नवमं मण्डलम् - सूक्तम् 90

6 ऋचः

ऋषिः: वसिष्ठः देवता: पवमानः सोमः छन्दः: त्रिष्टुप्

सूक्तम् 9.90 - सम्पूर्णम्

1 / 6
ऋक्: 9.90.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.90.1
प्र हि᳚न्वा॒नो ज᳚नि॒ता रोद᳚स्यो॒ रथो॒ न वाजं᳚ सनि॒ष्यन्न᳚यासीत् ।
इन्द्रं॒ गच्छ॒न्नायु᳚धा सं॒शिशा᳚नो॒ विश्वा॒ वसु॒ हस्त᳚योरा॒दधा᳚नः ॥
▶ पदपाठः (Word-by-word)
प्र । हि॒न्वा॒नः । ज॒नि॒ता । रोद᳚स्योः । रथः᳚ । न । वाज᳚म् । स॒नि॒ष्यन् । अ॒या॒सी॒त् ।
इन्द्र᳚म् । गच्छ᳚न् । आयु᳚धा । स॒म्॑शिशा᳚नः । विश्वा᳚ । वसु᳚ । हस्त᳚योः । आ॒॑दधा᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिन्वानः प्रेर्यमाणोध्वर्य्वादिभिः जनिता उत्पादयिता रोदस्योर्द्यावापृथिव्योः । तयो- र्जनयितृत्वं वृष्टिप्रदानहविः प्रापणाभ्याम् । रथोन यथा रथोगच्छति तादृक् सोमोवाजं अन्नं सनिष्यन् दास्यन् प्रायासीत् प्रयच्छति । इन्द्रंगच्छन् प्राप्नुवन् आयुधा आयुधानि संशि- शानः सम्यक् तीक्ष्णीकुर्वन् इन्द्रसाहाय्यगमनार्थं तीक्ष्णायुधःसन् विश्वा सर्वाणि वसु वसूनि हस्तयोरादधानोस्मभ्यंदानाय एवंकुर्वन् प्रायासीत् ॥ १ ॥

9.90.2
अ॒भि त्रि᳚पृ॒ष्ठं वृष᳚णं वयो॒धामा᳚ङ्गू॒षाणा᳚मवावशन्त॒ वाणी᳚ः ।
वना॒ वसा᳚नो॒ वरु᳚णो॒ न सिन्धू॒न्वि र᳚त्न॒धा द᳚यते॒ वार्या᳚णि ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्रि॒॑पृ॒ष्ठम् । वृष᳚णम् । व॒यः॒॑धाम् । आ॒ङ्गू॒षाणा᳚म् । अ॒वा॒व॒श॒न्त॒ । वाणीः᳚ ।
वना᳚ । वसा᳚नः । वरु᳚णः । न । सिन्धू᳚न् । वि । र॒त्न॒॑धाः । द॒य॒ते॒ । वार्या᳚णि ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रिपृष्ठं त्रीणिपृष्ठानि स्तोत्राणि द्रोणकलशादिस्थानानिवा सवनानि वा यस्यसतथोक्तः । तं वृषणं वर्षकं वयोधामन्नस्यदातारं सोमं आंगूषाणां आघोषवतां स्तोतॄणां वाणीर्वाचः अभ्यवावशन्त शब्दयन्ते । वना वनानि उदकानि वसानः आच्छादयन् वरुणोन वरुण- इव सिन्धूनाच्छादयति तद्वत् रत्नधाः रत्नानांदाता सोमोवार्याणि धनानि विदयते प्रय- च्छति स्तोतृभ्यः ॥ २ ॥

9.90.3 समानपद
शूर᳚ग्राम॒ः सर्व᳚वीर॒ः सहा᳚वा॒ञ्जेता᳚ पवस्व॒ सनि᳚ता॒ धना᳚नि ।
ति॒ग्मायु᳚धः क्षि॒प्रध᳚न्वा स॒मत्स्वषा᳚ळ्हः सा॒ह्वान्पृत᳚नासु॒ शत्रू᳚न् ॥
▶ पदपाठः (Word-by-word)
शूर᳚॑ग्रामः । सर्व᳚॑वीरः । सहा᳚वान् । जेता᳚ । प॒व॒स्व॒ । सनि᳚ता । धना᳚नि ।
ति॒ग्म॑आ᳚युधः । क्षि॒प्र॑ध᳚न्वा । स॒मत्॑सु᳚ । अषा᳚ळ्हः । स॒ह्वान् । पृत᳚नासु । शत्रू᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवस्व त्वम् । कीदृशस्त्वं शूरग्रामः शूराणां ग्रामः संघोयस्यसः सर्ववीरः सर्वे वीरायस्य सतथोक्तः सहावान् सहनवान् जेता जयशीलः सनिता संभक्ता धनानि तिग्मायुधः तीक्ष्णप्रहरणसाधनः क्षिप्रधन्वा क्षिप्रसहनशीलधन्वा समत्सु संग्रामेषु अषा- ह्ळः असोढः साह्वान् अभिभवन् कुत्र पृतनासु शत्रुसेनासु कान् शत्रून् ॥ ३ ॥

