सो अ᳚ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन᳚ट् स॒मिधा᳚ ह॒व्यदा᳚तिम् ।
य आहु᳚तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत्स वा॒मा द᳚धते॒ त्वोतः᳚ ॥
य आहु᳚तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत्स वा॒मा द᳚धते॒ त्वोतः᳚ ॥
पदपाठः (Word-by-word)
सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः᳚ । यः । ते॒ । आन᳚ट् । स॒म्॑इधा᳚ । ह॒व्य॑दा᳚तिम् ।
यः । आ॑हु᳚तिम् । परि᳚ । वे॒द॒ । नमः᳚॑भिः । विश्वा᳚ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वा॑ऊ᳚तः ॥
यः । आ॑हु᳚तिम् । परि᳚ । वे॒द॒ । नमः᳚॑भिः । विश्वा᳚ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वा॑ऊ᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वां समर्तः सयजमानईजे यजते शशमेच स्तौति शशमानइतिस्तुतिकर्मसुपाठात् इदमपिस्तुतिकर्म योयजमानस्तेतव समिधा- सह हव्यदातिं हविषांदानं आनट् करोति किंच योयजमानोनमोभिःस्तुभिराहुतिमाज्यादिलक्षणां परिवेद परितोवेत्ति ददातीत्यर्थः स- यजमानस्त्वोतः त्वयारक्षितःसन् विश्वेत् सर्वाणि वामा वमनीयानि धनानि दधतेधारयति ॥ ९ ॥