अ॒या वी॒ती परि᳚ स्रव॒ यस्त᳚ इन्दो॒ मदे॒ष्वा ।
अ॒वाह᳚न्नव॒तीर्नव᳚ ॥
अ॒या । वी॒ती । परि᳚ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति᳚ । मदे᳚षु । आ ।
अ॒व॒॑अह᳚न् । न॒व॒तीः । नव᳚ ॥
हे इन्दो सोम अयानेन रसेन वीती वीत्यै इन्द्रस्य भक्षणाय परिस्रव परिक्षर । कीदृशेनर- सेनेत्यतआह ते तव योरसोमदेषु संग्रामेषु नवतीर्नवेति नवनवतिसंख्याकाश्च शत्रुपुरीरवा- हन् जघान अमुं सोमरसं पीत्वा मत्तः सन्निन्द्र उक्तलक्षणाः शत्रुपुरीर्जघानेतिकृत्वा रसोजघा- नेत्युपचारः ॥ १ ॥
पुरः᳚ स॒द्य इ॒त्थाधि᳚ये॒ दिवो᳚दासाय॒ शम्ब᳚रम् ।
अध॒ त्यं तु॒र्वशं॒ यदु᳚म् ॥
पुरः᳚ । स॒द्यः । इ॒त्था॑धि᳚ये । दिवः᳚॑दासाय । शम्ब᳚रम् ।
अध᳚ । त्यम् । तु॒र्वश᳚म् । यदु᳚म् ॥
सद्य एकस्मिन्नेवाह्नि पुरः शत्रूणां पुराणि सोमरसोवाहन् इत्थाधिये सत्यकर्मणे दिवोदा- साय राज्ञे शंबरं शत्रुपुराणां स्वामिनमधाथ त्यं तं तुर्वशं तुर्वशनामकंराजानं दिवोदासशत्रुं यदुं यदुनामकंराजानं च वशमानयच्च । अत्रापि सोमरसं पीत्वा मत्तःसन् इंद्रः सर्वमेतदकार्षी- दिति सोमरसेकर्तृत्वमुपचर्यते ॥ २ ॥
परि᳚ णो॒ अश्व᳚मश्व॒विद्गोम᳚दिन्दो॒ हिर᳚ण्यवत् ।
क्षरा᳚ सह॒स्रिणी॒रिषः᳚ ॥
परि᳚ । नः॒ । अश्व᳚म् । अ॒श्व॒॑वित् । गो॑म᳚त् । इ॒न्दो॒ इति᳚ । हिर᳚ण्य॑वत् ।
क्षर᳚ । स॒ह॒स्रिणीः । इषः᳚ ॥
हे इन्दो सोम अश्ववित् अश्वस्य लंभकस्त्वं नोस्माकमश्वं गोमद्गोयुक्तं हिरण्यवद्धिरण्योपेतं धनंच परिक्षर । अपिच सहस्रिणीर्बहूनि इषोन्नानि क्षर ॥ ३ ॥
पव᳚मानस्य ते व॒यं प॒वित्र᳚मभ्युन्द॒तः ।
स॒खि॒त्वमा वृ᳚णीमहे ॥
पव᳚मानस्य । ते॒ । व॒यम् । प॒वित्र᳚म् । अ॒भि॒॑उ॒न्द॒तः ।
स॒खि॒॑त्वम् । आ । वृ॒णी॒म॒हे॒ ॥
हे सोम पवित्रमभ्युंदतः पवित्रमभिक्लेदयतः पवमानस्य क्षरतश्च ते तव सखित्वं सख्यं वयममहीयव आंगिरसा आवृणीमहे प्रार्थयामहे ॥ ४ ॥
ये ते᳚ प॒वित्र᳚मू॒र्मयो᳚॑भि॒क्षर᳚न्ति॒ धार᳚या ।
तेभि᳚र्नः सोम मृळय ॥
ये । ते॒ । प॒वित्र᳚म् । ऊ॒र्मयः᳚ । अ॒भि॒॑क्षर᳚न्ति । धार᳚या ।
तेभिः᳚ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥
