नवमं मण्डलम् - सूक्तम् 86

48 ऋचः

ऋषिः: आकृष्टा माषाः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.86 - सम्पूर्णम्

1 / 48
ऋक्: 9.86.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (48)
9.86.1
प्र त᳚ आ॒शवः᳚ पवमान धी॒जवो॒ मदा᳚ अर्षन्ति रघु॒जा इ᳚व॒ त्मना᳚ ।
दि॒व्याः सु᳚प॒र्णा मधु᳚मन्त॒ इन्द᳚वो म॒दिन्त᳚मास॒ः परि॒ कोश᳚मासते ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । आ॒शवः᳚ । प॒व॒मा॒न॒ । धी॒॑जवः᳚ । मदाः᳚ । अ॒र्ष॒न्ति॒ । र॒घु॒जाः॑इ᳚व । त्मना᳚ ।
दि॒व्याः । सु॒॑प॒र्णाः । मधु᳚॑मन्तः । इन्द᳚वः । म॒दिन्॑त᳚मासः । परि᳚ । कोश᳚म् । आ॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमान सोम ते ता आशवोव्याप्ताः धीजवोमनोवेगामदाः मदकरारसाः अर्षन्ति गच्छन्ति त्मना आत्मनैव अनायासेनइत्यर्थः । कइव रघुजाइव रघुःशीघ्रगावडवा तत्रजाता रघुजास्तेइव निर्गतास्तेदित्र्याः दिविभवाः अन्तरिक्षे दशापवित्रे धार्यमाणाइत्य- र्थः । सुपर्णाः सुपतनाः मधुमन्तोमाधुर्योपेताः मदिन्तमासः अतिशयेनमादयितृतमाः इन्द- वोदीप्तारसाः कोशंद्रोणकलशं पर्यासते पर्युपविशंति ॥ १ ॥

9.86.2
प्र ते॒ मदा᳚सो मदि॒रास᳚ आ॒शवो॑सृ᳚क्षत॒ रथ्या᳚सो॒ यथा॒ पृथ᳚क् ।
धे॒नुर्न व॒त्सं पय᳚सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द᳚वो॒ मधु᳚मन्त ऊ॒र्मयः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । मदा᳚सः । म॒दि॒रासः᳚ । आ॒शवः᳚ । असृ᳚क्षत । रथ्या᳚सः । यथा᳚ । पृथ᳚क् ।
धे॒नुः । न । व॒त्सम् । पय᳚सा । अ॒भि । व॒ज्रिण᳚म् । इन्द्र᳚म् । इन्द᳚वः । मधु᳚॑मन्तः । ऊ॒र्मयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रासृक्षत प्रसृज्यन्ते ते तव मदिरासोमदकरा आशवोव्याप्ता मदासः सोमरसाः । कइव रथ्यासोरथ्याअश्वास्तेयथा तथापृथक् प्रसृज्यन्ते तेमधुमन्तोमाधुर्योपेताऊर्मयः प्रवृद्धरसाः इन्दवाः सोमाः धेनुः पयसा वत्समिव स्वरसेन वज्रिणमिन्द्रमभिगच्छन्ति ॥ २ ॥

9.86.3
अत्यो॒ न हि᳚या॒नो अ॒भि वाज᳚मर्ष स्व॒र्वित्कोशं᳚ दि॒वो अद्रि᳚मातरम् ।
वृषा᳚ प॒वित्रे॒ अधि॒ सानो᳚ अ॒व्यये॒ सोमः᳚ पुना॒न इ᳚न्द्रि॒याय॒ धाय᳚से ॥
▶ पदपाठः (Word-by-word)
अत्यः᳚ । न । हि॒या॒नः । अ॒भि । वाज᳚म् । अ॒र्ष॒ । स्वः॒॑वित् । कोश᳚म् । दि॒वः । अद्रि᳚॑मातरम् ।
वृषा᳚ । प॒वित्रे᳚ । अधि᳚ । सानौ᳚ । अ॒व्यये᳚ । सोमः᳚ । पु॒ना॒नः । इ॒न्द्रि॒याय᳚ । धाय᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्योन अश्वइव हियानःप्रेर्यमाणोवाजं संग्रामं अभ्यर्ष अभिगच्छ । तथा स्वर्वित् सर्व- वित् कोशं द्रोणकलशं दिवोद्युलोकात् अद्रिमातरं अद्रिर्मेघः तेनतज्जन्यमुदकंलक्ष्यते तस्य निर्मातारमभ्यर्ष । अथप्रत्यक्षकृतः वृषा वर्षकः सोमः अव्यये अविमये पवित्रे दशापवित्रे अधिसानौ अधीतिसप्तम्यर्थानुवादी समुच्छ्रिते तस्मिन् पुनानः पूयमानोभवति । किमर्थं धायसे धारकाय इन्द्रियाय तदर्थम् ॥ ३ ॥

9.86.4
प्र त॒ आश्वि᳚नीः पवमान धी॒जुवो᳚ दि॒व्या अ᳚सृग्र॒न्पय᳚सा॒ धरी᳚मणि ।
प्रान्तरृष᳚य॒ः स्थावि᳚रीरसृक्षत॒ ये त्वा᳚ मृ॒जन्त्यृ᳚षिषाण वे॒धसः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । आश्वि᳚नीः । प॒व॒मा॒न॒ । धी॒॑जुवः᳚ । दि॒व्याः । अ॒सृ॒ग्र॒न् । पय᳚सा । धरी᳚मणि ।
प्र । अ॒न्तः । ऋष᳚यः । स्थावि᳚रीः । अ॒सृ॒क्ष॒त॒ । ये । त्वा॒ । मृ॒जन्ति᳚ । ऋ॒षि॒॑सा॒ण॒ । वे॒धसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम ते तव आश्विनीः व्याप्ताः अशूव्याप्तावित्यस्मादौणादिकोविनिः । ततः अण् व्यत्ययेनाद्युदात्तः धीजुवोमनोवेगाः दैव्याःदिविभवाः दिवःपतंत्योधाराः पयसायुक्ताः धरीमणि धारके द्रोणकलशे प्रासृग्रन् गच्छन्ति येवेधसः विधातारः ऋषयः हेसोम ऋषि षाण ऋषिभिःसंभक्त त्वा त्वां मृजन्ति अभिषुण्वन्ति ते ऋषयः । स्थाविरीः स्थविराधा- राः अन्तर्मध्ये पात्रस्थान्तः प्रासृक्षत प्रसृजन्ति ॥ ४ ॥

9.86.5
विश्वा॒ धामा᳚नि विश्वचक्ष॒ ऋभ्व᳚सः प्र॒भोस्ते᳚ स॒तः परि᳚ यन्ति के॒तवः᳚ ।
व्या॒न॒शिः प᳚वसे सोम॒ धर्म᳚भि॒ः पति॒र्विश्व᳚स्य॒ भुव᳚नस्य राजसि ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । धामा᳚नि । वि॒श्व॒॑च॒क्षः॒ । ऋभ्व᳚सः । प्र॒॑भोः । ते॒ । स॒तः । परि᳚ । य॒न्ति॒ । के॒तवः᳚ ।
वि॒॑आ॒न॒शिः । प॒व॒से॒ । सो॒म॒ । धर्म᳚॑भिः । पतिः᳚ । विश्व᳚स्य । भुव᳚नस्य । रा॒ज॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वचक्षः सर्वस्यद्रष्टः सोम प्रभोः परिवृढस्य सतस्ते तव ऋभ्वसः ऋभ्वाइति महन्नाम महान्तः केतवोरश्मयोविश्वा सर्वाणि धामानि तेजः स्थानानि देवशरीराणि परियन्ति परिगच्छन्ति प्रकाशयन्तीत्यर्थः । हे सोम व्यानशिः व्यापनशीलक्षत्वं धर्म- भिर्धारकैः रसनिष्पंदैः पवसे पूयसे । विश्वस्य भुवनस्यचपतिः स्वामी त्वं राजसि ईश्वरोभवसि ॥ ५ ॥

