श्रवणम्

6.1.4
प॒दं दे॒वस्य॒ नम᳚सा॒ व्यन्त᳚ः श्रव॒स्यव॒ः श्रव᳚ आप॒न्नमृ᳚क्तम् ।
नामा᳚नि चिद्दधिरे य॒ज्ञिया᳚नि भ॒द्रायां᳚ ते रणयन्त॒ संदृ᳚ष्टौ ॥
▶ पदपाठः (Word-by-word)
प॒दम् । दे॒वस्य᳚ । नम᳚सा । व्यन्तः᳚ । श्र॒व॒स्यवः᳚ । श्रवः᳚ । आ॒प॒न् । अमृ᳚क्तम् ।
नामा᳚नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया᳚नि । भ॒द्राया᳚म् । ते॒ । र॒ण॒य॒न्त॒ । सम्॑दृ᳚ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवस्य द्योतमानस्यग्नेः पदं आहवनीयस्थानं नमसा हविषा स्तोत्रेणवा व्यन्तोगछन्तः श्रवस्यवोन्नमिच्छन्तः पूर्वेयजमानाः श्रवः सर्व- त्रश्रूयमाणमन्नं अमृक्तं अन्यैरपरिबाध्यं आपन् अप्नुवन्ति हेअग्नेतेतव भद्रायां स्तुत्यायां सन्दृष्टौ निमित्तायां रणयन्त रमयन्तित्वां किंच यज्ञियानि यज्ञयोग्यानि नामानि नमनीयानि वैश्वनरोजातवेदाइत्यादीनि दधिरे धारयन्ति अथवानमनसाधनानिस्तोत्राणिदधिरे चिदितिपूरणः ॥ ४ ॥