आ प᳚वस्व सह॒स्रिणं᳚ र॒यिं सो᳚म सु॒वीर्य᳚म् ।
अ॒स्मे श्रवां᳚सि धारय ॥
आ । प॒व॒स्व॒ । स॒ह॒स्रिण᳚म् । र॒यिम् । सो॒म॒ । सु॒॑वीर्य᳚म् ।
अ॒स्मे इति᳚ । श्रवां᳚सि । धा॒र॒य॒ ॥
हे सोम त्वं सहस्रिणं बहुसंख्याकं सुवीर्यं शोभनवीर्यं रयिं धनमापवस्वाभिमुख्येन क्षर । अपिचास्मे अस्मासु श्रवांस्यन्नानि धारय स्थापय ॥ १ ॥
इष॒मूर्जं᳚ च पिन्वस॒ इन्द्रा᳚य मत्स॒रिन्त᳚मः ।
च॒मूष्वा नि षी᳚दसि ॥
इष᳚म् । ऊर्ज᳚म् । च॒ । पि॒न्व॒से॒ । इन्द्रा᳚य । म॒त्स॒रिन्॑त᳚मः ।
च॒मूषु᳚ । आ । नि । सी॒द॒सि॒ ॥
हे सोम मत्सरिन्तमः अतिशयेन मदयितृतमः त्वमिन्द्रायेन्द्रार्थमिषमन्नमूर्जं रसंच पिन्वसे क्षरसि । अपिच चमूषु चमसेष्वानिषीदसि तिष्ठसि ॥ २ ॥
सु॒त इन्द्रा᳚य॒ विष्ण᳚वे॒ सोमः᳚ क॒लशे᳚ अक्षरत् ।
मधु᳚मा{4} अस्तु वा॒यवे᳚ ॥
सु॒तः । इन्द्रा᳚य । विष्ण᳚वे । सोमः᳚ । क॒लशे᳚ । अ॒क्ष॒र॒त् ।
मधु᳚॑मान् । अ॒स्तु॒ । वा॒यवे᳚ ॥
इन्द्रायेन्द्रार्थं विष्णवे विष्णवर्थंच वायवे वाय्वर्थंच सुतोभिषुतोयः सोमः कलशे द्रोणकलशे अक्षरत् क्षरति सोयं सोमो मधुमान् मधुररसवानस्तु भवतु ॥ ३ ॥
ए॒ते अ᳚सृग्रमा॒शवो॑ति॒ ह्वरां᳚सि ब॒भ्रवः᳚ ।
सोमा᳚ ऋ॒तस्य॒ धार᳚या ॥
ए॒ते । अ॒सृ॒ग्र॒म् । आ॒शवः᳚ । अति᳚ । ह्वरां᳚सि । ब॒भ्रवः᳚ ।
सोमाः᳚ । ऋ॒तस्य᳚ । धार᳚या ॥
बभ्रवोबभ्रुवर्णा आशवः शीघ्रा एते इमे सोमा ऋतस्योदकस्य धारया असृग्रन् सृज्यन्ते ह्वरांसि रक्षांस्यति गच्छन्तिच ॥ ४ ॥
इन्द्रं॒ वर्ध᳚न्तो अ॒प्तुरः᳚ कृ॒ण्वन्तो॒ विश्व॒मार्य᳚म् ।
अ॒प॒घ्नन्तो॒ अरा᳚व्णः ॥
इन्द्र᳚म् । वर्ध᳚न्तः । अ॒प्॑तुरः᳚ । कृ॒ण्वन्तः᳚ । विश्व᳚म् । आर्य᳚म् ।
अ॒प॒॑घ्नन्तः᳚ । अरा᳚व्णः ॥
इन्द्रंवर्धन्तो वर्धयन्तोप्तुर उदकस्य प्रेरकाविश्वं सोमं अस्मदीयकर्मार्थं आर्यं भद्रं कृण्वतः कुर्वन्तोराव्णो दातॄनपघ्नन्तोविनाशयन्तः अभ्यर्षन्तीति उत्तरया संबन्धः ॥ ५ ॥
सु॒ता अनु॒ स्वमा रजो॒॑भ्य᳚र्षन्ति ब॒भ्रवः᳚ ।