9.86.6
उ॒भ॒यत॒ः पव᳚मानस्य र॒श्मयो᳚ ध्रु॒वस्य᳚ स॒तः परि᳚ यन्ति के॒तवः᳚ ।
यदी᳚ प॒वित्रे॒ अधि᳚ मृ॒ज्यते॒ हरि॒ः सत्ता॒ नि योना᳚ क॒लशे᳚षु सीदति ॥
▶ पदपाठः (Word-by-word)
उ॒भ॒यतः᳚ । पव᳚मानस्य । र॒श्मयः᳚ । ध्रु॒वस्य᳚ । स॒तः । परि᳚ । य॒न्ति॒ । के॒तवः᳚ ।
यदि᳚ । प॒वित्रे᳚ । अधि᳚ । मृ॒ज्यते᳚ । हरिः᳚ । सत्ता᳚ । नि । योना᳚ । क॒लशे᳚षु । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानस्य पूयमानस्य ध्रुवस्य स्वयमविचलितस्य सतः विद्यमानस्य सोमस्य केतवः प्रज्ञापका रश्मयः उभयत इतश्चामुतश्च परियन्ति परिगच्छन्ति अभिषवसमयएवंभवति । यदि यदा पवित्रे दशापवित्रे हरिर्हरितवर्णोयं अधिमृज्यते तदानीं सत्ता सदनशीलोयं योना योनौ स्वीयेस्थाने कलशेषु द्रोणकलशादिषु निषीदति ॥ ६ ॥

9.86.7 समानपद
य॒ज्ञस्य᳚ के॒तुः प᳚वते स्वध्व॒रः सोमो᳚ दे॒वाना॒मुप᳚ याति निष्कृ॒तम् ।
स॒हस्र᳚धार॒ः परि॒ कोश᳚मर्षति॒ वृषा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु᳚वत् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञस्य᳚ । के॒तुः । प॒व॒ते॒ । सु॒॑अ॒ध्व॒रः । सोमः᳚ । दे॒वाना᳚म् । उप᳚ । या॒ति॒ । निः॒॑कृ॒तम् ।
स॒हस्र᳚॑धारः᳚ । परि᳚ । कोश᳚म् । अ॒र्ष॒ति॒ । वृषा᳚ । प॒वित्र᳚म् । अति᳚ । ए॒ति॒ । रोरु᳚वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्यकेतुः प्रज्ञापकः स्वध्वरः शोभनयागः सोमः पवते पूयतेभिषूयते । तादृशः सोमो देवानांनिष्कृतं संस्कृतं स्थानमुपयाति उपगच्छति । तदर्थं सहस्रधारः कोशं द्रोणकलशं पर्यर्षति ततः तदर्थं वृषा सेक्तायं रोरुवत् शब्दयन् पवित्रमत्येति अतिक्रम्य गच्छत्यधो- देशम् ॥ ७ ॥

9.86.8 समानपद
राजा᳚ समु॒द्रं न॒द्यो॒३॒᳚ वि गा᳚हते॒॑पामू॒र्मिं स᳚चते॒ सिन्धु᳚षु श्रि॒तः ।
अध्य᳚स्था॒त्सानु॒ पव᳚मानो अ॒व्ययं॒ नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वः ॥
▶ पदपाठः (Word-by-word)
राजा᳚ । स॒मु॒द्रम् । न॒द्यः᳚ । वि । गा॒ह॒ते॒ । अ॒पाम् । ऊ॒र्मिम् । स॒च॒ते॒ । सिन्धु᳚षु । श्रि॒तः ।
अधि᳚ । अ॒स्था॒त् । सानु᳚ । पव᳚मानः । अ॒व्यय᳚म् । नाभा᳚ । पृ॒थि॒व्याः । ध॒रुणः᳚ । म॒हः । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमोराजा समुद्रमन्तरिक्षं नद्यस्तत्रत्याअपश्च विगाहते विगाह्यचापामूर्मिं सचते उदकपूरंस्रवति सिंधुषु उदकेषु ग्रहेषुचाश्रितःसन् हूयमानःसन् रश्मिद्वारा सूर्यंप्राप्यान्त- रिक्षे मेघेषुवर्ततइत्यर्थः । अस्यैव वृष्टिसाधनत्वात् । यद्वा लुप्तोपममेतत् समुद्रंनद्यइव सिं- धुषुवसतीवरीषु श्रितआश्रितः सन् समुद्रमभिषुतसोमरसाधारपात्रं विगाहते अभिषवात् पूर्वम् । पश्चात्पवमानः पूयमानोव्ययं सानु समुच्छ्रितं दशापवित्रं अध्यस्थात् अधितिष्ठति कुत्रदेशे नाभापृथिव्या नाभिस्थानीयेयज्ञे तत्संबन्धिनि हविर्धानइत्यर्थः । यज्ञमाहुर्भुवनस्य- नाभिमितिश्रुतेः । कीदृशः महोदिवो द्युलोकस्य धरुणोधर्ता ॥ ७ ॥

9.86.9
दि॒वो न सानु᳚ स्त॒नय᳚न्नचिक्रद॒द्द्यौश्च॒ यस्य᳚ पृथि॒वी च॒ धर्म᳚भिः ।
इन्द्र᳚स्य स॒ख्यं प᳚वते वि॒वेवि᳚द॒त्सोमः᳚ पुना॒नः क॒लशे᳚षु सीदति ॥
▶ पदपाठः (Word-by-word)
दि॒वः । न । सानु᳚ । स्त॒नय᳚न् । अ॒चि॒क्र॒द॒त् । द्यौः । च॒ । यस्य᳚ । पृ॒थि॒वी । च॒ । धर्म᳚॑भिः ।
इन्द्र᳚स्य । स॒ख्यम् । प॒व॒ते॒ । वि॒॑वेवि᳚दत् । सोमः᳚ । पु॒ना॒नः । क॒लशे᳚षु । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोन सानु स्तनयन् द्युलोकस्य समुच्छ्रितंस्थानं शब्दयन्निवाचिक्रदत् क्रन्दते यस्य सोमस्य धर्मभिः धारणैर्द्योःपृथिवीच धृते स्यातां वृष्टिप्रदानद्वारौषध्याद्युत्पदनेन देवानां- हविर्भागेन चोभयधारकत्वंप्रसिद्धम् । तादृशः सोमोमहानुभावः पुनानः पूयमनः इन्द्रस्य सख्यं विवेविदत् पवते पूयते पवित्रे । सपुनानः सोमः कलशेषु सीदति निवसति ॥ ९ ॥

9.86.10
ज्योति᳚र्य॒ज्ञस्य᳚ पवते॒ मधु᳚ प्रि॒यं पि॒ता दे॒वानां᳚ जनि॒ता वि॒भूव᳚सुः ।
दधा᳚ति॒ रत्नं᳚ स्व॒धयो᳚रपी॒च्यं᳚ म॒दिन्त᳚मो मत्स॒र इ᳚न्द्रि॒यो रसः᳚ ॥
▶ पदपाठः (Word-by-word)
ज्योतिः᳚ । य॒ज्ञस्य᳚ । प॒व॒ते॒ । मधु᳚ । प्रि॒यम् । पि॒ता । दे॒वाना᳚म् । ज॒नि॒ता । वि॒भु॑व᳚सुः ।
दधा᳚ति । रत्न᳚म् । स्व॒धयोः᳚ । अ॒पी॒च्य᳚म् । म॒दिन्॑त᳚मः । म॒त्स॒रः । इ॒न्द्रि॒यः । रसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञस्यज्योतिः प्रकाशकः सोमः प्रियंदेवानां मधु मधुरं रसंपवते क्षरति । यद्वा ज्यो- तिर्यज्ञस्येत्येतदपि मधुविशेषणम् । तथा सत्युक्तलक्षणंमधु पवते पूयतइत्यर्थः । सोमरसो- विशेष्यते पिता रक्षिता देवानाम् । उत्पादयिता सर्वस्य । विभुवसुः प्रभूतधनः ईदृशः सस्व धयोर्द्यावापृथिव्योः । स्वधे पुरंधी इति द्यावापृथिवीनामसुपठितः । तयोरपीच्यमन्तर्हितं रत्नंमणीयंधनं दधाति स्थापयति स्तोतृषु । पुनः सएवविशेष्यते मदिन्तमः मादयितृतमः मत्सरः सोमःइन्द्रियः इन्द्रेण जुष्ट इन्द्रस्यवर्धकोवा रसोरसरूपः ॥ १० ॥

