नवमं मण्डलम् - सूक्तम् 79

5 ऋचः

ऋषिः: कविः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.79 - सम्पूर्णम्

1 / 5
ऋक्: 9.79.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.79.1
अ॒चो॒दसो᳚ नो धन्व॒न्त्विन्द᳚व॒ः प्र सु᳚वा॒नासो᳚ बृ॒हद्दि᳚वेषु॒ हर᳚यः ।
वि च॒ नश᳚न्न इ॒षो अरा᳚तयो॒॑र्यो न᳚शन्त॒ सनि᳚षन्त नो॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒चो॒दसः᳚ । नः॒ । ध॒न्व॒न्तु॒ । इन्द᳚वः । प्र । सु॒वा॒नासः᳚ । बृ॒हत्॑दि᳚वेषु । हर᳚यः ।
वि । च॒ । नश᳚न् । नः॒ । इ॒षः । अरा᳚तयः । अ॒र्यः । न॒श॒न्त॒ । सनि᳚षन्त । नः॒ । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अचोदसः अचोदनाः अनन्यप्रेरिताइन्दवः सोमाः नोस्माकं प्रधन्वंतु प्रगच्छन्तु धन्व- तिर्गतिकर्मा कुत्र बृहद्दिवेषु प्रभूतदीप्तिषु यागेषु निमित्तेषु अथवा बृहद्दिवकुलजेषु मध्ये । नइतिसंबन्धः । कीदृशाइन्दवः सुवानासः सूयमाना हरयोहरितवर्णाः । किंच नोस्मभ्यं येच इषोन्नस्यअरातयः अदातारः सन्ति तेच विनशन् विनश्यन्तु । तथा अर्यः अरयोपि नशन्त विनश्यन्तु सनिषंत संभजन्तुच नोधियोस्मदीयानि कर्माणि देवा अस्मत्प्रियभूतावा ॥ १ ॥

9.79.2
प्र णो᳚ धन्व॒न्त्विन्द᳚वो मद॒च्युतो॒ धना᳚ वा॒ येभि॒रर्व᳚तो जुनी॒मसि᳚ ।
ति॒रो मर्त᳚स्य॒ कस्य᳚ चि॒त्परि᳚ह्वृतिं व॒यं धना᳚नि वि॒श्वधा᳚ भरेमहि ॥
▶ पदपाठः (Word-by-word)
प्र । नः॒ । ध॒न्व॒न्तु॒ । इन्द᳚वः । म॒द॒॑च्युतः᳚ । धना᳚ । वा॒ । येभिः᳚ । अर्व᳚तः । जु॒नी॒मसि᳚ ।
ति॒रः । मर्त᳚स्य । कस्य᳚ । चि॒त् । परि᳚॑ह्वृतिम् । व॒यम् । धना᳚नि । वि॒श्वधा᳚ । भ॒रे॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धन्वन्तु प्रगच्छन्तु नोस्माकमिन्दवः सोमाः मदच्युतो मदस्राविणोवा अथवा किंचिदि त्यर्थः धना धनान्यपि प्रधन्वन्तु येभिर्यैःसोमैः अर्वतोबलवतः शत्रोःसमीपं जुनीमसि जुनीमः प्राप्नुमः कस्यचित् कस्यापिमर्तस्य मनुष्यस्य प्रबलस्य परिहृतिं परितोबाधांतिर- स्तिरस्कुर्वन्तोवयंधनानि गवादिरूपाणि विश्वधा सर्वदा भरेमहि बिभृयाम ॥ २ ॥

9.79.3
उ॒त स्वस्या॒ अरा᳚त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा᳚त्या॒ वृको॒ हि षः ।
धन्व॒न्न तृष्णा॒ सम᳚रीत॒ ता{4} अ॒भि सोम᳚ ज॒हि प᳚वमान दुरा॒ध्य᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्वस्याः᳚ । अरा᳚त्याः । अ॒रिः । हि । सः । उ॒त । अ॒न्यस्याः᳚ । अरा᳚त्याः । वृकः᳚ । हि । सः ।
धन्व᳚न् । न । तृष्णा᳚ । सम् । अ॒री॒त॒ । तान् । अ॒भि । सोम᳚ । ज॒हि । प॒व॒मा॒न॒ । दुः॒॑आ॒ध्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच ससोमः स्वस्या अरात्याः स्वीयस्यशत्रोः समीपं अरिः अभिगन्ताहननाय । उतापिच ससोमोन्यस्या अस्मदीयायाअरात्या अस्मच्छत्रोर्वृकोहि हिंसकः खलु । अराति- शब्दः स्त्रीलिंगोप्यस्ति । अथप्रत्यक्षकृतः धन्वन्नतृष्णा धन्व निरुदकोदेशः तस्मिंस्थितस्य तृष्णोव सायथा तंसमरीत प्राप्नोति तद्वत् तानुभयविधान् शत्रून् जहि । किंच हे सोम पवमान दुराध्यः शत्रुभिः दुःसाध्यस्त्वं जहि ॥ ३ ॥

