यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते ।
इन्द्रं॒ न वृ᳚त्र॒तूर्ये᳚ ॥
इन्द्रं॒ न वृ᳚त्र॒तूर्ये᳚ ॥
पदपाठः (Word-by-word)
यः । त्वा॒ । दे॒वि॒ । स॒र॒स्व॒ति॒ । उ॒प॒॑ब्रू॒ते । धने᳚ । हि॒ते ।
इन्द्र᳚म् । न । वृ॒त्र॒॑तूर्ये᳚ ॥
इन्द्र᳚म् । न । वृ॒त्र॒॑तूर्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेवि सरस्वति यःस्तोतावृत्रतूर्येसंग्रामेधनेहितेनिहितेनिमित्तभूतेसति इन्द्रंनइन्द्रमिवत्वां उपब्रूते स्तौति तंरक्षेतिशेषः ॥ ५ ॥