नवमं मण्डलम् - सूक्तम् 33

6 ऋचः

ऋषिः: त्रितः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.33 - सम्पूर्णम्

1 / 6
ऋक्: 9.33.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.33.1
प्र सोमा᳚सो विप॒श्चितो॒॑पां न य᳚न्त्यू॒र्मयः᳚ ।
वना᳚नि महि॒षा इ᳚व ॥
▶ पदपाठः (Word-by-word)
प्र । सोमा᳚सः । वि॒पः॒॑चितः᳚ । अ॒पाम् । न । य॒न्ति॒ । ऊ॒र्मयः᳚ ।
वना᳚नि । म॒हि॒षाः॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

विपश्चितोमेधाविनः सोमासः सोमाः प्रनयन्ति प्रगच्छन्ति पात्राणिप्रति । किमिव अपामूर्मयः न । तेयथा सन्ततमुद्भवन्ति तद्वत् । बाहुल्ये- अयं दृष्टान्तः । दर्शतो गमनेदृष्टान्तान्तरमभिधीयते-वनानि महिषाः प्रद्धा मृगाइव । अथवा स्वाश्रयात् प्रपतने प्रथमोदृष्टान्तः द्वितीयस्तु दशापवित्रादधः प्रवेशे ॥ १ ॥

9.33.2
अ॒भि द्रोणा᳚नि ब॒भ्रवः᳚ शु॒क्रा ऋ॒तस्य॒ धार᳚या ।
वाजं॒ गोम᳚न्तमक्षरन् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । द्रोणा᳚नि । ब॒भ्रवः᳚ । शु॒क्राः । ऋ॒तस्य᳚ । धार᳚या ।
वाज᳚म् । गो॑म᳚न्तम् । अ॒क्ष॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभि क्षरन्तीतिशेषः । उपसर्गश्रुतेरुचितक्रियाध्याहारः । प्रति द्रोणानि द्रोणकलशाम् यद्यपि द्रोणकलशएकएव तथापि तत्प्राधान्यादितरेपिपात्रा द्रोणाइत्युच्यन्ते अथवैकस्मिन्नेव पूजार्थं बहुवचनम् । के बभ्रवो बभ्रुवर्णाः सोमाः शुक्रादीप्ताः । केन प्रकारेण ऋतस्यामृतस्य धारया धाराकारेण । किंच वाजमन्नं गोमन्तं बहुगोयुक्तं अक्षरन् क्षरन्ति अस्माकं अथवैकमेववाक्यं उक्तविधाः सोमाः द्रोणान् प्रत्यक्षरन् धारया किंकुर्वन्तो गोमन्तं वाजं प्रयच्छन्तइत्यर्थः ॥ २ ॥

9.33.3
सु॒ता इन्द्रा᳚य वा॒यवे॒ वरु᳚णाय म॒रुद्भ्य᳚ः ।
सोमा᳚ अर्षन्ति॒ विष्ण᳚वे ॥
▶ पदपाठः (Word-by-word)
सु॒ताः । इन्द्रा᳚य । वा॒यवे᳚ । वरु᳚णाय । म॒रुत्॑भ्यः᳚ ।
सोमाः᳚ । अ॒र्ष॒न्ति॒ । विष्ण᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुता अभिषुताः सोमाः इन्द्राय इन्द्रार्थं वायवेच वरुणायच मरुद्भ्यश्च विष्णवेच एषामर्थं अर्षन्ति गच्छन्ति ॥ ३ ॥

9.33.4
ति॒स्रो वाच॒ उदी᳚रते॒ गावो᳚ मिमन्ति धे॒नवः᳚ ।
हरि᳚रेति॒ कनि᳚क्रदत् ॥
▶ पदपाठः (Word-by-word)
ति॒स्रः । वाचः᳚ । उत् । ई॒र॒ते॒ । गावः᳚ । मि॒म॒न्ति॒ । धे॒नवः᳚ ।
हरिः᳚ । ए॒ति॒ । कनि᳚क्रदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तिस्रॊवाचः ऋगादिभॆदॆन त्रिविधास्तुतिरुदीरतॆ प्रॊद्गमयन्ति ऋत्विजः । धॆनवः आशिरॆण प्रीणयित्र्यॊगावः मिमन्ति शब्दयन्ति दॊहार्थम् । हरिर्हरितवर्णश्च सॊमः कनिक्रदच्छब्दंकुर्वन्नॆति गच्छति कलशं ॥ ४ ॥

9.33.5
अ॒भि ब्रह्मी᳚रनूषत य॒ह्वीरृ॒तस्य᳚ मा॒तरः᳚ ।
म॒र्मृ॒ज्यन्ते᳚ दि॒वः शिशु᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ब्रह्मीः᳚ । अ॒नू॒ष॒त॒ । य॒ह्वीः । ऋ॒तस्य᳚ । मा॒तरः᳚ ।
म॒र्मृ॒ज्यन्ते᳚ । दि॒वः । शिशु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मीब्राह्मणप्रॆरिताः यह्वीर्महत्यः यह्व इतिमहन्नाम ऋतस्य यज्ञस्य मातरॊनिर्मात्र्यः स्तुतयॊभ्यनूषत स्तुवन्ति । किं दिवॊद्युतायाः शिशुं शिशुस्थानीयं सॊमं तमॆव मर्मृज्यन्तॆ मृजन्ति । त्रुतीयस्यामितॊदिवि सॊमआसीदित्यादिशृतॆः । द्युशिशुत्वं तस्य ॥ ५ ॥

9.33.6
रा॒यः स᳚मु॒द्रा{4}श्च॒तुरो॒॑स्मभ्यं᳚ सोम वि॒श्वतः᳚ ।
आ प᳚वस्व सह॒स्रिणः᳚ ॥
▶ पदपाठः (Word-by-word)
रा॒यः । स॒मु॒द्रान् । च॒तुरः᳚ । अ॒स्मभ्य᳚म् । सो॒म॒ । वि॒श्वतः᳚ ।
आ । प॒व॒स्व॒ । स॒ह॒स्रिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रायॊ धनस्य संबंधिनः चतुरः समुद्रान् धनपूर्णानित्यर्थः तादृशान् समुद्रानस्मभ्यमर्थाय हॆ सॊम विश्वतः सर्वतः आपवस्व । तथा सहस्रिणः अपरिमितान्कामानापवस्व आयच्छ । चतुस्समुद्रस्थधनविशॆषप्राप्तॆः तन्मध्यगतभूमिस्वामित्वमन्तरॆणासंभवाच्चतुःसमुद्रमुदितभूमंडलस्वामित्व- मॆवाशास्तॆ यजमानः ॥ ६ ॥

प्रसुवानइति षळृचं दशमं सूक्तं ऋष्याद्याः पूर्ववत् । प्रसुवानइत्यनुक्रान्तम् । गतोविनियोगः ।