श्रवणम्

6.1.12
नृ॒वद्व᳚सो॒ सद॒मिद्धे᳚ह्य॒स्मे भूरि᳚ तो॒काय॒ तन᳚याय प॒श्वः ।
पू॒र्वीरिषो᳚ बृह॒तीरा॒रेअ᳚घा अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि᳚ सन्तु ॥
▶ पदपाठः (Word-by-word)
नृ॒॑वत् । व॒सो॒ इति᳚ । सद᳚म् । इत् । धे॒हि॒ । अ॒स्मे इति᳚ । भूरि᳚ । तो॒काय᳚ । तन᳚याय । प॒श्वः ।
पू॒र्वीः । इषः᳚ । बृ॒ह॒तीः । आ॒रे॑अ᳚घाः । अ॒स्मे इति᳚ । भ॒द्रा । सौ॒श्र॒व॒सानि᳚ । स॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवसो वासक धनवन्वाग्ने नृवत् मनुष्यैरुपेतंधनं सदमित् सर्वदास्मेअस्मासु धेहि स्थापय किंच भूरि प्रभूतान् पश्वः पशूंश्च धेहि किमर्थं तोकायास्मत्पुत्राय तनयाय तत्पुत्राय किंच पूर्वीः पूरयित्र्यः कामानांबह्व्योवा महतीर्महत्यः आरेअघाः आरे दूरे अघानि यासु तास्तादृश्यइषः उक्तलक्षणान्यन्नानि भद्रा भद्राणि सौश्रवसानि सुश्रवस्त्वानि अस्मे अस्मासु सन्तुभवन्तु ॥ १२ ॥ पुरूण्यग्रइतित्रयोदशी उखासंभरणीयेष्टौ अग्नेःक्षत्रवतोनुवाक्या सूत्रितंच-पुरूण्यग्नेपुरुधात्वायासचित्रचित्रंचितयन्तमस्मेइति तत्पाठस्तु ।