9.86.11 समानपद
अ॒भि॒क्रन्द᳚न्क॒लशं᳚ वा॒ज्य᳚र्षति॒ पति᳚र्दि॒वः श॒तधा᳚रो विचक्ष॒णः ।
हरि᳚र्मि॒त्रस्य॒ सद᳚नेषु सीदति मर्मृजा॒नो॑वि᳚भि॒ः सिन्धु᳚भि॒र्वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑क्रन्द᳚न् । क॒लश᳚म् । वा॒जी । अ॒र्ष॒ति॒ । पतिः᳚ । दि॒वः । श॒त॑धा᳚रः । वि॒॑च॒क्ष॒णः ।
हरिः᳚ । मि॒त्रस्य᳚ । सद᳚नेषु । सी॒द॒ति॒ । म॒र्मृ॒जा॒नः । अवि᳚॑भिः । सिन्धु᳚॑भिः । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजी वेजनवान् गमनवान् अश्वसदृशोवा सोमः अभिक्रन्दन् शब्दंकुर्वन् कलशमभ्यन्त गच्छति । कीदृशोवाजी दिवः पतिः द्युलोकस्यस्वामी शतधारः शतसंख्याकधारः विचक्षणो विद्रष्टा हरिर्हरितवर्णोरसात्मकः सोमोमित्रस्य देवानां मित्रभूतस्य यज्ञस्य वा सदनेषुस्था नेषु सीदति पात्रेषु धृतःसन् । कीदृशोहरिः सिन्धुभिः स्यन्दनसाधनैः अविभिर्दशापवित्र- च्छिदैर्मर्मृजानः शोध्यमानोवृषा वर्षकः ॥ ११ ॥

9.86.12
अग्रे॒ सिन्धू᳚नां॒ पव᳚मानो अर्ष॒त्यग्रे᳚ वा॒चो अ᳚ग्रि॒यो गोषु᳚ गच्छति ।
अग्रे॒ वाज᳚स्य भजते महाध॒नं स्वा᳚यु॒धः सो॒तृभि᳚ः पूयते॒ वृषा᳚ ॥
▶ पदपाठः (Word-by-word)
अग्रे᳚ । सिन्धू᳚नाम् । पव᳚मानः । अ॒र्ष॒ति॒ । अग्रे᳚ । वा॒चः । अ॒ग्रि॒यः । गोषु᳚ । ग॒च्छ॒ति॒ ।
अग्रे᳚ । वाज᳚स्य । भ॒ज॒ते॒ । म॒हा॒॑ध॒नम् । सु॒॑आ॒यु॒धः । सो॒तृ॑भिः᳚ । पू॒य॒ते॒ । वृषा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सोमः पवमानः सिन्धूनां स्यन्दमानानामुदकानां अग्रे अर्षति गच्छति तथ्राअग्रियः अग्रार्हःश्रेष्ठोग्रेवाचोमाध्यमिकायाअग्रेअर्षति । तथा गोषु रश्मिषु गच्छति तथा वाजस्या- न्नस्य बलस्यवालाभाय महाधनं संग्रामं भजते सस्वायुधः वृषा वर्षकः सोमः सोतृभिः अभिषवकर्तृभिः पूयते ॥ १२ ॥

9.86.13
अ॒यं म॒तवा᳚ञ्छकु॒नो यथा᳚ हि॒तो॑व्ये᳚ ससार॒ पव᳚मान ऊ॒र्मिणा᳚ ।
तव॒ क्रत्वा॒ रोद᳚सी अन्त॒रा क᳚वे॒ शुचि᳚र्धि॒या प᳚वते॒ सोम᳚ इन्द्र ते ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । म॒त॑वा᳚न् । श॒कु॒नः । यथा᳚ । हि॒तः । अव्ये᳚ । स॒सा॒र॒ । पव᳚मानः । ऊ॒र्मिणा᳚ ।
तव᳚ । क्रत्वा᳚ । रोद᳚सी॒ इति᳚ । अ॒न्त॒रा । क॒वे॒ । शुचिः᳚ । धि॒या । प॒व॒ते॒ । सोमः᳚ । इ॒न्द्र॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमोमतवान् मतं संमतं प्रियं स्तोत्रं तद्वान् पवमानः पूयमानः शोध्यमानश्चसन् हितः प्रेरितः शकुनः पक्षी यथा शीघ्रंगच्छति तथा अव्येपवित्रे ऊर्मिणारसेन ससार गच्छाति । हेकवे क्रान्तप्रज्ञ अनूचानवा । येवाअनूचानास्तेकवयइतिश्रुतेः । तादृशेन्द्रयजमान यद्वा उक्तलक्षणेन्द्र ते तव क्रत्वा कर्मणा धियाप्रज्ञयाच यद्वा विशेषणविशॆष्यभावः धिया धारकेणक्रत्वाकर्मणा रोदसी अंतरा रोदस्योर्द्यावापृथिव्योर्मध्ये शुचिः सोमः पवते पूयते ॥ १३ ॥

9.86.14
द्रा॒पिं वसा᳚नो यज॒तो दि᳚वि॒स्पृश᳚मन्तरिक्ष॒प्रा भुव᳚ने॒ष्वर्पि᳚तः ।
स्व᳚र्जज्ञा॒नो नभ᳚सा॒भ्य᳚क्रमीत्प्र॒त्नम᳚स्य पि॒तर॒मा वि᳚वासति ॥
▶ पदपाठः (Word-by-word)
द्रा॒पिम् । वसा᳚नः । य॒ज॒तः । दि॒वि॒॑स्पृश᳚म् । अ॒न्त॒रि॒क्ष॒॑प्राः । भुव᳚नेषु । अर्पि᳚तः ।
स्वः᳚ । ज॒ज्ञा॒नः । नभ᳚सा । अ॒भि । अ॒क्र॒मी॒त् । प्र॒त्नम् । अ॒स्य॒ । पि॒तर᳚म् । आ । वि॒वा॒स॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिविस्पृशं दिवः स्प्रष्टारं द्रापिं कवचं तेजोरूपं वसानः आच्छादयन् यजतोयष्टव्योन्त रिक्षप्राः अंतरिक्षस्यपूरकः उदकेन तादृशः सोमोभुवनेषूदकेष्वर्पितः स्वः सर्वंस्वनयामिन- व्यं देवसंघं स्वर्गंवा जज्ञानः जनयन् अथवा स्वरुदकं तज्जनयन् नभसा उदकेन अभ्य- क्रमीत् अभिक्रामति अस्योदकस्य पितरं पालकं प्रत्नं पुराणं इन्द्रं आविवासति परिचरति ॥ १४ ॥

9.86.15 समानपद
सो अ᳚स्य वि॒शे महि॒ शर्म᳚ यच्छति॒ यो अ᳚स्य॒ धाम᳚ प्रथ॒मं व्या᳚न॒शे ।
प॒दं यद᳚स्य पर॒मे व्यो᳚म॒न्यतो॒ विश्वा᳚ अ॒भि सं या᳚ति सं॒यतः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । अ॒स्य॒ । वि॒शे । महि᳚ । शर्म᳚ । य॒च्छ॒ति॒ । यः । अ॒स्य॒ । धाम᳚ । प्र॒थ॒मम् । वि॒॑आ॒न॒शे ।
प॒दम् । यत् । अ॒स्य॒ । प॒र॒मे । वि॑ओ᳚मनि । अतः᳚ । विश्वाः᳚ । अ॒भि । सम् । या॒ति॒ । स॒म्॑यतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमः अस्येन्द्रस्यविशे प्रवेशनाय महिमहत् शर्म सुखं यच्छति यःसोमोस्येन्द्रस्यप्राप्त तेजोयुक्तंशरीरं प्रथमं इतरदेवप्राप्तेः पूर्वं व्यानशे प्राप्तवान् यत् यस्यास्यसोमस्य प्रमेउत्कृ- ष्टे व्योमन् व्योमनि द्युलोके वेद्यांवा पदंस्थानं भवति यतोयस्मात् सोमात् तृप्तइन्द्रः सोमःस्वयं वा विश्वाः संयतः सर्वान् संग्रामान् अभिसंयाति सम्यगभिगच्छति ससोमो- महिशर्मयच्छतीतिसंबन्धः ॥ १५ ॥

