषी॒ पार्थि᳚वान्यु॒रु रजो᳚ अ॒न्तरि᳚क्षम् ।
सर᳚स्वती नि॒दस्पा᳚तु ॥
▶ पदपाठः (Word-by-word)
आ॒॑प॒प्रुषी᳚ । पार्थि᳚वानि । उ॒रु । रजः᳚ । अ॒न्तरि᳚क्षम् ।
सर᳚स्वती । नि॒दः । पा॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पार्थिवानि पृथिव्याःसंबन्धीनि उरुउरूणि विस्तीर्णानि रजोरजांसिलोकान् अन्तरिक्षं अन्तराक्षान्तंनभश्च आपप्रुषी स्वतेजसापूरि- तवती । सरस्वतीदेवी निदः निन्दकाच्छत्रोः पातु अस्मान्रक्षतु ॥ ११ ॥