हे सोम ये प्रसिद्धाः ते तव ऊर्मयस्तरंगाः पवित्रं धारयाभिक्षरन्ति तेभिस्तैरूर्मिभिर्नोस्मा- न्मृळय सुखय ॥ ५ ॥
स नः᳚ पुना॒न आ भ᳚र र॒यिं वी॒रव᳚ती॒मिष᳚म् ।
ईशा᳚नः सोम वि॒श्वतः᳚ ॥
सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । वी॒र॑व᳚तीम् । इष᳚म् ।
ईशा᳚नः । सो॒म॒ । वि॒श्वतः᳚ ॥
हे सोम विश्वतः सर्वस्य जगतईशानः ईश्वरः सोभिषुतः पुनानः पूयमानस्त्वं नोस्मभ्यं रयिं धनं वीरवतीं पुत्राद्युपेतमिषमन्नं चाभराहर ॥ ६ ॥
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति॒ सिन्धु᳚मातरम् ।
समा᳚दि॒त्येभि᳚रख्यत ॥
ए॒तम् । ऊं॒ इति᳚ । त्यम् । दश᳚ । क्षिपः᳚ । मृ॒जन्ति᳚ । सिन्धु᳚॑मातरम् ।
सम् । आ॒दि॒त्येभिः᳚ । अ॒ख्य॒त॒ ॥
सिंधुमातरं यस्य सोमस्य सिन्धवोमातरोनद्योभवन्ति त्यं तमेतमिमं सोमं दशक्षिपो दशसंख्याकाअंगुलयो मृजंति शोधयंति । अपिच सोयं सोमः आदित्येभिरादित्यैः समख्यत संगच्छते ॥ ७ ॥
समिन्द्रे᳚णो॒त वा॒युना᳚ सु॒त ए᳚ति प॒वित्र॒ आ ।
सं सूर्य᳚स्य र॒श्मिभि᳚ः ॥
सम् । इन्द्रे᳚ण । उ॒त । वा॒युना᳚ । सु॒तः । ए॒ति॒ । प॒वित्रे᳚ । आ ।
सम् । सूर्य᳚स्य । र॒श्मि॑भिः᳚ ॥
सुतोभिषुतः सोमः पवित्रे इन्द्रेण समेति संगच्छति । उतापिच वायुना समेति सूर्यस्य रश्मिभिर्मयूखैरपि समेति ॥ ८ ॥
स नो॒ भगा᳚य वा॒यवे᳚ पू॒ष्णे प᳚वस्व॒ मधु᳚मान् ।
चारु᳚र्मि॒त्रे वरु᳚णे च ॥
सः । नः॒ । भगा᳚य । वा॒यवे᳚ । पू॒ष्णे । प॒व॒स्व॒ । मधु᳚॑मान् ।
चारुः᳚ । मि॒त्रे । वरु᳚णे । च॒ ॥
हे सोम मधुमान् मधुररसश्चारुः कल्याणस्वरूपश्च सोभिषुतस्त्वं नोस्माकं यज्ञे भगाय भगाख्यायदेवाय वायवेच पूष्णे रवये मित्रे मित्राय देवाय वरुणे वरुणायच पवस्व क्षर ॥ ९ ॥
उ॒च्चा ते᳚ जा॒तमन्ध᳚सो दि॒वि षद्भूम्या द᳚दे ।
उ॒ग्रं शर्म॒ महि॒ श्रवः᳚ ॥
उ॒च्चा । ते॒ । जा॒तम् । अन्ध᳚सः । दि॒वि । सत् । भूमिः᳚ । आ । द॒दे॒ ।
उ॒ग्रम् । शर्म᳚ । महि᳚ । श्रवः᳚ ॥
हे सोम ते तव संबन्धिनोंधसो रसस्योच्चा उपरि जातं जन्म अपिच दिवि द्युलोके सत् विद्यमानं स्वतस्तवसंबन्धि उग्रमुद्गूर्णं शर्मसुखं महिमहत् श्रवोन्नंच भूमिराददे । भूम्यादद- इति पदत्रयमामनन्ति विसर्जनीयलोपः सांहितिकः । भूमिः भौमाजनामादृशाः भूमिष्ठैरादी- यत इत्यर्थः ॥ १० ॥