9.86.16
प्रो अ᳚यासी॒दिन्दु॒रिन्द्र᳚स्य निष्कृ॒तं सखा॒ सख्यु॒र्न प्र मि᳚नाति सं॒गिर᳚म् ।
मर्य᳚ इव युव॒तिभि॒ः सम᳚र्षति॒ सोमः᳚ क॒लशे᳚ श॒तया᳚म्ना प॒था ॥
▶ पदपाठः (Word-by-word)
प्रो इति᳚ । अ॒या॒सी॒त् । इन्दुः᳚ । इन्द्र᳚स्य । निः॒॑कृ॒तम् । सखा᳚ । सख्युः᳚ । न । प्र । मि॒ना॒ति॒ । स॒म्॑गिर᳚म् ।
मर्यः᳚॑इव । यु॒व॒ति॑भिः᳚ । सम् । अ॒र्ष॒ति॒ । सोमः᳚ । क॒लशे᳚ । श॒त॑या᳚म्ना । प॒था ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दुः सोमः इन्द्रस्यनिष्कृतं स्थानमुदरं प्रोअयासीत् प्रैवगच्छति गत्वाच सखा सखि- भूतः सोमः सख्युरिन्द्रस्य संगिरं सम्यग्गिरणाधारभूतं उदरं नप्रमिनाति नहिनस्ति । किंच मर्यइवयुवतिभिः मर्त्योयथा युवतिभिः सहसंगतोभवति तद्वदयमपि सोमोयुवतिभिर्मिश्रण- शी लाभिर्वसतीवरीभिरद्भिः सह समर्षति संगच्छते अभिषवकाले पश्चात्सोमः शतयाम्ना अनेकयामनसाधनच्छिद्रोपेतेन पथामार्गेण दशापवित्रसंबन्धिनि कलशे द्रोणकलशे गच्छती तिशॆषः । यद्वैकमेववाक्यम् । यथा मर्योयुवतिभिः सहसंगच्छते एवं कलशे शातयाम्ना- पथा संगच्छतेद्भिः ॥ १६ ॥

9.86.17
प्र वो॒ धियो᳚ मन्द्र॒युवो᳚ विप॒न्युवः᳚ पन॒स्युवः᳚ सं॒वस᳚नेष्वक्रमुः ।
सोमं᳚ मनी॒षा अ॒भ्य᳚नूषत॒ स्तुभो॒॑भि धे॒नव॒ः पय᳚सेमशिश्रयुः ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । धियः᳚ । म॒न्द्र॒॑युवः᳚ । वि॒प॒न्युवः᳚ । प॒न॒स्युवः᳚ । स॒म्॑वस᳚नेषु । अ॒क्र॒मुः॒ ।
सोम᳚म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः᳚ । अ॒भि । धे॒नवः᳚ । पय᳚सा । ई॒म् । अ॒शि॒श्र॒युः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वोयुष्माकं धियोध्यातारः मन्द्रयुवः मदकरं शब्दं कामयमानाः पनस्युवः स्तुतिं कामयमानाः विपन्युवः स्तोतृनामैतत् स्तोतारः संवसनेषु संवासयोग्येषु यागगृहेषु प्राक्रमुः प्रक्रमन्ते । तदेवाह सोमं मनीषाः मनसईशाः ईश्वराः स्तोतारः अभ्यनूषत अभिष्टुवन्ति धेनवोपि पयसा स्वीयेन ईमेनंसोममभ्यशिश्नयुः अभिश्रीणन्ति ॥ १७ ॥

9.86.18 समानपद
आ नः᳚ सोम सं॒यतं᳚ पि॒प्युषी॒मिष॒मिन्दो॒ पव᳚स्व॒ पव᳚मानो अ॒स्रिध᳚म् ।
या नो॒ दोह᳚ते॒ त्रिरह॒न्नस᳚श्चुषी क्षु॒मद्वाज᳚व॒न्मधु᳚मत्सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । सो॒म॒ । स॒म्॑यत᳚म् । पि॒प्युषी᳚म् । इष᳚म् । इन्दो॒ इति᳚ । पव᳚स्व । पव᳚मानः । अ॒स्रिध᳚म् ।
या । नः॒ । दोह᳚ते । त्रिः । अह᳚न् । अस᳚श्चुषी । क्षु॒॑मत् । वाज᳚॑वत् । मधु᳚॑मत् । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्दो दीप्तसोम पवमानस्त्वं नोस्माकं संयतं संगृहीतं पिप्युषीं प्रवृद्धमिषमन्नं अस्रि- धं अक्षीणं आपवस्व प्रयच्छेत्यर्थः । या यादृशी नोस्माकं अहन् अहनि अह्नः त्रिः त्रिषु सवनेषु असश्चुषी अप्रतिबंधादोहते क्षरति । किं क्षुमत् शब्दोपेतं सर्वत्रश्नूयमाणं वाजवत् मधुमत् माधुर्योपेतं सुवीर्यं शोभनसामर्थ्यं पुत्रं दोहते तां इषं पवस्वेति समन्वयः ॥ १८ ॥

9.86.19
वृषा᳚ मती॒नां प᳚वते विचक्ष॒णः सोमो॒ अह्न᳚ः प्रतरी॒तोषसो᳚ दि॒वः ।
क्रा॒णा सिन्धू᳚नां क॒लशा{4}᳚ अवीवश॒दिन्द्र᳚स्य॒ हार्द्या᳚वि॒शन्म᳚नी॒षिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒॑च॒क्ष॒णः । सोमः᳚ । अह्नः᳚ । प्र॒॑त॒री॒ता । उ॒षसः᳚ । दि॒वः ।
क्रा॒णा । सिन्धू᳚नाम् । क॒लशा᳚न् । अ॒वी॒व॒श॒त् । इन्द्र᳚स्य । हार्दि᳚ । आ॒॑वि॒शन् । म॒नी॒षि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंसोमः पवते अभिषूयते । कीदृशःसोमः मतीनां मतयः स्तोतारः तेषां वृषा वर्षकः कामानां विचक्षणोविद्रष्टा अह्नः उषसोदिवोद्युलोकस्यादित्यस्यवा प्रतरीता वर्धयिता । किंच सिंधूनां स्यंदमानानां उदकानां क्राणा कर्ता करोतेः शानचि बहुलंछन्दसीति विक- रणस्यलुक् । सुपांसुलुगित्याकारः कलशानवीवशत् कामयते प्रवेष्टुम् । किंकुर्वन् इन्द्रस्यहार्दि हृदयमाविशन् प्रविशन् मनीषिभिः स्तुतइतिशेषः । यद्वा व्यवहितमपि मनीषिभिरित्ये- तत्पवतइत्यनेन संबध्यते ॥ १९ ॥

9.86.20 समानपद
म॒नी॒षिभि᳚ः पवते पू॒र्व्यः क॒विर्नृभि᳚र्य॒तः परि॒ कोशा{4}᳚ अचिक्रदत् ।
त्रि॒तस्य॒ नाम᳚ ज॒नय॒न्मधु᳚ क्षर॒दिन्द्र᳚स्य वा॒योः स॒ख्याय॒ कर्त᳚वे ॥
▶ पदपाठः (Word-by-word)
म॒नी॒षि॑भिः᳚ । प॒व॒ते॒ । पू॒र्व्यः । क॒विः । नृ॑भिः᳚ । य॒तः । परि᳚ । कोशा᳚न् । अ॒चि॒क्र॒द॒त् ।
त्रि॒तस्य᳚ । नाम᳚ । ज॒नय᳚न् । मधु᳚ । क्ष॒र॒त् । इन्द्र᳚स्य । वा॒योः । स॒ख्याय᳚ । कर्त᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंसोमोमनीषिभिर्मेधाविभिरध्वर्य्त्वादिभिः पवते पूयते यद्वायं मनीषिभिः मनीषिणी भिः धाराभिः पवते क्षरति । कीदृशोयं पूर्व्यः पुराणः कविर्मेधावी नृभिर्नेतृभिरध्वर्य्वा- दिभिः यतः नियमितः सन् कोशान् कलशान् प्राप्तुं पर्यचिक्रदत् परिक्रन्दते शब्दंकरोति त्रितस्य त्रिषुस्थानेषु विस्तृतस्येन्द्रस्य यजमानस्यसंबन्धि नाम नामकमुदकं जनयन् उत्पा दयन् मधु मधुरंरसं क्षरत् क्षरति किमर्थं इन्द्रस्य वायोश्च सख्याय कर्तवे सख्यं कर्तुं ॥ २० ॥

