त्वां व᳚र्धन्ति क्षि॒तयः᳚ पृथि॒व्यां त्वां राय᳚ उ॒भया᳚सो॒ जना᳚नाम् ।
त्वं त्रा॒ता त᳚रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु᳚षाणाम् ॥
त्वं त्रा॒ता त᳚रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु᳚षाणाम् ॥
पदपाठः (Word-by-word)
त्वाम् । व॒र्ध॒न्ति॒ । क्षि॒तयः᳚ । पृ॒थि॒व्याम् । त्वाम् । रायः᳚ । उ॒भया᳚सः । जना᳚नाम् ।
त्वम् । त्रा॒ता । त॒र॒णे॒ । चेत्यः᳚ । भूः॒ । पि॒ता । मा॒ता । सद᳚म् । इत् । मानु᳚षाणाम् ॥
त्वम् । त्रा॒ता । त॒र॒णे॒ । चेत्यः᳚ । भूः॒ । पि॒ता । मा॒ता । सद᳚म् । इत् । मानु᳚षाणाम् ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वां क्षितयोमनुष्याऋत्विजः पृथिव्यां वेदिलक्षणायां वर्धन्ति वर्धयन्ति उभयासोउभयविधानिंपश्वपशुरूपाणि जनानां यजमानानांसंबन्धीनि रायोधनानि ऋत्विजोध्वर्य्वादयः त्वांत्वामुद्दिश्यवर्धन्ति अथवा उभयविधानिधनानि गवादीनि जनानां जायमा- नानां पुत्रादीनामर्थाय प्राप्तुंत्वांवर्धन्ति हेतरणे दुःखात्तारकाग्ने त्वंचेत्योज्ञातव्यःस्तुत्यःसन् त्राता रक्षिता भूर्भवसि किंच मानुषाणां मनु- ष्याणांस्तोतॄणामस्माकं सदमित्सर्वदा पितामाताच माता पितृस्थानीयोभर्भवसि ॥ ५ ॥