इन्द्रा᳚य॒ मधु᳚मत्तमाः ॥
पदपाठः (Word-by-word)
इन्द्रा᳚य । मधु᳚मत्॑तमाः ॥
सायणभाष्यम् (Sayana Commentary)
सुताः अभिषुताः महुमत्तमाः अतिशयेन मधुमन्तः इन्दवः सोमाः ऋतस्य यज्ञस्य सादने सदने इन्द्रायेन्द्रार्थं असृग्रं सृज्यन्ते ॥ १ ॥
9 ऋचः
सुताः अभिषुताः महुमत्तमाः अतिशयेन मधुमन्तः इन्दवः सोमाः ऋतस्य यज्ञस्य सादने सदने इन्द्रायेन्द्रार्थं असृग्रं सृज्यन्ते ॥ १ ॥
विप्राः मेधाविनः सोमस्य पीतये पानाय इन्द्रं मातरोजनयित्र्योगावो वत्संन यथा वत्सं प्रति तद्वदभ्यनूषत अभिशब्दयन्ति ॥ २ ॥
मदच्युत् मदकरस्य रसस्य च्यावयिता सोमः सादने सदने । संहितायां दीर्घश्छान्दसः स्थाने क्षेति निवसति । एतदेवविवृणोति-सिन्धोर्नद्याः ऊर्मा ऊर्मौ तरंगे वसतीवरीष्वित्यर्थः । विपश्चित् विद्वान् सोमोगौरीअधि गौर्यामधि । अधीति सप्तम्यर्थानुवादः । माध्यमिकायांवाचि । गौरी गांधर्वीति वाङ्गामसुपाठात् । श्रितोमिश्रयति ॥ ३ ॥
यः सुक्ततुः सुप्रज्ञः कविः क्रान्तकर्मा विचक्षणोविद्रष्टा ससोमोदिवोन्तरिक्षस्य नाभा नाभा नाभिभूते अव्यः अवेः वारे वाले महीयते पूज्यते पूयमानः स्तूयतइत्यर्थः ॥ ४ ॥
यः सोमः कलशेषु कुंभेषु आस्ते यश्च पवित्रे पवित्रस्यान्तर्मध्ये आहितः निहितस्तं स्वांशभूतं सोममिन्दुः सोमोदेवः परिषस्वजे प्रविशति ॥ ५ ॥
इंदुः सोमः मधुश्चुतं मधुनश्चयावकं कोशं मेघम् । असुरः कोशइति मेघनामसुपाठात् । जिन्वन् प्रीणयन् समुद्रस्यान्तरिक्षस्याधि विष्टपि विष्टब्धे स्थाने वाचं प्रेष्यति प्रेरयति पवित्रे पूयमानः शब्दं करोतीत्यर्थः ॥ ६ ॥
नित्यस्तोत्रः सन्ततस्तोत्रः सबर्दुघः अमृतस्य दोग्धा वनस्पतिः वनानांपालयिता सोमो मानुषामानुषाणि युगा युगानि अहीनैकाहात्मकानि हिन्वानः प्रीणयन् धीनां कर्मणाम न्तर्मध्ये निवसतीत्यर्थः ॥ ७ ॥
कविः क्रान्तकर्मा सोमो दिवोन्तरिक्षात् हिन्वानः प्रेर्यमाणो विप्रस्य मेधाविनः स्वस्य धारया प्रिया प्रियाणि पदा पदानि स्थानान्यभ्यर्षति अभिगच्छति ॥ ८ ॥
हे पवमान इन्दो सोम त्वं सहस्रवर्चसं बहुदीप्तं स्वाभुवं शोभनभवनं रयिं धनं अस्मे अस्मासु आधारय प्रक्षिपेत्यर्थः ॥ ९ ॥
वेदार्थस्यप्रकाशेन तमोहार्दंनिवाप्यन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये षष्ठाष्टके सप्तमोध्यायः ॥ ७ ॥