श्रवणम्

6.61.2
इ॒यं शुष्मे᳚भिर्बिस॒खा इ᳚वारुज॒त्सानु᳚ गिरी॒णां त᳚वि॒षेभि᳚रू॒र्मिभि᳚ः ।
पा॒रा॒व॒त॒घ्नीमव᳚से सुवृ॒क्तिभि॒ः सर᳚स्वती॒मा वि᳚वासेम धी॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । शुष्मे᳚भिः । बि॒स॒खाः॑इ᳚व । अ॒रु॒ज॒त् । सानु᳚ । गि॒री॒णाम् । त॒वि॒षेभिः᳚ । ऊ॒र्मि॑भिः᳚ ।
पा॒रा॒व॒त॒॑घ्नीम् । अव᳚से । सु॒वृ॒क्ति॑भिः᳚ । सर᳚स्वतीम् । आ । वि॒वा॒से॒म॒ । धी॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सरस्वतीदेवतारूपेणनदीरूपेणचवर्तते देवतारूपास्तुताधुनानयानदीरूपांसरस्वतींस्तौति । इयं नदीरूपासरस्वतीशुष्मैः शोषकै- रात्मीयैर्बलैः तविषेभिः महद्भिरूर्मिभिः तरंगैः गिरीणांपर्वतानांतीरसंबद्धानां सानुसानूनिअरुजद्भनक्ति । बिसखाइवबिसंखनतीति- बिसखाः सयथाबिसार्थंपंकंरुजतितद्वत् तांसरस्वतींपारावतघ्नीं परावतिदूरदेशेविद्यमानस्यापिवृक्षादेर्हंत्रीं सुवृक्तिभिः स्तुतिभिः धीतिभिःकर्मभिश्चअवसेरक्षणार्थंआविवासेम परिचरेम । यद्वा पारावतघ्नीं पारावारेपरर्वाचीतीरेतयो र्घातिनीम् । उक्तंच—पारावत- घ्नींपारावारघातिनीमिति ॥ २ ॥