श्रवणम्

6.2.3
स॒जोष᳚स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य᳚ के॒तुमि᳚न्धते ।
यद्ध॒ स्य मानु᳚षो॒ जनः᳚ सुम्ना॒युर्जु॒ह्वे अ᳚ध्व॒रे ॥
▶ पदपाठः (Word-by-word)
स॒॑जोषः᳚ । त्वा॒ । दि॒वः । नरः᳚ । य॒ज्ञस्य᳚ । के॒तुम् । इ॒न्ध॒ते॒ ।
यत् । ह॒ । स्य । मानु᳚षः । जनः᳚ । सु॒म्न॒॑युः । जु॒ह्वे । अ॒ध्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सजोषः सहोषसः सहप्रीयमाणादिवःस्तुतेर्नरोनेतारऋत्विजः यज्ञस्यकेतुं प्रदापकं त्वा त्वां इन्धते समिद्धंकुर्वन्ति कदेतिचेदु- च्यते यद्ध यदाखलु स्यः समानुषोमनोरपत्य भूतोजनोजातोयजमानोहोतावा सुम्नायुः सुम्नंसुखमात्मनइच्छन् अध्वरे हिंसाप्रत्यवायर- हितेयज्ञे जुह्वेत्वामाह्वयति तदेत्यर्थः ॥ ३ ॥