इन्द्रं॒ गच्छ᳚न्त॒ इन्द᳚वः ॥
सु॒ताः । अनु᳚ । स्वम् । आ । रजः᳚ । अ॒भि । अ॒र्ष॒न्ति॒ । ब॒भ्रवः᳚ ।
इन्द्र᳚म् । गच्छ᳚न्तः । इन्द᳚वः ॥
बभ्रवो बभ्रुवर्णाः सुताअभिषुता इन्दवः सोमाः इन्द्रमागच्छन्तः आभिमुख्येन प्राप्नुवन्तः स्वं स्वकीयं रजः स्थानमनु प्रति अभ्यर्षन्ति अभिगच्छन्ति ॥ ६ ॥
अ॒या प᳚वस्व॒ धार᳚या॒ यया॒ सूर्य॒मरो᳚चयः ।
हि॒न्वा॒नो मानु᳚षीर॒पः ॥
अ॒या । प॒व॒स्व॒ । धार᳚या । यया᳚ । सूर्य᳚म् । अरो᳚चयः ।
हि॒न्वा॒नः । मानु᳚षीः । अ॒पः ॥
हे सोम मानुषीर्मनुष्याणां हितान्यप उदकानि हिन्वानः प्रेरयन् त्वं यया धारया सूर्यमरोचयः प्रकाशयस्तया अया अनया धारया पवस्व क्षर ॥ ७ ॥
अयु᳚क्त॒ सूर॒ एत᳚शं॒ पव᳚मानो म॒नावधि᳚ ।
अ॒न्तरि᳚क्षेण॒ यात᳚वे ॥
अयु᳚क्त । सूरः᳚ । एत᳚शम् । पव᳚मानः । म॒नौ । अधि᳚ ।
अ॒न्तरि᳚क्षेण । यात᳚वे ॥
पवमानः पूयमानः सोमो मनावधि मनुर्मनुष्यः तस्मिन्मनुष्ये इत्यर्थः अन्तरिक्षेण यातवे गन्तुं सूरः प्रेरकस्य सूर्यस्यैतशमश्वम् । एतग्वा एतश इत्यश्वनामसुपाठात् । अयुक्त युंक्ते ॥ ८ ॥
उ॒त त्या ह॒रितो॒ दश॒ सूरो᳚ अयुक्त॒ यात᳚वे ।
इन्दु॒रिन्द्र॒ इति᳚ ब्रु॒वन् ॥
उ॒त । त्याः । ह॒रितः᳚ । दश᳚ । सूरः᳚ । अ॒यु॒क्त॒ । यात᳚वे ।
इन्दुः᳚ । इन्द्रः᳚ । इति᳚ । ब्रु॒वन् ॥
उतापिचेन्दुः सोमः इन्द्रइति ब्रुवन् त्या ता दश दशसंख्याका हरितो दिशः प्रति यातवे गन्तुं सूरः सूर्यस्यैतशमयुक्त युनक्ति ॥ ९ ॥
परी॒तो वा॒यवे᳚ सु॒तं गिर॒ इन्द्रा᳚य मत्स॒रम् ।
अव्यो॒ वारे᳚षु सिञ्चत ॥
परि᳚ । इ॒तः । वा॒यवे᳚ । सु॒तम् । गिरः᳚ । इन्द्रा᳚य । म॒त्स॒रम् ।
अव्यः᳚ । वारे᳚षु । सि॒ञ्च॒त॒ ॥
हे गिरः स्तोरारोयूयं वायवे वाय्वर्थं इन्द्रायेन्द्रार्थंच सुतमभिषुतं मत्सरं मदकरं सोममि तोभिषवदेशादुद्धृत्य अव्यः अवेर्वारेषु वालेषु परिषिंचत ॥ १० ॥
पव᳚मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम दु॒ष्टर᳚म् ।
