प्र या म᳚हि॒म्ना म॒हिना᳚सु॒ चेकि᳚ते द्यु॒म्नेभि᳚र॒न्या अ॒पसा᳚म॒पस्त᳚मा ।
रथ᳚ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर᳚स्वती ॥
रथ᳚ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर᳚स्वती ॥
पदपाठः (Word-by-word)
प्र । या । म॒हि॒म्ना । म॒हिना᳚ । आ॒सु॒ । चेकि᳚ते । द्यु॒म्नेभिः᳚ । अ॒न्याः । अ॒पसा᳚म् । अ॒पः॑त᳚मा ।
रथः᳚॑इव । बृ॒ह॒ती । वि॒॑भ्वने᳚ । कृ॒ता । उ॒प॒॑स्तुत्या᳚ । चि॒कि॒तुषा᳚ । सर᳚स्वती ॥
रथः᳚॑इव । बृ॒ह॒ती । वि॒॑भ्वने᳚ । कृ॒ता । उ॒प॒॑स्तुत्या᳚ । चि॒कि॒तुषा᳚ । सर᳚स्वती ॥
सायणभाष्यम् (Sayana Commentary)
महिम्नामाहात्म्येनमहिनामहती द्युम्नेभिःद्युम्नौर्द्योतमानैः यशोभिरन्नैर्वायुक्तासती आसु आसांनदीनांदेवतानांमध्येयासरस्वतीप्रचेकिते प्रकर्षेणज्ञायते । याचअन्याः अन्यासां सुपांसुलुगितिषष्ठीबहुवचनस्यजस् अपसांवेगवतीनांमध्येअपस्तमावेगवत्तमा याचरथइवविभ्व- नेविभुत्वायवृहती परिवृढा गुणैरधिकाकृता प्रजापतिनानिर्मिता सासरस्वतीचिकितुषा जानतास्तोत्रा उपस्तुत्याउपस्तोतव्याभवति ॥ १३ ॥