श्रवणम्

9.12.6
प्र वाच॒मिन्दु᳚रिष्यति समु॒द्रस्याधि᳚ वि॒ष्टपि᳚ ।
जिन्व॒न्कोशं᳚ मधु॒श्चुत᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । वाच᳚म् । इन्दुः᳚ । इ॒ष्य॒ति॒ । स॒मु॒द्रस्य᳚ । अधि᳚ । वि॒ष्टपि᳚ ।
जिन्व᳚न् । कोश᳚म् । म॒धु॒॑श्चुत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंदुः सोमः मधुश्चुतं मधुनश्चयावकं कोशं मेघम् । असुरः कोशइति मेघनामसुपाठात् । जिन्वन् प्रीणयन् समुद्रस्यान्तरिक्षस्याधि विष्टपि विष्टब्धे स्थाने वाचं प्रेष्यति प्रेरयति पवित्रे पूयमानः शब्दं करोतीत्यर्थः ॥ ६ ॥