नवमं मण्डलम् - सूक्तम् 104

6 ऋचः

ऋषिः: पर्वतनारदौ द्वे शिखंडिन्यौ वा काश्यप्यावप्सरसौ देवता: पवमानः सोमः छन्दः: उष्णिक्

सूक्तम् 9.104 - सम्पूर्णम्

1 / 6
ऋक्: 9.104.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.104.1
सखा᳚य॒ आ नि षी᳚दत पुना॒नाय॒ प्र गा᳚यत ।
शिशुं॒ न य॒ज्ञैः परि᳚ भूषत श्रि॒ये ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । आ । नि । सी॒द॒त॒ । पु॒ना॒नाय᳚ । प्र । गा॒य॒त॒ ।
शिशु᳚म् । न । य॒ज्ञैः । परि᳚ । भू॒ष॒त॒ । श्रि॒ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः सखिभूताः स्तोतारऋत्विजः आनिषीदत स्तोतुं उपविशत । अथ पुना- नाय पूयमानाय सोमाय प्रगायत प्रकर्षेण गायत तमभिष्टुत । ततः अभिषुतं सोमं यज्ञै- र्यजनीयैः हविर्भिः मिश्रणैश्च श्रिये शोभनार्थं परिभूषत परितोलंकुरुत । तत्र दृष्टान्तः— शिशुंन यथा शिशुं बालं पुत्रं पितर आभरणैरलंकुर्वन्ति तद्वत् ॥ १ ॥ प्रवर्ग्येभिष्टवे समीवत्समित्येका । सूत्रितंच—समीवत्संनमातृभिः संवत्सइवमातृभिरिति ।

9.104.2
समी᳚ व॒त्सं न मा॒तृभि᳚ः सृ॒जता᳚ गय॒साध᳚नम् ।
दे॒वा॒व्यं१॒᳚ मद᳚म॒भि द्विश᳚वसम् ॥
▶ पदपाठः (Word-by-word)
सम् । ई॒मिति᳚ । व॒त्सम् । न । मा॒तृ॑भिः᳚ । सृ॒जत᳚ । ग॒य॒॑साध᳚नम् ।
दे॒व॒॑अ॒व्य᳚म् । मद᳚म् । अ॒भि । द्वि॑श᳚वसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः गयसाधनं गृहस्य साधनं ईमेनं सोमं मातृभिर्मातृभूताभिर्वसतीवरीभिः संसृजत संमिश्रयत । कथमिव वत्संन यथावत्सं मातृभिर्गाभिः संयोजयन्ति तद्वत् । कीदृ- शं देवाव्यं देवानां रक्षकं मदं मदनहेतुं द्विशवसं द्विगुणवेगं अतिशयितबलंवा यद्वा द्वयो- र्लोकयोः तत्र स्थितादेवमनुष्याइत्यर्थः । तेषां हविर्धनप्रदानेन वर्धयितारं तं सोममभिसं- सृजत ॥ २ ॥

9.104.3
पु॒नाता᳚ दक्ष॒साध᳚नं॒ यथा॒ शर्धा᳚य वी॒तये᳚ ।
यथा᳚ मि॒त्राय॒ वरु᳚णाय॒ शंत᳚मः ॥
▶ पदपाठः (Word-by-word)
पु॒नात᳚ । द॒क्ष॒॑साध᳚नम् । यथा᳚ । शर्धा᳚य । वी॒तये᳚ ।
यथा᳚ । मि॒त्राय᳚ । वरु᳚णाय । शम्॑त᳚मः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दक्षसाधनं बलस्य साधनं धनादिवृद्धेर्वा साधकं सोमं पुनात पवित्रेण पुनीत । पुञ् पवने क्र्यादिः तस्माल्लोटि तप्तनप्तनथनाश्चेति तस्य तबादेशः पित्वादीत्वाभावः । असौ सोमः शर्धाय वेगार्थं वीतये देवानां पानार्थं यथा भवति यथावा मित्राय वरुणायच शंतमः अतिशयेन सुखं करोति तथा पुनीतेत्यर्थः ॥ ३ ॥

9.104.4
अ॒स्मभ्यं᳚ त्वा वसु॒विद᳚म॒भि वाणी᳚रनूषत ।
गोभि᳚ष्टे॒ वर्ण᳚म॒भि वा᳚सयामसि ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । त्वा॒ । व॒सु॒॑विद᳚म् । अ॒भि । वाणीः᳚ । अ॒नू॒ष॒त॒ ।
गोभिः᳚ । ते॒ । वर्ण᳚म् । अ॒भि । वा॒स॒या॒म॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वसुविदं धनस्य दातारं त्वा त्वामस्मभ्यं धनादिप्रदानार्थं वाणीः अस्मदीया- वाचो अभ्यनूषत अभिष्टुवन्ति नूस्तवने । वयं ते तव वर्णं आवरकं रसं गोभिर्गोविकारैः क्षीरादिभिः अभिवासयामसि अभिवासयामः अभितआच्छादयामः ॥ ४ ॥

9.104.5
स नो᳚ मदानां पत॒ इन्दो᳚ दे॒वप्स᳚रा असि ।
सखे᳚व॒ सख्ये᳚ गातु॒वित्त᳚मो भव ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । म॒दा॒ना॒म् । प॒ते॒ । इन्दो॒ इति᳚ । दे॒व॑प्स᳚राः । अ॒सि॒ ।
सखा᳚॑इव । सख्ये᳚ । गा॒तु॒वित्॑त᳚मः । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नः अस्मदादीनां मदानां मदकानां पते स्वामिन् हे इन्दो सोम सत्वं देवप्सराअसि प्सरइति रूपनाम दीप्तरूपोभवसि । सत्वं सखेव यथा सखा सुहृत् सख्ये मित्राय सत्यं मार्गं ज्ञापयति तद्वत् अस्माकमपि गातुवित्त्मः अत्यन्तं मार्गस्य लंभकोभव ज्ञापकोभव ॥ ५ ॥

9.104.6
सने᳚मि कृ॒ध्य१॒᳚स्मदा र॒क्षसं॒ कं चि᳚द॒त्रिण᳚म् ।
अपादे᳚वं द्व॒युमंहो᳚ युयोधि नः ॥
▶ पदपाठः (Word-by-word)
सने᳚मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस᳚म् । कम् । चि॒त् । अ॒त्रिण᳚म् ।
अप᳚ । अदे᳚वम् । द्व॒युम् । अंहः᳚ । यु॒यो॒धि॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अस्मत् अस्मासु सनेमि पुराणनामैतत् पुराणं सख्यं कृधि कुरु । आ अपि- च अत्रिणमदनशीलं कंचिद्रक्षसं अपयुध्यस्व । कीदुशं अदेवं अदेवनशीलं द्वयुंद्वयवन्तं स- त्यानृतयुक्तंबाह्याभ्यन्तरमायायुक्तंवा । किंच नोस्माकमंहः पापंच अपयुयोधि संप्रहर युध्य तेर्बहुलंछन्दसीति शपःश्लुः वाछन्दसीति हेर्ङित्त्वाद्गुणः धलोपश्छान्दसः यौतेर्वाश्लौ पूर्व- वद्रूपं ॥ ६ ॥

तंवइति षळृचं द्वितीयंसूक्तं पर्वतनारदयोरार्षं अन्यत् पूर्ववत् । तंवइत्यनुक्रान्तम् । गतः सूक्तविनियोगः ।