अ॒स्मा उ᳚ ते॒ महि᳚ म॒हे वि᳚धेम॒ नमो᳚भिरग्ने स॒मिधो॒त ह॒व्यैः ।
वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य᳚तेम ॥
वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य᳚तेम ॥
पदपाठः (Word-by-word)
अ॒स्मै । ऊं॒ इति᳚ । ते॒ । महि᳚ । म॒हे । वि॒धे॒म॒ । नमः᳚॑भिः । अ॒ग्ने॒ । स॒म्॑इधा । उ॒त । ह॒व्यैः ।
वेदी᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । गीः॒॑भिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया᳚म् । सु॒॑म॒तौ । य॒ते॒म॒ ॥
वेदी᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । गीः॒॑भिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया᳚म् । सु॒॑म॒तौ । य॒ते॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने महे महते अस्मै तेतुभ्यं महि महत् अत्यधिकंविधेम परिचरेम कैरितिउच्यते नमोभिःनमस्कारैः समिधावा उतापिच हव्यैर्ह- विर्भिः हेसहसःसूनो बलस्यपुत्र वेदी वेद्यां गीर्भिः स्तोत्रैरुक्थैः शस्त्रैश्च विधेमेतिसंबन्धः किंच ते तव भद्रायां स्तुत्यायां सुमतौ शोभनानु- ग्रहबुद्धौ आयतेम आगच्छेमभवेमेत्यर्थः ॥ १० ॥