9.86.21 समानपद
अ॒यं पु᳚ना॒न उ॒षसो॒ वि रो᳚चयद॒यं सिन्धु᳚भ्यो अभवदु लोक॒कृत् ।
अ॒यं त्रिः स॒प्त दु᳚दुहा॒न आ॒शिरं॒ सोमो᳚ हृ॒दे प᳚वते॒ चारु᳚ मत्स॒रः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । पु॒ना॒नः । उ॒षसः᳚ । वि । रो॒च॒य॒त् । अ॒यम् । सिन्धु᳚॑भ्यः । अ॒भ॒व॒त् । ऊं॒ इति᳚ । लो॒क॒॑कृत् ।
अ॒यम् । त्रिः । स॒प्त । दु॒दु॒हा॒नः । आ॒॑शिर᳚म् । सोमः᳚ । हृ॒दे । प॒व॒ते॒ । चारु᳚ । म॒त्स॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः पुनानः पूयमानः उषसो विरोचयत् विविधं रोचयति । अयं सिंधुभ्यः स्यन्दमानेभ्योद्भ्यो वसतीवरीभ्यः अभवत् समृद्धोभवति उइतिपूरणः कीदृशोयं लोककृत् लोकानांकर्ता वर्षकत्वाद्रेतोधारकत्वाद्वास्यलोककृत्त्वम् । अयं सोमः त्रिःसप्त एकविंशतिंवा ऋत्विङ्मुखेन आशिरं दुदुहानः दुहानः दोहस्यप्रयोजकत्वात्कर्तुरुपचारः मत्सरोमदकरः चारु रमणीयं पवते क्षरति । किमर्थं हृदे हृदयाय हृदयगमनाय ॥ २१ ॥

9.86.22
पव᳚स्व सोम दि॒व्येषु॒ धाम᳚सु सृजा॒न इ᳚न्दो क॒लशे᳚ प॒वित्र॒ आ ।
सीद॒न्निन्द्र᳚स्य ज॒ठरे॒ कनि᳚क्रद॒न्नृभि᳚र्य॒तः सूर्य॒मारो᳚हयो दि॒वि ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । सो॒म॒ । दि॒व्येषु᳚ । धाम᳚॑सु । सृ॒जा॒नः । इ॒न्दो॒ इति᳚ । क॒लशे᳚ । प॒वित्रे᳚ । आ ।
सीद᳚न् । इन्द्र᳚स्य । ज॒ठरे᳚ । कनि᳚क्रदत् । नृ॑भिः᳚ । य॒तः । सूर्य᳚म् । आ । अ॒रो॒ह॒यः॒ । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम दिव्येषु धामसु स्थानेषु देवानांसंबन्धिषूदरेष्वित्यर्थः तेषु पवस्व क्षर । कीदृ- शान् हे इन्दो दीप्त सोम कलशे पवित्रे आ दशापवित्रे च । आइतिचार्थे । सृजानः सृज्य- मानः । अत्राग्निहोत्रं जुहोति यवागूं पचतीतिवदार्थिकः क्रमोवगंतव्यः । किंचेन्द्रस्य जठरे सीदन् जठरं गच्छन् कनिक्रदत् शब्दंकुर्वन् नृभिर्नेतृभिरृत्विग्भिः यतः परिगृहीतःहुतइत्यर्थः । तथाभूतः सन् दिविसूर्यमारेहयः प्रादुर्भूतमकरोः ॥ २२ ॥

9.86.23 समानपद
अद्रि᳚भिः सु॒तः प᳚वसे प॒वित्र॒ आ{4} इन्द॒विन्द्र᳚स्य ज॒ठरे᳚ष्वावि॒शन् ।
त्वं नृ॒चक्षा᳚ अभवो विचक्षण॒ सोम᳚ गो॒त्रमङ्गि᳚रोभ्यो॑वृणो॒रप᳚ ॥
▶ पदपाठः (Word-by-word)
अद्रि᳚॑भिः । सु॒तः । प॒व॒से॒ । प॒वित्रे᳚ । आ । इन्दो॒ इति᳚ । इन्द्र᳚स्य । ज॒ठरे᳚षु । आ॒॑वि॒शन् ।
त्वम् । नृ॒॑चक्षाः᳚ । अ॒भ॒वः॒ । वि॒॑च॒क्ष॒ण॒ । सोम᳚ । गो॒त्रम् । अङ्गि᳚रः॑भ्यः । अ॒वृ॒णोः॒ । अप᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम अद्रिभिः ग्रावभिः सुतोभिषुतस्त्वं पवसे क्षरसि पूयसेवा पवित्रे आ दशापवित्रे । आइतिपूरणः । यद्वा अभिषुतोभवसि पवसेचेति चार्थआकारः । किंकुर्वन् इन्द्रस्य जठरेषु जठरप्रदेशेषु आविशान् जठरप्रदेशायेत्यर्थः । किंच हे विचक्षण विद्रष्टः सोम त्वं नृचक्षाः अभवः नृणां मनुष्याणामनुग्रहेण द्रष्टाभवसि । किंच हे विचक्षण विद्र- ष्टः सोम त्वं नृचक्षाः अभवः नृणां मनुष्याणामनुग्रहेण द्रष्टाभवसि । किंच हे सोम त्वं अंगिरोभ्योगोत्रं मेघमुदकं क्षारयितुं पणिभिरपहृतानां गवामावरकं पर्वतंवा अपावृणोः ॥ २३ ॥

9.86.24
त्वां सो᳚म॒ पव᳚मानं स्वा॒ध्यो॑नु॒ विप्रा᳚सो अमदन्नव॒स्यवः᳚ ।
त्वां सु᳚प॒र्ण आभ᳚रद्दि॒वस्परीन्दो॒ विश्वा᳚भिर्म॒तिभि॒ः परि᳚ष्कृतम् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । सो॒म॒ । पव᳚मानम् । सु॒॑आ॒ध्यः᳚ । अनु᳚ । विप्रा᳚सः । अ॒म॒द॒न् । अ॒व॒स्यवः᳚ ।
त्वाम् । सु॒॑प॒र्णः । आ । अ॒भ॒र॒त् । दि॒वः । परि᳚ । इन्दो॒ इति᳚ । विश्वा᳚भिः । म॒ति॑भिः᳚ । परि᳚॑कृतम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमानं त्वां स्वाध्यः सुमतयः सुकर्माणोवा विप्रसोविप्रा मेधाविनः स्तोतारः अवस्यवोरक्षाकामा अन्वमदन् अनुष्टुवन्ति । हे इन्दो त्वां सुपर्णः श्येन आभरत् आहरत् दिवस्परि द्युलोकस्योपरि द्युलोकादित्यर्थः । कीदृशं त्वां विश्वाभिर्मतिभिः सर्वा- भिः स्तुतिभिः परिष्कृतमलंकृतं ॥ २४ ॥

9.86.25
अव्ये᳚ पुना॒नं परि॒ वार᳚ ऊ॒र्मिणा॒ हरिं᳚ नवन्ते अ॒भि स॒प्त धे॒नवः᳚ ।
अ॒पामु॒पस्थे॒ अध्या॒यवः᳚ क॒विमृ॒तस्य॒ योना᳚ महि॒षा अ᳚हेषत ॥
▶ पदपाठः (Word-by-word)
अव्ये᳚ । पु॒ना॒नम् । परि᳚ । वारे᳚ । ऊ॒र्मिणा᳚ । हरि᳚म् । न॒व॒न्ते॒ । अ॒भि । स॒प्त । धे॒नवः᳚ ।
अ॒पाम् । उ॒प॑स्थे᳚ । अधि᳚ । आ॒यवः᳚ । क॒विम् । ऋ॒तस्य᳚ । योना᳚ । म॒हि॒षाः । अ॒हे॒ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अव्ये अविमये वारे वाले दशापवित्रे ऊर्मिणा रसेन परि परितः पुनानं पवमानं हरिं हरितवर्णं सोमं अभिनवन्ते अभिगच्छन्ति सप्तधेनवः प्रीणयित्र्यः सप्त गायत्र्याद्याः सप्त गंगाद्या नद्योवा नवते क्षोदते इतिगतिकर्मसुपठितः । किंच कविं त्वां अपामुपस्थे अ- न्तरिक्षस्योत्संगे ऋतस्य योना योनौ उदकनामैतत् ऋतंयोनिः ऋतस्ययोनिरिति तन्नाम- सुपाठात् उदके महिषाः महान्तआयवोमनुष्याः अध्यहेषत अधिकं प्रेरयन्ति ॥ २५ ॥

