श्रवणम्

6.61.1
इ॒यम᳚ददाद्रभ॒समृ᳚ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय᳚ दा॒शुषे᳚ ।
या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि᳚ तवि॒षा स᳚रस्वति ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । अ॒द॒दा॒त् । र॒भ॒सम् । ऋ॒ण॒॑च्युत᳚म् । दिवः᳚॑दासम् । व॒ध्रि॒॑अ॒श्वाय᳚ । दा॒शुषे᳚ ।
या । शश्व᳚न्तम् । आ॒॑च॒खाद᳚ । अ॒व॒सम् । प॒णिम् । ता । ते॒ । दा॒त्राणि᳚ । त॒वि॒षा । स॒र॒स्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयंसरस्वती रभसंवेगवन्तंऋणच्युतं वैदिकस्यदेवऋषिपितृसंबन्धिनोलैकिकस्यचऋणस्यच्यावयितारं दिवोदासमेतत्संज्ञंपुत्रं दाशुषेहवींषिदत्तवतेवध्र्यश्वाय एतत्संज्ञायऋषयेअददात् दत्तवती । यासरस्वतीशश्वन्तंबहुलंपणिंपणनशीलंवणिजं अदातृजनं अवसं- केवलंस्वात्मनएवत र्पकं आचखादआजघान । सेयमददादित्यन्वयः अथप्रत्यक्षीकृत्यस्तौति हेसरस्वति देवि तातानि पुत्रदानादीनितेत्व- दीयानिदात्राणिदानानि तविषातविषाणिमहान्तिभवन्ति ॥ १ ॥