यो दू॒णाशो᳚ वनुष्य॒ता ॥
पव᳚मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य᳚म् । सो॒म॒ । दु॒स्तर᳚म् ।
यः । दुः॒॑नशः᳚ । व॒नु॒ष्य॒ता ॥
हे पवमानसोम योरयिर्वनुष्यता हिंसकेन शत्रुणा दूणाशोनाशयितुमशक्यः तं शत्रु- भिर्दुष्टरं रयिं धनं अस्मभ्यं विदा देहि ॥ ११ ॥
अ॒भ्य᳚र्ष सह॒स्रिणं᳚ र॒यिं गोम᳚न्तम॒श्विन᳚म् ।
अ॒भि वाज᳚मु॒त श्रवः᳚ ॥
अ॒भि । अ॒र्ष॒ । स॒ह॒स्रिण᳚म् । र॒यिम् । गो॑म᳚न्तम् । अ॒श्विन᳚म् ।
अ॒भि । वाज᳚म् । उ॒त । श्रवः᳚ ॥
हे सोम त्वं सहस्रिणं बहुसंख्याकं गोमन्तं गोभिर्युक्तमश्विनं अश्ववंतं रयिं धनमभ्य- र्षास्मानभिगमय । उतापिच वाजं बलं श्रवोन्नं चास्मानभिगमय ॥ १२ ॥
सोमो᳚ दे॒वो न सूर्यो॑द्रि᳚भिः पवते सु॒तः ।
दधा᳚नः क॒लशे॒ रस᳚म् ॥
सोमः᳚ । दे॒वः । न । सूर्यः᳚ । अद्रि᳚॑भिः । प॒व॒ते॒ । सु॒तः ।
दधा᳚नः । क॒लशे᳚ । रस᳚म् ॥
देवोन देवइव सूर्यो रोचमानः सोमोद्रिभिर्ग्रावभिः सुतोभिषुतः सन् कलशे द्रोणकलशे रसं दधानो धारयन् पवते धारया क्षरति ॥ १३ ॥
ए॒ते धामा॒न्यार्या᳚ शु॒क्रा ऋ॒तस्य॒ धार᳚या ।
वाजं॒ गोम᳚न्तमक्षरन् ॥
ए॒ते । धामा᳚नि । आर्या᳚ । शु॒क्राः । ऋ॒तस्य᳚ । धार᳚या ।
वाज᳚म् । गो॑म᳚न्तम् । अ॒क्ष॒र॒न् ॥
एते अभिषुता इमे शुक्रादीप्ताः सोमा आर्या आर्याणां श्रेष्ठानां यजमानानां धामानि गृहान् प्रति गोमन्तं गोभिर्युक्तं वाजमन्नं ऋतस्योदकस्य धारया अक्षरन् क्षरन्ति ॥ १४ ॥
सु॒ता इन्द्रा᳚य व॒ज्रिणे॒ सोमा᳚सो॒ दध्या᳚शिरः ।
प॒वित्र॒मत्य᳚क्षरन् ॥
सु॒ताः । इन्द्रा᳚य । व॒ज्रिणे᳚ । सोमा᳚सः । दधि᳚॑आशिरः ।
प॒वित्र᳚म् । अति᳚ । अ॒क्ष॒र॒न् ॥
वज्रिणे वज्रवते इन्द्रायेन्द्रार्थं सुताअभिषुता दध्याशिरः दधिसंस्कृताः सोमासः सोमाः पवित्रमत्यतिक्रम्याक्षरन् धारया क्षरन्ति ॥ १५ ॥
प्र सो᳚म॒ मधु᳚मत्तमो रा॒ये अ᳚र्ष प॒वित्र॒ आ ।
मदो॒ यो दे᳚व॒वीत᳚मः ॥
प्र । सो॒म॒ । मधु᳚मत्॑तमः । रा॒ये । अ॒र्ष॒ । प॒वित्रे᳚ । आ ।
