पु॒रूण्य᳚ग्ने पुरु॒धा त्वा॒या वसू᳚नि राजन्व॒सुता᳚ ते अश्याम् ।
पु॒रूणि॒ हि त्वे पु᳚रुवार॒ सन्त्यग्ने॒ वसु᳚ विध॒ते राज᳚नि॒ त्वे ॥
पु॒रूणि॒ हि त्वे पु᳚रुवार॒ सन्त्यग्ने॒ वसु᳚ विध॒ते राज᳚नि॒ त्वे ॥
पदपाठः (Word-by-word)
पु॒रूणि᳚ । अ॒ग्ने॒ । पु॒रु॒धा । त्वा॒॑या । वसू᳚नि । रा॒ज॒न् । व॒सुता᳚ । ते॒ । अ॒श्या॒म् ।
पु॒रूणि᳚ । हि । त्वे इति᳚ । पु॒रु॒॑वा॒र॒ । सन्ति᳚ । अग्ने᳚ । वसु᳚ । वि॒ध॒ते । राज᳚नि । त्वे इति᳚ ॥
पु॒रूणि᳚ । हि । त्वे इति᳚ । पु॒रु॒॑वा॒र॒ । सन्ति᳚ । अग्ने᳚ । वसु᳚ । वि॒ध॒ते । राज᳚नि । त्वे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने राजन् ते तव पुरूणि बहूनि पुरुधा गवाश्वादिरूपेणबहुप्रकाराणि वसूनि धनानि वसुता वसुतायै वसुमत्त्वाय त्वायाहि त्वयाहेतुभूतेन अश्यां व्याप्नुयां भुंजीयवा अत्रभरतस्वामी वसुतेत्येतत्पदंसप्तम्यन्तचकार भदृभास्करमिश्रोपि एकपदंसंबुध्यन्तंचकार हेपु- रुवार बहुभिर्वरणीयाग्ने राजनि राजमाने त्वे त्वयि पुरूणि बहूनि वसु वसूनि विधते परिचरते मह्यं दातव्यानिसन्ति ॥ १३ ॥
वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशे- ऋक्संहिताभाष्येचतुर्थाष्टकेचतुर्थोध्यायः समाप्तः ॥ ४ ॥