श्रवणम्

6.61.10
उ॒त नः᳚ प्रि॒या प्रि॒यासु᳚ स॒प्तस्व᳚सा॒ सुजु᳚ष्टा ।
सर᳚स्वती॒ स्तोम्या᳚ भूत् ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । प्रि॒या । प्रि॒यासु᳚ । स॒प्त॑स्व᳚सा । सु॑जु᳚ष्टा ।
सर᳚स्वती । स्तोम्या᳚ । भू॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच नोस्माकंप्रियासुप्रियाणांमध्येप्रियाप्रियतमा सप्तस्वसागायत्र्यादीनिच्छंदासि सवसारोयस्यास्तादृशी नदीरूपायास्तुगं- गाद्याः स्वसारः सुजुष्टाः सुष्ठुपुरातनैरृषिभिः सेविता एवंभूतासरस्वतीदेवीस्तोम्याभूत् स्तोतव्याभवतु ॥ १० ॥