वृ॒तेव॒ यन्तं᳚ ब॒हुभि᳚र्वस॒व्यै॒३॒᳚स्त्वे र॒यिं जा᳚गृ॒वांसो॒ अनु᳚ ग्मन् ।
रुश᳚न्तम॒ग्निं द᳚र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म् ॥
रुश᳚न्तम॒ग्निं द᳚र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म् ॥
पदपाठः (Word-by-word)
वृ॒ता॑इ᳚व । यन्त᳚म् । ब॒हु॑भिः᳚ । व॒स॒व्यैः᳚ । त्वे इति᳚ । र॒यिम् । जा॒गृ॒॑वांसः᳚ । अनु᳚ । ग्म॒न् ।
रुश᳚न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त᳚म् । व॒पा॑व᳚न्तम् । वि॒श्वहा᳚ । दी॒दि॒॑वांस᳚म् ॥
रुश᳚न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त᳚म् । व॒पा॑व᳚न्तम् । वि॒श्वहा᳚ । दी॒दि॒॑वांस᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
वृतेव मार्गेणेवेति संप्रत्यर्थेलोकद्वयमध्यगतेनमार्गेण बहुभिरनेकैर्वसव्यैः वसुभिः स्वार्थिकस्तद्धितप्रत्ययः यजमानानांनिवासयोग्यैर्वा- सार्धं यन्तं गच्छान्तंत्वां अनुग्मन् अनुगच्छन्ति संभजन्तेयजमानाः कीदृशास्ते त्वे त्वयिदेवे रयिं धनं जागृवांसः प्रयच्छ्न्तइत्यर्थः कीदृशं- त्वामित्युच्यते रुशन्तं दीप्तवर्णं अग्निं अंगनादिगुणविशिष्ठं दर्शतं दर्शनीयं बृहन्तं महान्तं वपावन्तं विश्वहा सर्वेषुकालेषु दीदिवांसंदीप्यमानं ॥ ३ ॥