9.86.26
इन्दु᳚ः पुना॒नो अति᳚ गाहते॒ मृधो॒ विश्वा᳚नि कृ॒ण्वन्त्सु॒पथा᳚नि॒ यज्य᳚वे ।
गाः कृ᳚ण्वा॒नो नि॒र्णिजं᳚ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार᳚मर्षति ॥
▶ पदपाठः (Word-by-word)
इन्दुः᳚ । पु॒ना॒नः । अति᳚ । गा॒ह॒ते॒ । मृधः᳚ । विश्वा᳚नि । कृ॒ण्वन् । सु॒॑पथा᳚नि । यज्य᳚वे ।
गाः । कृ॒ण्वा॒नः । निः॒॑निज᳚म् । ह॒र्य॒तः । क॒विः । अत्यः᳚ । न । क्रीळ᳚न् । परि᳚ । वार᳚म् । अ॒र्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्दुः दीप्तः सोमः पुनानः पूयमानःअतिगाहते अतिक्रम्य गच्छति । मृधः शत्रून् । किंकुर्वन् विश्वानि गंतव्यानि सुवर्त्मानि वैदिकानि लौकिकानिच सुपथानि कृण्वन् कुर्वन् कस्मै यज्यवे यागकर्त्रे यजमानाय शत्रून् परिहरन् मार्गान् सुपथान् कुर्वन् कलशं प्रवि- शतीत्यर्थः । किंच निर्निजं आत्मीयं रूपं गाः कृण्वानोरसमयान् कुर्वाणइत्यर्थः हर्यतः कान्तः हर्यगतिकांत्योः औणादिकः अतच् कविः क्रान्तप्रज्ञः एवंभूतः सोमः अत्योन अश्वइव क्रीळण् वारं दशापवित्रं पर्यर्षति परिगच्छति ॥ २६ ॥

9.86.27
अ॒स॒श्चतः᳚ श॒तधा᳚रा अभि॒श्रियो॒ हरिं᳚ नव॒न्ते॑व॒ ता उ᳚द॒न्युवः᳚ ।
क्षिपो᳚ मृजन्ति॒ परि॒ गोभि॒रावृ᳚तं तृ॒तीये᳚ पृ॒ष्ठे अधि᳚ रोच॒ने दि॒वः ॥
▶ पदपाठः (Word-by-word)
अ॒स॒श्चतः᳚ । श॒त॑धा᳚राः । अ॒भि॒॑श्रियः᳚ । हरि᳚म् । न॒व॒न्ते॒ । अव᳚ । ताः । उ॒द॒न्युवः᳚ ।
क्षिपः᳚ । मृ॒ज॒न्ति॒ । परि᳚ । गोभिः᳚ । आ॑वृ᳚तम् । तृ॒तीये᳚ । पृ॒ष्ठे । अधि᳚ । रो॒च॒ने । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

असश्चतः परस्परमसंगताः शतधाराः अभिश्रियः अभितः सोमंश्रयन्त्यः ताः प्रसिद्धाः सूर्यस्य रश्मयो हरिं अवनवन्ते गच्छन्ति । उदन्युवः उदकेच्छावत्यः यद्वा धाराशब्देनात्र सोमधारा अभिप्रेताः असश्छतोसंबद्धाः अभिश्रियःअभितोगाः श्रयंत्यः गोभिः श्रिताः ताः प्रसिद्धा उदन्युव इन्द्रसंबन्धि वृष्टिकामा हरिमिन्द्रं अवनवन्ते संगच्छन्ते क्षिपोंगुलयोपि गोभिः दीप्तिपक्षे गोभीरश्मिभिरावृतं सोमधारापक्षे गोभिः पर्यावृतं व्याप्तं सोमं मृजन्ति अवशोधयन्ति । दिव आदित्याद्रोचने रोचमाने यमादित्योरोचयति तस्मिन् तृतीयेपृष्ठे क्षित्यपेक्षायां तृतीयभूते द्युलोके अधिवसन्तं सोमंमृजन्ति ॥ २७ ॥

9.86.28
तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत᳚स॒स्त्वं विश्व᳚स्य॒ भुव᳚नस्य राजसि ।
अथे॒दं विश्वं᳚ पवमान ते॒ वशे॒ त्वमि᳚न्दो प्रथ॒मो धा᳚म॒धा अ᳚सि ॥
▶ पदपाठः (Word-by-word)
तव᳚ । इ॒माः । प्र॒॑जाः । दि॒व्यस्य᳚ । रेत᳚सः । त्वम् । विश्व᳚स्य । भुव᳚नस्य । रा॒ज॒सि॒ ।
अथ᳚ । इ॒दम् । विश्व᳚म् । प॒व॒मा॒न॒ । ते॒ । वशे᳚ । त्वम् । इ॒न्दो॒ इति᳚ । प्र॒थ॒मः । धा॒म॒॑धाः । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तव दिव्यस्य रेतसः सकाशादिमाःप्रजा उत्पद्यमानाः प्राणिनउत्पन्नाः । सोमोवैरेतोधाइ- ति श्रुतेः । त्वं विश्वस्य भुवनस्य राजसि ईशरोभवसि । अथपिचेदंविश्वं हे पवमान ते वशे त्वदधीनं वर्तते । हे इन्दो प्रथमोमुख्यस्त्वं धामधाः धाम्नोधर्ता असि भवसि ॥ २८ ॥

9.86.29
त्वं स᳚मु॒द्रो अ᳚सि विश्व॒वित्क᳚वे॒ तवे॒माः पञ्च᳚ प्र॒दिशो॒ विध᳚र्मणि ।
त्वं द्यां च᳚ पृथि॒वीं चाति᳚ जभ्रिषे॒ तव॒ ज्योतीं᳚षि पवमान॒ सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । स॒मु॒द्रः । अ॒सि॒ । वि॒श्व॒॑वित् । क॒वे॒ । तव᳚ । इ॒माः । पञ्च᳚ । प्र॒॑दिशः᳚ । वि॑ध᳚र्मणि ।
त्वम् । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । अति᳚ । ज॒भ्रि॒षे॒ । तव᳚ । ज्योतीं᳚षि । प॒व॒मा॒न॒ । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवे क्रान्तप्रज्ञ त्वं यस्मात्समुद्रः वर्षसाधनोपां अतोविशविदसि । यद्वा समुद्रोद्रवा- त्मकोसि विशविच्चासि । किंच तव विधर्मणि विधारणे इमाः पंचप्रदिशः प्रकृष्टादिशोभ- वन्तीतिशॆषः । त्वं द्यांच दिवं च पृथिवींच अतिजभ्रिषे बिभर्षि । हे पवमान सूर्योदेवस्त- वज्योतींषि आप्याययति ॥ २९ ॥

9.86.30
त्वं प॒वित्रे॒ रज᳚सो॒ विध᳚र्मणि दे॒वेभ्य᳚ः सोम पवमान पूयसे ।
त्वामु॒शिजः᳚ प्रथ॒मा अ᳚गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव᳚नानि येमिरे ॥
▶ पदपाठः (Word-by-word)
त्वम् । प॒वित्रे᳚ । रज᳚सः । वि॑ध᳚र्मणि । दे॒वेभ्यः᳚ । सो॒म॒ । प॒व॒मा॒न॒ । पू॒य॒से॒ ।
त्वाम् । उ॒शिजः᳚ । प्र॒थ॒माः । अ॒गृ॒भ्ण॒त॒ । तुभ्य᳚ । इ॒मा । विश्वा᳚ । भुव᳚नानि । ये॒मि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमान त्वं रजसोलोकस्य रसस्यवा विधर्मणि विधारके दशापवित्रे देवेभ्यः देवार्थं पूयसे । त्वामुशिजः कामयमाना ऋत्विजः प्रथमाः प्रतमामुख्याः अगृभ्णत गृह्णंति । तुभ्य तुभ्यं इमा इमानि विश्वा सर्वाणि भुवनानि भूतजातानि येमिरे यच्छन्त्यात्मानं ॥ ३० ॥