9.79.4 समानपद
दि॒वि ते॒ नाभा᳚ पर॒मो य आ᳚द॒दे पृ᳚थि॒व्यास्ते᳚ रुरुहु॒ः सान᳚वि॒ क्षिपः᳚ ।
अद्र᳚यस्त्वा बप्सति॒ गोरधि᳚ त्व॒च्य१॒᳚प्सु त्वा॒ हस्तै᳚र्दुदुहुर्मनी॒षिणः᳚ ॥
▶ पदपाठः (Word-by-word)
दि॒वि । ते॒ । नाभा᳚ । प॒र॒मः । यः । आ॒॑द॒दे । पृ॒थि॒व्याः । ते॒ । रु॒रु॒हुः॒ । सान᳚वि । क्षिपः᳚ ।
अद्र᳚यः । त्वा॒ । ब॒प्स॒ति॒ । गोः । अधि᳚ । त्व॒चि । अ॒प्॑सु । त्वा॒ । हस्तैः᳚ । दु॒दु॒हुः॒ । म॒नी॒षिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम ते तव सपरमः उत्तरोंशो दिवि दिवः नाभा नाभौ द्युलोकस्य नाभिस्थानीये देशे अथवा नाभौ वृष्ट्यादेर्बंधके दिवि द्युलोकेवर्तते यआददे आदत्ते हविर्देवतारूपःसन् ते तव द्युलोकस्थांशस्यावयवाः पृथिव्याः सानवि समुच्छ्रितेदेशे पर्वतादिप्रदेशे क्षिपः क्षिप्ताः संतोरुरुहुः रोहन्ति त्वा त्वां द्युलोकस्थसोमांशभूतं अद्रयोग्रावाणोबप्सति भक्ष- यन्ति बप्सतिरत्तिकर्मा । कुत्र गोरधित्वचि । अधीतिसप्तम्यर्थानुवादी । आनडुहे अधिषवण- चर्मणीत्यर्थः । यद्यपीदानींतनाः कृष्णाजिनेभिषुण्वन्ति नगोचर्मणि तथापि तस्मिन् सोमो- मीयते क्रयार्थम् । तथाचसति यस्मिन्मिमीते तस्याधिषवणचर्मेति सूत्रात् मानसाधनस्यैव गोचर्मणोधिषवणचर्मत्वाभिधानादविरोधः । त्वा त्वां तथा अप्सु वसतीवरीषु दुदुहुर्दुहन्ति अद्भिराप्लाव्यदुहन्तीत्यर्थः । यद्वा अप्सूदकेषु रसेषुनिमित्तेषु दुदुहुः कैः साधनैः हस्तैर्हस्तो- हन्तेरितिनिरुक्तम् । केमनीषिणोमेधाविनोध्वर्य्वादयः ॥ ४ ॥

9.79.5
ए॒वा त᳚ इन्दो सु॒भ्वं᳚ सु॒पेश᳚सं॒ रसं᳚ तुञ्जन्ति प्रथ॒मा अ᳚भि॒श्रियः᳚ ।
निदं᳚निदं पवमान॒ नि ता᳚रिष आ॒विस्ते॒ शुष्मो᳚ भवतु प्रि॒यो मदः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒व । ते॒ । इ॒न्दो॒ इति᳚ । सु॒॑भ्व᳚म् । सु॒॑पेश᳚सम् । रस᳚म् । तु॒ञ्ज॒न्ति॒ । प्र॒थ॒माः । अ॒भि॒॑श्रियः᳚ ।
निद᳚म्॑निदम् । प॒व॒मा॒न॒ । नि । ता॒रि॒षः॒ । आ॒विः । ते॒ । शुष्मः᳚ । भ॒व॒तु॒ । प्रि॒यः । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वत्राद्रयस्त्वांबप्सतीत्युक्तं तदेवोच्यते हे इन्दो सोम एव एवं इदानीं क्रियमाणप्रका- रेण ते तव सुभ्वं शोभनभवनं सुपेशसं पेशइतिरूपनाम सुरूपं रसं प्रथमाः प्रथममेव यद्वा प्रथमइतिमुख्यनाम प्रथमामुख्याः ग्रावाणः अध्वर्यवोवा अभिश्रियः अभिश्रयन्तः सन्तः तुंजन्ति प्रेरयन्ति । हे पवमान निदंनिदं अस्मन्निन्दकं सर्वमपिशत्रुं नितारिषः विना शय । ते तव शुष्मोबलकरः प्रियः पिर्यभूतोमदः मदकरोरसः आविर्भवतु ॥ ५ ॥

सोमस्यधारेति पंचर्चंत्रयोदशंसूक्तं भरद्वाजस्य वसुनाम्नआर्षं जागतं पवमानसोमदेव- ताकं तथाचानुक्रान्तं—सोमस्यवसुर्भारद्वाजइति । गतोविनियोगः ।