नवमं मण्डलम् - सूक्तम् 59

4 ऋचः

ऋषिः: अवत्सारः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.59 - सम्पूर्णम्

1 / 4
ऋक्: 9.59.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
9.59.1
पव᳚स्व गो॒जिद᳚श्व॒जिद्वि᳚श्व॒जित्सो᳚म रण्य॒जित् ।
प्र॒जाव॒द्रत्न॒मा भ᳚र ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । गो॒॑जित् । अ॒श्व॒॑जित् । वि॒श्व॒॑जित् । सो॒म॒ । र॒ण्य॒॑जित् ।
प्र॒जा॑व᳚त् । रत्न᳚म् । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम गोजित् शत्रूणां गवां जेता अश्वजित् अश्वानामपि जेता विश्वजित् विश्वस्य जग- तोजेता रण्यजित् रमणीयस्य धनस्यापि जेता त्वं पवस्व धारया क्षर । अपिचास्मभ्यं प्रजावत् पुत्राद्युपेतं रत्नं रमणीयं धनमाभराहर ॥ १ ॥

9.59.2
पव᳚स्वा॒द्भ्यो अदा᳚भ्य॒ः पव॒स्वौष᳚धीभ्यः ।
पव᳚स्व धि॒षणा᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । अ॒त्॑भ्यः । अदा᳚भ्यः । पव᳚स्व । ओष᳚धीभ्यः ।
पव᳚स्व । धि॒षणा᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वमद्भ्योवसतीवरीभ्योदाभ्योंशुभ्यश्च पवस्व क्षर । अपिचौषधीभ्यः पवस्व क्षर । किंच धिषणाभ्योग्रावभ्यः पवस्व क्षर ॥ २ ॥

9.59.3
त्वं सो᳚म॒ पव᳚मानो॒ विश्वा᳚नि दुरि॒ता त᳚र ।
क॒विः सी᳚द॒ नि ब॒र्हिषि᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । पव᳚मानः । विश्वा᳚नि । दुः॒॑इ॒ता । त॒र॒ ।
क॒विः । सी॒द॒ । नि । ब॒र्हिषि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमानः पूयमानः कविः क्रान्तकर्मा त्वं विश्वानि सर्वाणि दुरिता दुरितानि राक्षसैः कृतान्युपद्रवाणि तर निराकुरु अस्मिन् बर्हिषि निषीदच ॥ ३ ॥

9.59.4
पव᳚मान॒ स्व᳚र्विदो॒ जाय᳚मानो॑भवो म॒हान् ।
इन्दो॒ विश्वा{4}᳚ अ॒भीद᳚सि ॥
▶ पदपाठः (Word-by-word)
पव᳚मान । स्वः᳚ । वि॒दः॒ । जाय᳚मानः । अ॒भ॒वः॒ । म॒हान् ।
इन्दो॒ इति᳚ । विश्वा᳚न् । अ॒भि । इत् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान सोम त्वं स्वः सर्वं विदो यजमानाय प्रयच्छ । अपिच जायमानः प्रादुर्भवन्नेव महान् पूजनीयो भवोसि । किंच हे इन्दो सोम त्वं विश्वान् सर्वानेव शत्रून् अभ्यसि तेजसा- भिभवसि ॥ ४ ॥

प्रगायत्रेणेति चतुरृचं षट्त्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षं तृतीयापुरउष्णिक् आद्यद्वाद- शकोद्भ्यष्टकौ । शिष्टागायत्रः पवमानः सोमोदेवता । तथाचानुक्रान्तं—प्रगायत्रेणोपान्त्यापुर- उष्णिगिति । उक्तोविनियोगः ।