स॒प॒र्येण्य॒ः स प्रि॒यो वि॒क्ष्व१॒᳚ग्निर्होता᳚ म॒न्द्रो नि ष᳚सादा॒ यजी᳚यान् ।
तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप᳚ ज्ञु॒बाधो॒ नम᳚सा सदेम ॥
तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप᳚ ज्ञु॒बाधो॒ नम᳚सा सदेम ॥
पदपाठः (Word-by-word)
स॒प॒र्येण्यः᳚ । सः । प्रि॒यः । वि॒क्षु । अ॒ग्निः । होता᳚ । म॒न्द्रः । नि । सि॒सा॒द॒ । यजी᳚यान् ।
तम् । त्वा॒ । व॒यम् । दमे᳚ । आ । दी॒दि॒॑वांस᳚म् । उप᳚ । ज्ञु॒॑बाधः᳚ । नम᳚सा । स॒दे॒म॒ ॥
तम् । त्वा॒ । व॒यम् । दमे᳚ । आ । दी॒दि॒॑वांस᳚म् । उप᳚ । ज्ञु॒॑बाधः᳚ । नम᳚सा । स॒दे॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
सोग्निः सपर्येण्यः पूज्यः प्रियः कामानांपूरकः विक्षुप्रजासु होता होमनिष्पादकः मन्द्रोमदनीयः यजीयानतिशयेनेतरदेवानांयष्टायज- नीयोवा एवं महानुभावोग्निः निषसाद निषण्णोभूत् अथप्रत्यक्षकृतः तंत्वा तादृशंत्वां वयं यजमानादमेगृहे दीदिवांसं दीप्यमानं ज्ञुबाधः जानुनीबाधयन्तः अवनतजानवः प्रणताःसन्तोनमसास्तोत्रेणोपासदेम आसादयेम अथवा उपसीदेमेत्येवमाशास्ते ॥ ६ ॥