ए॒ना विश्वा᳚न्य॒र्य आ द्यु॒म्नानि॒ मानु᳚षाणाम् ।
सिषा᳚सन्तो वनामहे ॥
ए॒ना । विश्वा᳚नि । अ॒र्यः । आ । द्यु॒म्नानि᳚ । मानु᳚षाणाम् ।
सिसा᳚सन्तः । व॒ना॒म॒हे॒ ॥
एना एनेनानेन सोमेन मानुषाणां मनुष्याणां विश्वा विश्वानि द्युम्नान्यन्नानि अर्योभिग- च्छन्तः सिषासन्तः संभक्तुमिच्छन्तश्च वयं वनामहे संभजामहे ॥ ११ । ।
स न॒ इन्द्रा᳚य॒ यज्य᳚वे॒ वरु᳚णाय म॒रुद्भ्य᳚ः ।
व॒रि॒वो॒वित्परि᳚ स्रव ॥
सः । नः॒ । इन्द्रा᳚य । यज्य᳚वे । वरु᳚णाय । म॒रुत्॑भ्यः᳚ ।
व॒रि॒वः॒॑वित् । परि᳚ । स्र॒व॒ ॥
हेसोम वरिवोविदन्नस्य लंभकः पवमानस्त्वं नोस्माकं यज्यवे यष्टव्यायेन्द्राय वरुणायच मरुद्भ्यश्च परिस्रव धारया क्षर ॥ १२ ॥
उपो॒ षु जा॒तम॒प्तुरं॒ गोभि᳚र्भ॒ङ्गं परि᳚ष्कृतम् ।
इन्दुं᳚ दे॒वा अ᳚यासिषुः ॥
उपो॒ इति᳚ । सु । जा॒तम् । अ॒प्॑तुर᳚म् । गोभिः᳚ । भ॒ङ्गम् । परि᳚॑कृतम् ।
इन्दु᳚म् । दे॒वाः । अ॒या॒सि॒षुः॒ ॥
सुजातं सम्यक् प्रादुर्भूतं अप्तुरं वस्तीवरीभिः प्रेरितं भगं शत्रूणां भंजकं गोभिर्गोविकारैः पयोभिः परिष्कृतमलंकृतं संस्कृतमिंदुं सोमं देवाइन्द्रादयः उपायासिषुरुपागच्छन्ति ॥ १३ ॥
तमिद्व᳚र्धन्तु नो॒ गिरो᳚ व॒त्सं सं॒शिश्व᳚रीरिव ।
य इन्द्र᳚स्य हृदं॒सनि᳚ः ॥
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः᳚ । व॒त्सम् । सं॒शिश्व᳚रीः॑इव ।
यः । इन्द्र᳚स्य । हृ॒द॒म्॑सनिः᳚ ॥
यः सोम इन्द्रस्य ह्रुदंसनिर्हृदयस्य संभक्ता भवति तमित्तमेव सोमं नोस्माकं गिरः स्तुति- रूपावाचः संवर्धन्तु सम्यक् वर्धयन्तु । तत्रदृष्टान्तः—वत्सं बालं शिश्वरीरिव यथा शिश्वर्योब- द्धपयस्कामातरो वत्सं वर्धयन्ति तद्वदित्यर्थः ॥ १४ ॥
अर्षा᳚ णः सोम॒ शं गवे᳚ धु॒क्षस्व᳚ पि॒प्युषी॒मिष᳚म् ।
वर्धा᳚ समु॒द्रमु॒क्थ्य᳚म् ॥
अर्ष᳚ । नः॒ । सो॒म॒ । शम् । गवे᳚ । धु॒क्षस्व᳚ । पि॒प्युषी᳚म् । इष᳚म् ।
वर्ध᳚ । स॒मु॒द्रम् । उ॒क्थ्य᳚म् ॥
हे सोम त्वं नोस्माकं गवे शं सुखमर्ष क्षर । अपिच पिप्युषीं प्रवृद्धामिषमन्नं धुक्षस्व पूरय । किंचोक्थ्यं प्रशंस्यं समुद्रमुदकं वर्ध वर्धय ॥ १५ ॥
पव᳚मानो अजीजनद्दि॒वश्चि॒त्रं न त᳚न्य॒तुम् ।