मदः᳚ । यः । दे॒व॒॑वीत᳚मः ॥
हे सोम तव योमदोरसो मधुमत्तमोत्यन्तं मधुमान् देववीतमोतिशयेन देवकामश्च तं रसं रायेस्माकं धनार्थं पवित्रे प्रार्ष धारया क्षर ॥ १६ ॥
तमी᳚ मृजन्त्या॒यवो॒ हरिं᳚ न॒दीषु᳚ वा॒जिन᳚म् ।
इन्दु॒मिन्द्रा᳚य मत्स॒रम् ॥
तम् । ई॒मिति᳚ । मृ॒ज॒न्ति॒ । आ॒यवः᳚ । हरि᳚म् । न॒दीषु᳚ । वा॒जिन᳚म् ।
इन्दु᳚म् । इन्द्रा᳚य । म॒त्स॒रम् ॥
हरिं हरितवर्णं वाजिनं बलिनं मत्सरं मदकरं तं पवमानमीमेनमिन्दुं मत्सरं सोम- मायवोमनुष्याऋत्विजः इन्द्रायेन्द्रार्थं नदीषु वसतीवरीषु मृजन्ति मार्जयन्ति ॥ १७ ॥
आ प᳚वस्व॒ हिर᳚ण्यव॒दश्वा᳚वत्सोम वी॒रव᳚त् ।
वाजं॒ गोम᳚न्त॒मा भ᳚र ॥
आ । प॒व॒स्व॒ । हिर᳚ण्य॑वत् । अश्व᳚॑वत् । सो॒म॒ । वी॒र॑व᳚त् ।
वाज᳚म् । गो॑म᳚न्तम् । आ । भ॒र॒ ॥
हे सोम त्वं हिरण्यवत् सुवर्णोपेतमश्ववदश्वयुक्तंच वीरवत् पुत्राद्युपेतंच धनमापव- स्वास्मान् प्रति क्षर । अपिच गोमन्तं पशुभिरुपेतं वाजमन्नमाभरास्मभ्यमाहर ॥ १८ ॥
परि॒ वाजे॒ न वा᳚ज॒युमव्यो॒ वारे᳚षु सिञ्चत ।
इन्द्रा᳚य॒ मधु᳚मत्तमम् ॥
परि᳚ । वाजे᳚ । न । वा॒ज॒॑युम् । अव्यः᳚ । वारे᳚षु । सि॒ञ्च॒त॒ ।
इन्द्रा᳚य । मधु᳚मत्॑तमम् ॥
वाजयुं युद्धकामं मधुमत्तममतिशयेनमधुमन्तं सोममिन्द्रायेद्रार्थं अव्यः अवेर्वारेषु वालेषु दशापवित्रे वाजे न युद्धेइव हे ऋत्विजः परिषिंचत ॥ १९ ॥
क॒विं मृ᳚जन्ति॒ मर्ज्यं᳚ धी॒भिर्विप्रा᳚ अव॒स्यवः᳚ ।
वृषा॒ कनि᳚क्रदर्षति ॥
क॒विम् । मृ॒ज॒न्ति॒ । मर्ज्य᳚म् । धी॒भिः । विप्राः᳚ । अ॒व॒स्यवः᳚ ।
वृषा᳚ । कनि᳚क्रत् । अ॒र्ष॒ति॒ ॥
अवस्यवो रक्षणकामा विप्रामेधाविनऋत्विजः धीभिरंगुलीभिर्मर्ज्यं मर्जनीयं कविं क्रांन्तकर्माणं यं सोमं मृजन्ति मर्जयन्ति सोयं वृषा सेचकः सोमः कनिक्रदत् शब्दंकुर्वन् अर्षति धारया क्षरति ॥ २० ॥
वृष᳚णं धी॒भिर॒प्तुरं॒ सोम᳚मृ॒तस्य॒ धार᳚या ।
म॒ती विप्रा॒ः सम᳚स्वरन् ॥
वृष᳚णम् । धी॒भिः । अ॒प्॑तुर᳚म् । सोम᳚म् । ऋ॒तस्य᳚ । धार᳚या ।
