श्रवणम्

6.1.11
आ यस्त॒तन्थ॒ रोद᳚सी॒ वि भा॒सा श्रवो᳚भिश्च श्रव॒स्य१॒᳚स्तरु᳚त्रः ।
बृ॒हद्भि॒र्वाजै॒ः स्थवि᳚रेभिर॒स्मे रे॒वद्भि᳚रग्ने वित॒रं वि भा᳚हि ॥
▶ पदपाठः (Word-by-word)
आ । यः । त॒तन्थ᳚ । रोद᳚सी॒ इति᳚ । वि । भा॒सा । श्रवः᳚॑भिः । च॒ । श्र॒व॒स्यः᳚ । तरु᳚त्रः ।
बृ॒हत्॑भिः᳚ । वाजैः᳚ । स्थवि᳚रेभिः । अ॒स्मे इति᳚ । रे॒वत्॑भिः᳚ । अ॒ग्ने॒ । वि॒॑त॒रम् । वि । भा॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने यस्त्वं रोदसी द्यवापृथिव्यौ भासा दीप्त्या व्यततंथ व्यतनोः किंच तरुत्रः तारकस्त्वं श्रवोभिः स्तुतिभिः श्रवस्यश्चभवसि हेतादृ- शाग्ने बृहद्भिर्महद्भिर्वाजैरन्नैः स्थविरेभिः स्थविरैः स्थूलैः रेवद्भिःरयिमद्भिः अस्मदर्थं वितरं विशिष्टतरं विभाहि विशेषेणदीप्यस्व ॥ ११ ॥