ज्योति᳚र्वैश्वान॒रं बृ॒हत् ॥
पव᳚मानः । अ॒जी॒ज॒न॒त् । दि॒वः । चि॒त्रम् । न । त॒न्य॒तुम् ।
ज्योतिः᳚ । वै॒श्वा॒न॒रम् । बृ॒हत् ॥
पवमानः सोमः बृहन्महत् वैश्वानर वैश्वानराख्यं ज्योतिस्तेजोदिवोद्युलोकस्य चित्रं तन्यतुं न अशनिमिवाजीजनदजनयत् ॥ १६ ॥
पव᳚मानस्य ते॒ रसो॒ मदो᳚ राजन्नदुच्छु॒नः ।
वि वार॒मव्य᳚मर्षति ॥
पव᳚मानस्य । ते॒ । रसः᳚ । मदः᳚ । रा॒ज॒न् । अ॒दु॒च्छु॒नः ।
वि । वार᳚म् । अव्य᳚म् । अ॒र्ष॒ति॒ ॥
हे राजन् दीप्यमानसोम पवमानस्य क्षरतः ते तवादुच्छुनोरक्षोवर्जितो मदोमदकरो रसः अव्यमविमयं वारं वालं दशापवित्रं व्यर्षत्यभीगच्छति ॥ १७ ॥
पव᳚मान॒ रस॒स्तव॒ दक्षो॒ वि रा᳚जति द्यु॒मान् ।
ज्योति॒र्विश्वं॒ स्व᳚र्दृ॒शे ॥
पव᳚मान । रसः᳚ । तव᳚ । दक्षः᳚ । वि । रा॒ज॒ति॒ । द्यु॒॑मान् ।
ज्योतिः᳚ । विश्व᳚म् । स्वः᳚ । दृ॒शे ॥
हे पवमान सोम तव त्वदीयोदक्षो व्रुद्धोद्युमान् दीप्तिमान् रसो विराजति प्रकाशते । न केवलं स्वयमेव प्रकाशते किंतु विश्वं व्याप्तं स्वः सर्वं ज्योतिस्तेजश्च दृशे द्रष्टुं करोतीति शेषः ॥ १८ ॥
यस्ते॒ मदो॒ वरे᳚ण्य॒स्तेना᳚ पव॒स्वान्ध᳚सा ।
दे॒वा॒वीर᳚घशंस॒हा ॥
यः । ते॒ । मदः᳚ । वरे᳚ण्यः । तेन᳚ । प॒व॒स्व॒ । अन्ध᳚सा ।
दे॒व॒॑अ॒वीः । अ॒घ॒शं॒स॒॑हा ॥
हे सोम ते तव देवावीर्देवकामोघशंसहा राक्षसानां हन्ता वरेण्यः सर्वैर्वरणीयो मदोमदकरो योरसोविद्यते तेन रसेनांधसादनीयेन पवस्व क्षर ॥ १९ ॥
जघ्नि᳚र्वृ॒त्रम᳚मि॒त्रियं॒ सस्नि॒र्वाजं᳚ दि॒वेदि᳚वे ।
गो॒षा उ᳚ अश्व॒सा अ᳚सि ॥
जघ्निः᳚ । वृ॒त्रम् । अ॒मि॒त्रिय᳚म् । सस्निः᳚ । वाज᳚म् । दि॒वे॑दि᳚वे ।
गो॒॑साः । ऊं॒ इति᳚ । अ॒श्व॒॑साः । अ॒सि॒ ॥
हे सोम त्वममित्रियममित्रभवं वृत्रं शत्रुं जघ्निर्हंतासि भवसि । किंच दिवेदिवे प्रतिदिनं वाजं संग्रामं सस्निः संभक्तासि । किंच गोषाः गवां दातासि अश्वसाः अश्वानां दातासि ॥ २० ॥
सम्मि᳚श्लो अरु॒षो भ᳚व सूप॒स्थाभि॒र्न धे॒नुभि᳚ः ।
सीद᳚ञ्छ्ये॒नो न योनि॒मा ॥
सम्॑मि᳚श्लः । अ॒रु॒षः । भ॒व॒ । सु॒॑उ॒प॒स्थाभिः । न । धे॒नु॑भिः᳚ ।
सीद᳚म् । श्ये॒नः । न । योनि᳚म् । आ ॥