म॒ती । विप्राः᳚ । सम् । अ॒स्व॒र॒न् ॥
विप्रा मेधाविनऋत्विजः वृषणं कामानां वर्षकं अप्तुरमपांप्रेरकं सोमं धीभिरंगुली- भिर्मती मत्या च ऋतस्योदकस्य धारया समस्वरन्प्रेरयन्ति ॥ २१ ॥
पव᳚स्व देवायु॒षगिन्द्रं᳚ गच्छतु ते॒ मदः᳚ ।
वा॒युमा रो᳚ह॒ धर्म᳚णा ॥
पव᳚स्व । दे॒व॒ । आ॒यु॒षक् । इन्द्र᳚म् । ग॒च्छ॒तु॒ । ते॒ । मदः᳚ ।
वा॒युम् । आ । रो॒ह॒ । धर्म᳚णा ॥
हे देव द्योतमान सोम पवस्व धारया क्षर । अपिच ते तव मदो मदकरोरस आयु- षगनुवक्तमिन्द्रं प्रतिगच्छतु । अपिच त्वं वायुं धर्मणा धारकेन रसेनारोह प्राप्नुहि ॥ २२ ॥
पव᳚मान॒ नि तो᳚शसे र॒यिं सो᳚म श्र॒वाय्य᳚म् ।
प्रि॒यः स᳚मु॒द्रमा वि᳚श ॥
पव᳚मान । नि । तो॒श॒से॒ । र॒यिम् । सो॒म॒ । श्र॒वाय्य᳚म् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥
हे पवमान सोम यस्त्वं श्रवाय्यं श्रवणीयं रयिं शत्रूणां धनं नितोशसे नितरां पीडयसि सत्वं प्रियःसन् समुद्रं द्रोणकलशमाविश ॥ २३ ॥
अ॒प॒घ्नन्प᳚वसे॒ मृधः᳚ क्रतु॒वित्सो᳚म मत्स॒रः ।
नु॒दस्वादे᳚वयुं॒ जन᳚म् ॥
अ॒प॒॑घ्नन् । प॒व॒से॒ । मृधः᳚ । क्र॒तु॒॑वित् । सो॒म॒ । म॒त्स॒रः ।
नु॒दस्व᳚ । अदे᳚व॑युम् । जन᳚म् ॥
हे सोम मत्सरो मदकरो यस्त्वं मृधोहिंसकान् शत्रून् अपघ्नन् मारयन् क्रतुविदस्म- भ्यं प्रज्ञां प्रयच्छन् पवसे क्षरसि । सत्वदेवयुमदेवकामं जनं राक्षसवर्गं नुदस्व प्रेरय ॥ २४ ॥
पव᳚माना असृक्षत॒ सोमा᳚ः शु॒क्रास॒ इन्द᳚वः ।
अ॒भि विश्वा᳚नि॒ काव्या᳚ ॥
पव᳚मानाः । अ॒सृ॒क्ष॒त॒ । सोमाः᳚ । शु॒क्रासः᳚ । इन्द᳚वः ।
अ॒भि । विश्वा᳚नि । काव्या᳚ ॥
शुक्रास उज्ज्वला इन्दवोदीप्ताः पवमानाः क्षरन्तः सोमाः विश्वानि काव्या काव्यानि स्तोत्राण्यभ्यसृक्षत सृज्यन्ते ऋत्विग्भिः ॥ २५ ॥
पव᳚मानास आ॒शवः᳚ शु॒भ्रा अ᳚सृग्र॒मिन्द᳚वः ।
घ्नन्तो॒ विश्वा॒ अप॒ द्विषः᳚ ॥
पव᳚मानासः । आ॒शवः᳚ । शु॒भ्राः । अ॒सृ॒ग्र॒म् । इन्द᳚वः ।
