नवमं मण्डलम् - सूक्तम् 55

4 ऋचः

ऋषिः: अवत्सारः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.55 - सम्पूर्णम्

1 / 4
ऋक्: 9.55.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
9.55.1
यवं᳚यवं नो॒ अन्ध᳚सा पु॒ष्टम्पु᳚ष्टं॒ परि᳚ स्रव ।
सोम॒ विश्वा᳚ च॒ सौभ᳚गा ॥
▶ पदपाठः (Word-by-word)
यव᳚म्॑यवम् । नः॒ । अन्ध᳚सा । पु॒ष्टम्॑पु᳚ष्टम् । परि᳚ । स्र॒व॒ ।
सोम᳚ । विश्वा᳚ । च॒ । सौभ᳚गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्माकं पुष्टंपुष्टं बहुलं यवंयवं पुनःपुनर्युतं रसमन्धसान्नात्मना परिस्रव धार- या क्षर । अन्नप्रार्थयितुस्तृष्णयात्यन्तं पीडितत्वादाबाधेचेति द्विर्भावः । पीडाप्रयोक्तृधर्मो ना- भिधेयर्मइत्युक्तम् । अपिच विश्वा विश्वानि सौभगा सौभानि धनानि परिस्रव ॥ १ ॥

9.55.2
इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा᳚ ते जा॒तमन्ध᳚सः ।
नि ब॒र्हिषि᳚ प्रि॒ये स᳚दः ॥
▶ पदपाठः (Word-by-word)
इन्दो॒ इति᳚ । यथा᳚ । तव᳚ । स्तवः᳚ । यथा᳚ । ते॒ । जा॒तम् । अन्ध᳚सः ।
नि । ब॒र्हिषि᳚ । प्रि॒ये । स॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रो सोमान्धसोन्नरूपस्य तव संबन्धी स्तवःस्तवनं स्तोत्रं तथा ते तव जातं जन्म यथा प्रादुर्भूतमस्ति तथात्वं प्रिये प्रीणयितरि बर्हिषि अस्मद्यागे निषदः निषण्णोभव ॥ २ ॥

9.55.3
उ॒त नो᳚ गो॒विद᳚श्व॒वित्पव᳚स्व सो॒मान्ध᳚सा ।
म॒क्षूत᳚मेभि॒रह᳚भिः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । गो॒॑वित् । अ॒श्व॒॑वित् । पव᳚स्व । सो॒म॒ । अन्ध᳚सा ।
म॒क्षु॑त᳚मेभिः । अह᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे सोम नोस्माकं गोविद्गोप्रदोश्वविदश्वप्रदश्व त्वं मक्षूतमेभिर्मक्षूतमैरतिशयेन शीघ्रैरहभिरहोभिर्हेतुभिरंधसान्नेन पवस्व धारया क्षर ॥ ३ ॥

9.55.4
यो जि॒नाति॒ न जीय᳚ते॒ हन्ति॒ शत्रु᳚म॒भीत्य᳚ ।
स प᳚वस्व सहस्रजित् ॥
▶ पदपाठः (Word-by-word)
यः । जि॒नाति᳚ । न । जीय᳚ते । हन्ति᳚ । शत्रु᳚म् । अ॒भि॒॑इत्य᳚ ।
सः । प॒व॒स्व॒ । स॒ह॒स्र॒॑जि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सहस्रजित् सहस्रसंख्यानां शत्रूणां जेतः सोम योभवान् जिनाति शत्रून् नजीयते स्वयंश- त्रुभिर्नजीयते नहन्यतइत्यर्थः । शत्रुभीत्य शत्रुं स्वयमभ्येत्य हन्ति नच स्वयं शत्रुभिरभिभूयते सत्वं पवस्व क्षर ॥ ४ ॥

परिसोमइति चतुरृचं द्वात्रिंशं सूक्तं ऋष्याद्याः पूर्ववत् । परिसोमइत्यनुक्रान्तम् । उक्तोवि- नियोगः ।