श्रवणम्

6.1.2 समानपद
अधा॒ होता॒ न्य᳚सीदो॒ यजी᳚यानि॒ळस्प॒द इ॒षय॒न्नीड्य॒ः सन् ।
तं त्वा॒ नरः᳚ प्रथ॒मं दे᳚व॒यन्तो᳚ म॒हो रा॒ये चि॒तय᳚न्तो॒ अनु᳚ ग्मन् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हाता᳚ । नि । अ॒सी॒दः॒ । यजी᳚यान् । इ॒ळः । प॒दे । इ॒षय᳚न् । ईड्यः᳚ । सन् ।
तम् । त्वा॒ । नरः᳚ । प्र॒थ॒मम् । दे॒व॒॑यन्तः᳚ । म॒हः । रा॒ये । चि॒तय᳚न्तः । अनु᳚ । ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अधुना हेअग्ने यजीयान् अतिशयेनयष्टात्वं होता होमनिष्पादकःसन् इळः भूम्याःवेदिलक्षणायाः पदे स्थाने न्यसीदोनिषण्णवान- सि किंकुर्वन् इषयन् पशुपुरोडाशादिलक्षणमन्नमिच्छन् ईड्यः स्तुत्यःसन् तं तादृशं त्वा त्वां प्रथमं इतरदेवताभ्यःपूर्वं देवयन्तोदेवंत्वामा- त्मनइच्छन्तोनरोनेतारोमनुष्याऋत्विग्यजमानाः महोमहते रायेधनाय चितयन्तोजानन्तः स्तुत्याज्ञापयन्तोवा अनुग्मन् अन्वगच्छन् पूर्वम् ॥ २ ॥