घ्नन्तः᳚ । विश्वाः᳚ । अप᳚ । द्विषः᳚ ॥
आशवः शीघ्राः शुभ्राः शोभनाः पवमानासः क्षरन्त इन्दवो दीप्ताः सोमा विश्वाः सर्वान्द्विषोद्वेष्टृन् शत्रूनपघ्नन्तो मारयन्तः असृग्रमसृज्यन्ते ॥ २६ ॥
पव᳚माना दि॒वस्पर्य॒न्तरि᳚क्षादसृक्षत ।
पृ॒थि॒व्या अधि॒ सान᳚वि ॥
पव᳚मानाः । दि॒वः । परि᳚ । अ॒न्तरि᳚क्षात् । अ॒सृ॒क्ष॒त॒ ।
पृ॒थि॒व्याः । अधि᳚ । सान᳚वि ॥
पवमानाः सोमाः दिवो द्युलोकादन्तरिक्षाच्च पृथिव्या भूम्याअधि सानवि समुच्छ्रिते देशे देवयजने पर्यसृक्षत सृज्यन्ते ॥ २७ ॥
पु॒ना॒नः सो᳚म॒ धार॒येन्दो॒ विश्वा॒ अप॒ स्रिधः᳚ ।
ज॒हि रक्षां᳚सि सुक्रतो ॥
पु॒ना॒नः । सो॒म॒ । धार᳚या । इन्दो॒ इति᳚ । विश्वा᳚ । अप᳚ । स्रिधः᳚ ।
ज॒हि । रक्षां᳚सि । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ॥
हे इन्दो दीप्त सुक्रतो सुकर्मन् सोम धारया पुनानः पूयमानस्त्वं विश्वाः सर्वान् स्निधो द्वेष्टृन् शत्रून् रक्षांसि राक्षसांश्चापजहि मारय ॥ २८ ॥
अ॒प॒घ्नन्त्सो᳚म र॒क्षसो॒॑भ्य᳚र्ष॒ कनि᳚क्रदत् ।
द्यु॒मन्तं॒ शुष्म᳚मुत्त॒मम् ॥
अ॒प॒॑घ्नन् । सो॒म॒ । र॒क्षसः᳚ । अ॒भि । अ॒र्ष॒ । कनि᳚क्रदत् ।
द्यु॒॑मन्त᳚म् । शुष्म᳚म् । उ॒त्॑त॒मम् ॥
हे सोम त्वं रक्षसो रक्षांस्यपघ्नन् विनाशयन् कनिक्रदच्छब्दंकुर्वन् द्युमन्तं दीप्तिमन्तमु- त्तमं श्रेष्ठं शुष्मं बलमभ्यर्षास्मान् प्रति पवस्व ॥ २९ ॥
अ॒स्मे वसू᳚नि धारय॒ सोम᳚ दि॒व्यानि॒ पार्थि᳚वा ।
इन्दो॒ विश्वा᳚नि॒ वार्या᳚ ॥
अ॒स्मे इति᳚ । वसू᳚नि । धा॒र॒य॒ । सोम᳚ । दि॒व्यानि᳚ । पार्थि᳚वा ।
इन्दो॒ इति᳚ । विश्वा᳚नि । वार्या᳚ ॥
हे इन्दो दीप्त सोम दिव्यानि दिविभवानि पार्थिवा पार्थिवानि पृथिव्यां जातानि च विश्वा सर्वाणि वार्या वार्याणि वरणीयानि वसून्यस्मेस्मासु धारय प्रक्षिप ॥ ३० ॥
वृषासोमेति त्रिंशदृचं चतुर्थंसूक्तं मारीचस्यं कश्यपस्यार्षं गायत्रं पमानसौम्यम् । तथाचानुक्रान्तं—वृषासोमकश्यपइति । उक्तोविनियोगः ।