9.86.31
प्र रे॒भ ए॒त्यति॒ वार᳚म॒व्ययं॒ वृषा॒ वने॒ष्वव᳚ चक्रद॒द्धरि᳚ः ।
सं धी॒तयो᳚ वावशा॒ना अ᳚नूषत॒ शिशुं᳚ रिहन्ति म॒तय॒ः पनि᳚प्नतम् ॥
▶ पदपाठः (Word-by-word)
प्र । रे॒भः । ए॒ति॒ । अति᳚ । वार᳚म् । अ॒व्यय᳚म् । वृषा᳚ । वने᳚षु । अव᳚ । च॒क्र॒द॒त् । हरिः᳚ ।
सम् । धी॒तयः᳚ । वा॒व॒शा॒नाः । अ॒नू॒ष॒त॒ । शिशु᳚म् । रि॒ह॒न्ति॒ । म॒तयः᳚ । पनि᳚प्नतम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रेभः शब्दयिता । रेभृशब्दे । सोमः अव्ययं अविमयं वारं वालं प्रत्येति प्रकर्षेणातिग- च्छति । वृषा सेक्ता सोमोवनेषूदकेषु अवचक्रदत् अवक्रंदत् । हरिर्हरितवर्णः सोमः । समनू- षत संस्तुवन्ति । के धीतयोध्यातारो वावशाना यागं सोमंवाकामयमानाः शिशुं शिशुव- त्संस्कर्तव्यं सोमं मतयः स्तुतयोरिहन्ति लिहन्ति स्पृशंति स्वविषयीकुर्वन्तीत्यर्थः । कीदृशं पनिप्नतं शब्दयंतं ॥ ३१ ॥

9.86.32
स सूर्य᳚स्य र॒श्मिभि॒ः परि᳚ व्यत॒ तन्तुं᳚ तन्वा॒नस्त्रि॒वृतं॒ यथा᳚ वि॒दे ।
नय᳚न्नृ॒तस्य᳚ प्र॒शिषो॒ नवी᳚यसी॒ः पति॒र्जनी᳚ना॒मुप᳚ याति निष्कृ॒तम् ॥
▶ पदपाठः (Word-by-word)
सः । सूर्य᳚स्य । र॒श्मि॑भिः᳚ । परि᳚ । व्य॒त॒ । तन्तु᳚म् । त॒न्वा॒नः । त्रि॒॑वृत᳚म् । यथा᳚ । वि॒दे ।
नय᳚न् । ऋ॒तस्य᳚ । प्र॒॑शिषः᳚ । नवी᳚यसीः । पतिः᳚ । जनी᳚नाम् । उप᳚ । या॒ति॒ । निः॒॑कृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमः सूर्यस्यरश्मिभिः परिव्यत परिवेष्टयत्यात्मानम् । किंकुर्वन् त्रिवृतं सवनैर्देवैर्वात्रि- वृतं तंतुं यज्ञं तन्वानः विस्तारयन् । यथा विदे जानाति येनप्रकारेण संपूर्णमवगच्छति तस्माएवं जनीनांपतिः पालकः स्वामी निष्कृतं संस्कृतं पात्रं उपयाति गच्छति ॥ ३२ ॥

9.86.33
राजा॒ सिन्धू᳚नां पवते॒ पति᳚र्दि॒व ऋ॒तस्य᳚ याति प॒थिभि॒ः कनि᳚क्रदत् ।
स॒हस्र᳚धार॒ः परि᳚ षिच्यते॒ हरि᳚ः पुना॒नो वाचं᳚ ज॒नय॒न्नुपा᳚वसुः ॥
▶ पदपाठः (Word-by-word)
राजा᳚ । सिन्धू᳚नाम् । प॒व॒ते॒ । पतिः᳚ । दि॒वः । ऋ॒तस्य᳚ । या॒ति॒ । प॒थि॑भिः᳚ । कनि᳚क्रदत् ।
स॒हस्र᳚॑धारः । परि᳚ । सि॒च्य॒ते॒ । हरिः᳚ । पु॒ना॒नः । वाच᳚म् । ज॒नय᳚न् । उप᳚॑वसुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धूनां नदीनामुदकानां राजा ईश्वरः दिवः पतिः द्युलोकस्यस्वामीसोमः पवते पूयते । ऋतस्य यज्ञस्य पथिभिः मार्गैः कनिक्रदच्छब्दंकुर्वन् याति सहस्रधारोबहुधारायुक्तः सोमोन्रुभीर्नेतृभिः परिषिच्यते पात्रेषु । पुनानः पूयमानोवाचं शब्दं जनयन् उत्पादयन् उपावसुः उपगच्छद्धनः परिषिच्यतइति समन्वयः ॥ ३३ ॥

9.86.34
पव᳚मान॒ मह्यर्णो॒ वि धा᳚वसि॒ सूरो॒ न चि॒त्रो अव्य᳚यानि॒ पव्य᳚या ।
गभ᳚स्तिपूतो॒ नृभि॒रद्रि᳚भिः सु॒तो म॒हे वाजा᳚य॒ धन्या᳚य धन्वसि ॥
▶ पदपाठः (Word-by-word)
पव᳚मान । महि᳚ । अर्णः᳚ । वि । धा॒व॒सि॒ । सूरः᳚ । न । चि॒त्रः । अव्य᳚यानि । पव्य᳚या ।
गभ᳚स्ति॑पूतः । नृ॑भिः᳚ । अद्रि᳚॑भिः । सु॒तः । म॒हे । वाजा᳚य । धन्या᳚य । ध॒न्व॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम मह्यर्णोबहूदकं अर्णइत्युदकनाम रसंवा विधावसि गमयसि । धावुग- तिशुध्योः । किंच सूरोन चित्रः सूर्यइव चित्रः चायनीयः पूज्यःसन् अव्ययानि अविमया- नि पव्यया पात्राणि गच्छसि । किंच गभस्तिपूतोबहुभिरभिशोधितः नृभिरृत्विग्भिः ग्राव- भिश्च सुतोभिषुतो महेमहते वाजाय संग्रामायधन्याय धनेभ्योहिताय धन्वसि गच्छसि । धन्वतिर्गतिकर्मा ॥ ३४ ॥

9.86.35
इष॒मूर्जं᳚ पवमाना॒भ्य᳚र्षसि श्ये॒नो न वंसु᳚ क॒लशे᳚षु सीदसि ।
इन्द्रा᳚य॒ मद्वा॒ मद्यो॒ मदः᳚ सु॒तो दि॒वो वि᳚ष्ट॒म्भ उ᳚प॒मो वि᳚चक्ष॒णः ॥
▶ पदपाठः (Word-by-word)
इष᳚म् । ऊर्ज᳚म् । प॒व॒मा॒न॒ । अ॒भि । अ॒र्ष॒सि॒ । श्ये॒नः । न । वंसु᳚ । क॒लशे᳚षु । सी॒द॒सि॒ ।
इन्द्रा᳚य । मद्वा᳚ । मद्यः᳚ । मदः᳚ । सु॒तः । दि॒वः । वि॒ष्ट॒म्भः । उ॒प॒॑मः । वि॒॑च॒क्ष॒णः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमानसोम इषमन्नं ऊर्जं बलंचाभ्यर्षसि । श्योनोन श्योनइव वंसु वननी- येषु कुलायेषु कलशेषु सीदसि निषण्णोभवसि । अथपरोक्षकृतः । इन्द्राय मद्वा मदकरो- मद्योमदहेतुः मदोरसः सुतोभिषुतः । कीदृशः दिवोद्युलोकस्योपमः उपमीयमानोविष्टंभो- विशॆषेणस्तंभयिता स्थूणा यथागृहं तथा तद्वत् विचक्षणोविद्रष्टा । स्थूणेवजनाँउपमिदि- त्युक्तं ॥ ३५ ॥