हे सोम त्वं सूपस्थाभिः शोभनोपस्थानाभिः धेनुभिर्गोभिः गोविकारैः पयोभिरित्यर्थः । संमिश्लः संमिश्चितः श्येनोन यथा श्येनः शीघ्रमागत्य स्थानमासीदति तद्वद्योनिं स्वकीयं स्थानं आसीदन् । न संप्रत्यर्थे । इदानीमरुष आरोचमानोभव ॥ २१ ॥
स प᳚वस्व॒ य आवि॒थेन्द्रं᳚ वृ॒त्राय॒ हन्त᳚वे ।
व॒व्रि॒वांसं᳚ म॒हीर॒पः ॥
सः । प॒व॒स्व॒ । यः । आवि᳚थ । इन्द्र᳚म् । वृ॒त्राय᳚ । हन्त᳚वे ।
व॒व्रि॒॑वांस᳚म् । म॒हीः । अ॒पः ॥
हे सोम यस्त्वं महीर्महतीरपो महांत्युदकानि वव्रिवांसं निरुंधानं वृत्राय वृत्रं हन्तवे हन्तुं इन्द्रमाविथ रक्ष । सत्वं पवस्व धारया क्षर । सोमं पीत्वा मत्तः सन्निन्द्रो महांत्युदकानि निरुं- धानं वृत्रं जघानेत्यर्थः ॥ २२ ॥
सु॒वीरा᳚सो व॒यं धना॒ जये᳚म सोम मीढ्वः ।
पु॒ना॒नो व᳚र्ध नो॒ गिरः᳚ ॥
सु॒॑वीरा᳚सः । व॒यम् । धना᳚ । जये᳚म । सो॒म॒ । मी॒ढ्वः॒ ।
पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः᳚ ॥
हे मीढ्वः सेक्तः सोम पुनानः पूयमानस्त्वं सुवीरासः सुवीराः कल्याणपुत्राः वयममहीयव आंगिरसाः धना शत्रूणां धनानि जयेम शत्रून् जित्वा तदीयानि धनानि स्वीकुर्यामेत्यर्थः । नो- स्माकं गिरः स्तुतिरूपावाचश्च वर्ध वर्धय ॥ २३ ॥
त्वोता᳚स॒स्तवाव᳚सा॒ स्याम᳚ व॒न्वन्त᳚ आ॒मुरः᳚ ।
सोम᳚ व्र॒तेषु᳚ जागृहि ॥
त्वा॑ऊ᳚तासः । तव᳚ । अव᳚सा । स्याम᳚ । व॒न्वन्तः᳚ । आ॒॑मुरः᳚ ।
सोम᳚ । व्र॒तेषु᳚ । जा॒गृ॒हि॒ ॥
हे सोम तव त्वदीयेनावसा रक्षणेन त्वोतासः त्वया रक्षिताः सन्तो वन्वन्तः शत्रून् भजमाना आमुरस्तेषामभिमारकाः स्याम भवेम । व्रतेष्वस्माकं कर्मसु जागृहि प्रबुद्धोभव ॥ २४ ॥
अ॒प॒घ्नन्प᳚वते॒ मृधो॑प॒ सोमो॒ अरा᳚व्णः ।
गच्छ॒न्निन्द्र᳚स्य निष्कृ॒तम् ॥
अ॒प॒॑घ्नन् । प॒व॒ते॒ । मृधः᳚ । अप᳚ । सोमः᳚ । अरा᳚व्णः ।
गच्छ᳚न् । इन्द्र᳚स्य । निः॒॑कृ॒तम् ॥
सोमोमृधोहिंसकान् शत्रूनपघ्नन् मारयन् अराव्णः शक्तौ सत्यां धनानामदातॄँश्चापघ्नन् इन्द्रस्य निष्कृतं स्थानं गच्छन् प्राप्नुवन् पवते धारया क्षरति ॥ २५ ॥
म॒हो नो᳚ रा॒य आ भ᳚र॒ पव᳚मान ज॒ही मृधः᳚ ।
रास्वे᳚न्दो वी॒रव॒द्यशः᳚ ॥
म॒हः । नः॒ । रा॒यः । आ । भ॒र॒ । पव᳚मान । ज॒हि । मृधः᳚ ।
रास्व᳚ । इ॒न्दो॒ इति᳚ । वी॒र॑व᳚त् । यशः᳚ ॥
