तं त्वा᳚ व॒यं सु॒ध्यो॒३॒᳚ नव्य᳚मग्ने सुम्ना॒यव᳚ ईमहे देव॒यन्त᳚ः ।
त्वं विशो᳚ अनयो॒ दीद्या᳚नो दि॒वो अ᳚ग्ने बृह॒ता रो᳚च॒नेन᳚ ॥
त्वं विशो᳚ अनयो॒ दीद्या᳚नो दि॒वो अ᳚ग्ने बृह॒ता रो᳚च॒नेन᳚ ॥
पदपाठः (Word-by-word)
त्वम् । त्वा॒ । व॒यम् । सु॒॑ध्यः᳚ । नव्य᳚म् । अ॒ग्ने॒ । सु॒म्न॒॑यवः᳚ । ई॒म॒हे॒ । दे॒व॒॑यन्तः᳚ ।
त्वम् । विशः᳚ । अ॒न॒यः॒ । दीद्या᳚नः । दि॒वः । अ॒ग्ने॒ । बृ॒ह॒ता । रो॒च॒नेन᳚ ॥
त्वम् । विशः᳚ । अ॒न॒यः॒ । दीद्या᳚नः । दि॒वः । अ॒ग्ने॒ । बृ॒ह॒ता । रो॒च॒नेन᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने तं तादृशं महानुभावं नव्यं स्तुत्यं त्वा त्वां सुध्यः शोभनबुद्धयः सुम्नायवः सुखमिच्छन्तोदेवयन्तोदेवंत्वामिच्छन्तोवयं ईमहे याचामहे स्तुमइत्यर्थः हेअग्ने त्वं दीद्यानोदीप्यमानःसन् केन बृहता महता रोचनेन रोचमानेन तेजसा दीद्यानाः विशः प्रजाः स्तोतॄन- स्मान् दिवः स्वर्गं अनयः अगमयः रोचनेनादित्येन दिवंअगमयइतिवासंबन्धः आदित्यमार्गेणेत्यर्थः ॥ ७ ॥