9.90.4
उ॒रुग᳚व्यूति॒रभ᳚यानि कृ॒ण्वन्त्स᳚मीची॒ने आ प᳚वस्वा॒ पुरं᳚धी ।
अ॒पः सिषा᳚सन्नु॒षस॒ः स्व१॒᳚र्गाः सं चि᳚क्रदो म॒हो अ॒स्मभ्यं॒ वाजा᳚न् ॥
▶ पदपाठः (Word-by-word)
उ॒रु॑ग᳚व्यूतिः । अभ᳚यानि । कृ॒ण्वन् । स॒मी॒ची॒ने इति᳚ स॒म्॑ई॒ची॒ने । आ । प॒व॒स्व॒ । पुर᳚न्धी॒ इति॒ पुर᳚म्॑धी ।
अ॒पः । सिसा᳚सन् । उ॒षसः᳚ । स्वः᳚ । गाः । सम् । चि॒क्र॒दः॒ । म॒हः । अ॒स्मभ्य᳚म् । वाजा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम उरुगव्यूतिर्विस्तीर्णमार्गस्त्वं अभयानि स्तोतृभ्यः कृण्वन् कुर्वन् पुरंधी इदं द्यावापृथिव्योर्नाम । ते समीचीने स्वंगतेकुर्वन् आपवस्व आक्षर । अपः उषसः स्वः आ- दित्यं गारश्मींश्चसिषासन् पुष्ट्यर्थं संभक्तुमिच्छन् संचिक्रदः सरन्दसे । महोमहतः महा- न्ति वाजान् अन्नानिअस्मभ्यंदातुमितिशेषः ॥ ४ ॥

9.90.5 समानपद
मत्सि᳚ सोम॒ वरु᳚णं॒ मत्सि᳚ मि॒त्रं मत्सीन्द्र᳚मिन्दो पवमान॒ विष्णु᳚म् ।
मत्सि॒ शर्धो॒ मारु᳚तं॒ मत्सि᳚ दे॒वान्मत्सि᳚ म॒हामिन्द्र᳚मिन्दो॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
मत्सि᳚ । सो॒म॒ । वरु᳚णम् । मत्सि᳚ । मि॒त्रम् । मत्सि᳚ । इन्द्र᳚म् । इ॒न्दो॒ इति᳚ । प॒व॒मा॒न॒ । विष्णु᳚म् ।
मत्सि᳚ । शर्धः᳚ । मारु᳚तम् । मत्सि᳚ । दे॒वान् । मत्सि᳚ । म॒हाम् । इन्द्र᳚म् । इ॒न्दो॒ इति᳚ । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमानेन्दो सोम त्वं वरुणादीन् मत्सि तर्पय तेषां मदाय । इन्द्रस्य प्रा- धान्यात् द्विरभिधानं ॥ ५ ॥

9.90.6
ए॒वा राजे᳚व॒ क्रतु᳚मा{4}॒ अमे᳚न॒ विश्वा॒ घनि᳚घ्नद्दुरि॒ता प᳚वस्व ।
इन्दो᳚ सू॒क्ताय॒ वच᳚से॒ वयो᳚ धा यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
ए॒व । राजा᳚॑इव । क्रतु᳚॑मान् । अमे᳚न । विश्वा᳚ । घनि᳚घ्नत् । दुः॒॑इ॒ता । प॒व॒स्व॒ ।
इन्दो॒ इति᳚ । सु॒॑उ॒क्ताय᳚ । वच᳚से । वयः᳚ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया स्तुतिमुपसंहरन् फलमाशास्ते । हेसोम एव एवं स्तुतइतिशेषः । क्रतुमांस्त्वं राजेव अमेन बलेन विश्वा सर्वाणिदुरिता दुरितानि घनिघ्नन् विनाशयन् पवस्व । हे इन्दो दीप्तसोम सूक्ताय शोभनमुदिताय वचसे अस्माकं स्तोत्राय तद्वचः विमृष्यार्थवदा- गत्य वयोधा अन्नंधेहि अन्नलाभस्य स्तितिनिमित्तकत्वात्तस्य स्तुतिवचसः प्राधान्येनोक्तिः शिष्टं सिद्धं ॥ ६ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- यणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये सप्तमाष्टके तृतीयोध्यायः ॥ ३ ॥