हे पवमानेन्दो सोम नोस्माकं महोमहान्ति रायोधनान्याभराहर । मृधोहिंसकान् शत्रून् च जहि मारय । वीरवत् पुत्राद्युपेतां यशः कीर्तिंच रास्वास्मभ्यं देहि ॥ २६ ॥
न त्वा᳚ श॒तं च॒न ह्रुतो॒ राधो॒ दित्स᳚न्त॒मा मि᳚नन् ।
यत्पु᳚ना॒नो म᳚ख॒स्यसे᳚ ॥
न । त्वा॒ । श॒तम् । च॒न । हुतः᳚ । राधः᳚ । दित्स᳚न्तम् । आ । मि॒न॒न् ।
यत् । पु॒ना॒नः । म॒ख॒स्यसे᳚ ॥
हे सोम राधोधनमादित्सन्तमादातुमिच्छन्तं त्वा त्वां शतं चन बहवोपि ह्रुतोहिंसकाः शत्रवोनमिनन्नहिंसन्ति । कदेत्यत्राह यद्यदा पुनानः पूयमानस्त्वं मखस्यसेस्मभ्यं धनंदातुमि- च्छसि ॥ २७ ॥
पव᳚स्वेन्दो॒ वृषा᳚ सु॒तः कृ॒धी नो᳚ य॒शसो॒ जने᳚ ।
विश्वा॒ अप॒ द्विषो᳚ जहि ॥
पव᳚स्व । इ॒न्दो॒ इति᳚ । वृषा᳚ । सु॒तः । कृ॒धि । नः॒ । य॒शसः᳚ । जने᳚ ।
विश्वाः᳚ । अप᳚ । द्विषः᳚ । ज॒हि॒ ॥
हे इन्दो सोम सुतोभिषुतो वृषा सेक्ता त्वं पवस्व धारया क्षर । जने जनपदेषु नोस्मान् यशसोयशस्विनः कृधि कुरु । विश्वाः सर्वान् द्विषोद्वेष्टृन् शत्रून् अपजहि मारय च ॥ २८ ॥
अस्य᳚ ते स॒ख्ये व॒यं तवे᳚न्दो द्यु॒म्न उ᳚त्त॒मे ।
सा॒स॒ह्याम᳚ पृतन्य॒तः ॥
अस्य᳚ । ते॒ । स॒ख्ये । व॒यम् । तव᳚ । इ॒न्दो॒ इति᳚ । द्यु॒म्ने । उ॒त्॑त॒मे ।
स॒स॒ह्याम᳚ । पृ॒त॒न्य॒तः ॥
हे इन्दो सोम अस्यास्मिन् यागे वर्तमानस्य ते तव सख्ये सखित्वे सति वयममहीयव आं- गिरसास्तव त्वदीये उत्तमे श्रेष्ठे द्युम्नेन्ने तृप्तिं प्राप्ताः । तथाचयास्कः—द्युम्नंद्योतयेर्यशोवान्नंवे- ति । पृतन्यतोयुद्धमिच्छतः शत्रून्ससह्यामाभिभवेम ॥ २९ ॥
या ते᳚ भी॒मान्यायु᳚धा ति॒ग्मानि॒ सन्ति॒ धूर्व᳚णे ।
रक्षा᳚ समस्य नो नि॒दः ॥
या । ते॒ । भी॒मानि᳚ । आयु᳚धा । ति॒ग्मानि᳚ । सन्ति᳚ । धूर्व᳚णे ।
रक्ष᳚ । स॒म॒स्य॒ । नः॒ । नि॒दः ॥
हे सोम ते तव या यानि भीमानि शत्रूणां भयंकराणि तिग्मानि तीक्ष्णानि आयुधा आयु- धानि धूर्वणे शत्रुवधार्थं सन्ति तैरायुधैः समस्य सर्वस्य शत्रोर्निदोनिन्दाया नोस्मान् रक्ष पालय ॥ ३० ॥
एतेअसृग्रमिति त्रिंशदृचं द्वितीयं सूक्तं भार्गवस्य जमदग्नेरार्षं गायत्रं पवमानसोमदेवताकम् । तथाचानुक्रान्तं—एतेअसृग्रंजमदग्निरिति । गतोविनियोगः ।