अ॒भि प्रि॒या दि॒वस्प॒दा सोमो᳚ हिन्वा॒नो अ᳚र्षति ।
विप्र᳚स्य॒ धार᳚या क॒विः ॥
विप्र᳚स्य॒ धार᳚या क॒विः ॥
पदपाठः (Word-by-word)
अ॒भि । प्रि॒या । दि॒वः । प॒दा । सोमः᳚ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।
विप्र᳚स्य । धार᳚या । क॒विः ॥
विप्र᳚स्य । धार᳚या । क॒विः ॥
सायणभाष्यम् (Sayana Commentary)
कविः क्रान्तकर्मा सोमो दिवोन्तरिक्षात् हिन्वानः प्रेर्यमाणो विप्रस्य मेधाविनः स्वस्य धारया प्रिया प्रियाणि पदा पदानि स्थानान्यभ्यर्षति अभिगच्छति ॥ ८ ॥