श्रवणम्

6.2.7
अधा॒ हि वि॒क्ष्वीड्यो॑सि᳚ प्रि॒यो नो॒ अति᳚थिः ।
र॒ण्वः पु॒री᳚व॒ जूर्य᳚ः सू॒नुर्न त्र᳚य॒याय्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हि । वि॒क्षु । ईड्यः᳚ । असि᳚ । प्रि॒यः । नः॒ । अति᳚थिः ।
र॒ण्वः । पु॒रि॑इ᳚व । जूर्यः᳚ । सू॒नुः । न । त्र॒य॒याय्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिच विक्षु प्रजासु हेअग्ने त्वमीड्यः स्तुत्योसि भवसि हियस्मादर्थे यस्मादेवं तस्मान्नोस्माकमतिथिः लुप्तोपममेतत् अतिथिरिव- प्रियोसि यद्वा हविर्हहनाय सततगामीभूत्वास्माकंप्रियोसि तथा पुरीव नगर्यां जूर्यः जीर्णोवृद्धोहितोपदेष्टा राजेव रण्वोरमणीयोगन्त्व्यो- वा भवसि तथा सूनुर्न पुत्रइव त्रययाय्यः यजमानैस्त्रातव्यः पालयितव्योभवसि त्रायतेरेतद्रूपं यद्वैतत्सूनोर्विशेषणं विद्यातपःकर्मलक्षणं त्रयंयातीतित्रययाय्यः यातेरौणादिकआय्यप्रत्ययः स्पृहयाय्यइतियथा अथवा त्रययाय्योजन्मत्रयंप्राप्तः जन्मत्रयंस्मर्यते मातुरग्नेधिजननं- द्वितीयंमौंजिबन्धनात् । तृतीयंयज्ञदीक्षायाइतिजन्मत्रयंस्मृतमिति ॥ तादृशः पुत्रइतिरण्वोरमणीयोसि ॥ ७ ॥