नवमं मण्डलम् - सूक्तम् 46

6 ऋचः

ऋषिः: अयास्यः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.46 - सम्पूर्णम्

1 / 6
ऋक्: 9.46.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.46.1
असृ᳚ग्रन्दे॒ववी᳚त॒ये॑त्या᳚स॒ः कृत्व्या᳚ इव ।
क्षर᳚न्तः पर्वता॒वृधः᳚ ॥
▶ पदपाठः (Word-by-word)
असृ᳚ग्रन् । दे॒व॑वी᳚तये । अत्या᳚सः । कृत्व्याः᳚॑इव ।
क्षर᳚न्तः । प॒र्व॒त॒॑वृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पर्वतावृधः पर्वतैरभिषवग्रावभिर्वृद्धाः पर्वतेषु वा जाताः क्षरन्तः सोमाः देववीतये यज्ञाय अत्यासोश्वाः कृत्व्याइव । यथा कर्मण्याः अश्वास्तद्वदसृग्रन् सृज्यन्ते ॥ १ ॥

9.46.2
परि᳚ष्कृतास॒ इन्द᳚वो॒ योषे᳚व॒ पित्र्या᳚वती ।
वा॒युं सोमा᳚ असृक्षत ॥
▶ पदपाठः (Word-by-word)
परि᳚॑कृतासः । इन्द᳚वः । योषा᳚॑इव । पित्र्य᳚॑वती ।
वा॒युम् । सोमाः᳚ । अ॒सृ॒क्ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दवोयागेषु क्लिद्यमानाः सोमाः परिष्कृतासः परिष्कृताः अलंकृताः सन्तः पित्र्यावती पितृमती योषेवालंकृता कन्यका यथा वरं प्रति गच्छति तद्वद्वायुं प्रत्यसृक्षत गच्छन्ति ॥ २ ॥

9.46.3
ए॒ते सोमा᳚स॒ इन्द᳚व॒ः प्रय᳚स्वन्तश्च॒मू सु॒ताः ।
इन्द्रं᳚ वर्धन्ति॒ कर्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
ए॒ते । सोमा᳚सः । इन्द᳚वः । प्रय᳚स्वन्तः । च॒मू इति᳚ । सु॒ताः ।
इन्द्र᳚म् । व॒र्ध॒न्ति॒ । कर्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दवः दीप्ताः प्रयस्वन्तोन्नवन्तः एते अस्मिन्कर्मणि वर्तमाना अमी सोमासः सोमाः चमू चम्वोरधिषवणफलकयोः सुता अभिषुताःसन्तः कर्मभिर्यागैरिद्रं वर्धन्ति प्रवर्धयन्ति प्रीण- यन्तीत्यर्थः ॥ ३ ॥

9.46.4
आ धा᳚वता सुहस्त्यः शु॒क्रा गृ᳚भ्णीत म॒न्थिना᳚ ।
गोभि᳚ः श्रीणीत मत्स॒रम् ॥
▶ पदपाठः (Word-by-word)
आ । धा॒व॒त॒ । सु॒॑ह॒स्त्यः॒ । शु॒क्रा । गृ॒भ्णी॒त॒ । म॒न्थिना᳚ ।
गोभिः᳚ । श्री॒णी॒त॒ । म॒त्स॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुहस्त्यः शोभनहस्ता ऋत्विज आधावत मां संप्रत्यागच्छत । मंथिना सह शुक्रा शुक्र च गृभ्णीत गृह्णीत सोमम् । मत्सरं सोमं गोभिर्गोविकारैः पयोभिः श्रीणीत संस्कुरुत च ॥ ४ ॥

9.46.5
स प᳚वस्व धनंजय प्रय॒न्ता राध᳚सो म॒हः ।
अ॒स्मभ्यं᳚ सोम गातु॒वित् ॥
▶ पदपाठः (Word-by-word)
सः । प॒व॒स्व॒ । ध॒न॒म्॑ज॒य॒ । प्र॒॑य॒न्ता । राध᳚सः । म॒हः ।
अ॒स्मभ्य᳚म् । सो॒म॒ । गा॒तु॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे धनंजय शत्रुसंबंधिनानां जेतः सोम गातुविदभीष्टमार्गस्यलंभकोस्मभ्यं महोमहतोराध सोधनस्य प्रयन्ता प्रदाता च सत्वं पवस्व क्षर ॥ ५ ॥

9.46.6
ए॒तं मृ᳚जन्ति॒ मर्ज्यं॒ पव᳚मानं॒ दश॒ क्षिपः᳚ ।
इन्द्रा᳚य मत्स॒रं मद᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य᳚म् । पव᳚मानम् । दश᳚ । क्षिपः᳚ ।
इन्द्रा᳚य । म॒त्स॒रम् । मद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्ज्यं मर्जनीयं शोध्यं पवमानं क्षरन्तं मत्सरं मदकरमेतमिमं मदं सोमं दशसंख्याकाः क्षि- पोंगुलयः । व्रिशः क्षिपइत्यंगुलिनामसुपाठात् । इन्द्राय इन्द्रार्थं मृजन्ति पवित्रे शोधयन्ति ॥ ६ ॥

अयासोमइति पंचर्चं त्रयोविंशंसूक्तं भृगुपुत्रस्य कवेरार्षं गायत्रं पवमानसोमदेवताकम् । तथाचानुक्रान्तं—अयासोमः पंच कविर्भार्गवइति । उक्तोविनियोगः ।