9.86.36
स॒प्त स्वसा᳚रो अ॒भि मा॒तर॒ः शिशुं॒ नवं᳚ जज्ञा॒नं जेन्यं᳚ विप॒श्चित᳚म् ।
अ॒पां ग᳚न्ध॒र्वं दि॒व्यं नृ॒चक्ष᳚सं॒ सोमं॒ विश्व᳚स्य॒ भुव᳚नस्य रा॒जसे᳚ ॥
▶ पदपाठः (Word-by-word)
स॒प्त । स्वसा᳚रः । अ॒भि । मा॒तरः᳚ । शिशु᳚म् । नव᳚म् । ज॒ज्ञा॒नम् । जेन्य᳚म् । वि॒पः॒॑चित᳚म् ।
अ॒पाम् । ग॒न्ध॒र्वम् । दि॒व्यम् । नृ॒॑चक्ष᳚सम् । सोम᳚म् । विश्व᳚स्य । भुव᳚नस्य । रा॒जसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्त सर्पणस्वभावाः सप्तसंख्याकावा स्वसारः मातरो मातृस्थानीया गंगायमुनाद्याः शिशुं शिशुस्थानीयं अभिगच्छन्तीतिशॆषः । स्वकीयैः पयोभिराच्छादयन्तीतिशॆषः । कीदृशं शिशुं नवं जज्ञानं जायमानं जेन्यं जयशीलंविपश्चितं विद्वांसं अपांजनकं तेषांमध्ये वर्तमानं वा गंधर्वं उदकस्यधातारं दिव्यं दिविभवं नृचक्षसं नृणांद्रष्टारंसोमं अभिगच्छन्ति किमर्थं विश्वस्य भुवनस्य राजसे विराजनार्थं ॥ ३६ ॥

9.86.37
ई॒शा॒न इ॒मा भुव᳚नानि॒ वीय᳚से युजा॒न इ᳚न्दो ह॒रितः᳚ सुप॒र्ण्य᳚ः ।
तास्ते᳚ क्षरन्तु॒ मधु᳚मद्घृ॒तं पय॒स्तव᳚ व्र॒ते सो᳚म तिष्ठन्तु कृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
ई॒शा॒नः । इ॒मा । भुव᳚नानि । वि । ई॒य॒से॒ । यु॒जा॒नः । इ॒न्दो॒ इति᳚ । ह॒रितः᳚ । सु॒॑प॒र्ण्यः᳚ ।
ताः । ते॒ । क्ष॒र॒न्तु॒ । मधु᳚॑मत् । घृ॒तम् । पयः᳚ । तव᳚ । व्र॒ते । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम ईशानः सर्वस्य स्वामी त्वं इमा इमानि भुवनानि भूतजातानि वीयसे गच्छसि वीगत्यादिषु । किंकुर्वन् हरितोहरितवर्णः सुपर्ण्यः सुपतनाश्चाश्वाः रथे युजानो योजयन् ताः सुपर्ण्यः ते तव संबन्धिन्यः मधुमत् माधुर्योपेतं घृतं दीप्तं पयउदकं क्षरन्तु । हेसोम तव व्रते कर्मणि तिष्ठन्तु कृष्टयोमनुष्याःसर्वे ॥ ३७ ॥

9.86.38
त्वं नृ॒चक्षा᳚ असि सोम वि॒श्वत॒ः पव᳚मान वृषभ॒ ता वि धा᳚वसि ।
स नः᳚ पवस्व॒ वसु᳚म॒द्धिर᳚ण्यवद्व॒यं स्या᳚म॒ भुव᳚नेषु जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । नृ॒॑चक्षाः᳚ । अ॒सि॒ । सो॒म॒ । वि॒श्वतः᳚ । पव᳚मान । वृ॒ष॒भ॒ । ता । वि । धा॒व॒सि॒ ।
सः । नः॒ । प॒व॒स्व॒ । वसु᳚॑मत् । हिर᳚ण्य॑वत् । व॒यम् । स्या॒म॒ । भुव᳚नेषु । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं विश्वतः सर्वतः भुवनेषु नृचक्षाः नृणांद्रष्टा असि भवसि । हे पवमा- न वृषभ अपांवर्षक ताअपोविधावसि विविधंगच्छसि सत्वं नोस्माकं पवस्व क्षर । किं वसुमत् बहुभिर्वसुभिर्वासकैर्गवादिद्रव्यैर्युक्तं तथा हिरण्यवत् बहुभिहिंरण्यैर्युक्तं धनं वयंच वसुभिर्हिंरण्यैर्युक्ताः भुवनेषु लोकेषु जीवसे जीवितुं प्रभवः स्याम भवेम ॥ १३९ ॥

9.86.39
गो॒वित्प᳚वस्व वसु॒विद्धि᳚रण्य॒विद्रे᳚तो॒धा इ᳚न्दो॒ भुव᳚ने॒ष्वर्पि᳚तः ।
त्वं सु॒वीरो᳚ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप᳚ गि॒रेम आ᳚सते ॥
▶ पदपाठः (Word-by-word)
गो॒॑वित् । प॒व॒स्व॒ । व॒सु॒॑वित् । हि॒र॒ण्य॒॑वित् । रे॒तः॒॑धाः । इ॒न्दो॒ इति᳚ । भुव᳚नेषु । अर्पि᳚तः ।
त्वम् । सु॒॑वीरः᳚ । अ॒सि॒ । सो॒म॒ । वि॒श्व॒॑वित् । तम् । त्वा॒ । विप्राः᳚ । उप᳚ । गि॒रा । इ॒मे । आ॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं पवस्व क्षर । कीदृशः गोवित् गवांलंभकः वसुवित् धनस्य लंभकः हिरण्यवित् हिरण्यस्य लंभकः रेतोधाः रेतउदकं तस्य धाता ओषधीनां यद्वा रेतः प्रज- ननसामर्थ्यं तस्य धारयिता भुवनेषु उदकेष्वर्पितः । हे इन्दो सोम त्वं सुवीरः सुवीर्योसि भवसि । विश्व वित्सर्वस्यवेत्ता तं त्वा त्वां इमेविप्रागिरास्तुत्याउपासते ॥ ३९ ॥

9.86.40
उन्मध्व᳚ ऊ॒र्मिर्व॒नना᳚ अतिष्ठिपद॒पो वसा᳚नो महि॒षो वि गा᳚हते ।
राजा᳚ प॒वित्र᳚रथो॒ वाज॒मारु᳚हत्स॒हस्र᳚भृष्टिर्जयति॒ श्रवो᳚ बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
उत् । मध्वः᳚ । ऊ॒र्मिः । व॒ननाः᳚ । अ॒ति॒स्थि॒प॒त् । अ॒पः । वसा᳚नः । म॒हि॒षः । वि । गा॒ह॒ते॒ ।
राजा᳚ । प॒वित्र᳚॑रथः । वाज᳚म् । आ । अ॒रु॒ह॒त् । स॒हस्र᳚॑भृष्टिः । ज॒य॒ति॒ । श्रवः᳚ । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मध्वः म्धुर्स्य्तोर्मीरसः वननाः वननीयावाचः उदतिष्ठिपत् उत्थापयति । सोमाभिषव- काले स्तुतिवाचः प्रवृत्तेः । अपोवसानः आच्छादयन् महिषोमहान् विगाहते प्रविशति कलशम् । राजा सोमः पवित्ररर्थः दशापवित्रं एवरथोयस्य सतथोक्तः तादृशः सोमोवाजं संग्राममारुहत् आरोहति । सहस्रभृष्टिः बहुभ्रंशः अपरिमितगमनो बृहच्छ्रवः महदन्नंजयति अस्यदर्थं ॥ ४० ॥

9.86.41 समानपद
स भ॒न्दना॒ उदि᳚यर्ति प्र॒जाव᳚तीर्वि॒श्वायु॒र्विश्वा᳚ः सु॒भरा॒ अह᳚र्दिवि ।
ब्रह्म᳚ प्र॒जाव᳚द्र॒यिमश्व᳚पस्त्यं पी॒त इ᳚न्द॒विन्द्र᳚म॒स्मभ्यं᳚ याचतात् ॥
▶ पदपाठः (Word-by-word)
सः । भ॒न्दनाः᳚ । उत् । इ॒य॒र्ति॒ । प्र॒जा॑व᳚तीः । वि॒श्व॑आ᳚युः । विश्वाः᳚ । सु॒॑भराः᳚ । अहः᳚॑दिवि ।
ब्रह्म᳚ । प्र॒जा॑व᳚त् । र॒यिम् । अश्व᳚॑पस्त्यम् । पी॒तः । इ॒न्दो॒ इति᳚ । इन्द्र᳚म् । अ॒स्मभ्य᳚म् । या॒च॒ता॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमः विश्वायुः सर्वस्यगन्ता सोमः प्रजावतीः प्रजारूपफलदात्र्यः सुभराः सुष्ठु ह्रिय माणा विश्वाः सर्वाभन्दनाः स्तुतीः उदियर्ति उत्कृष्टं प्रेरयति । कस्मिन्काले उच्यते । अह- र्दिवि अहोरात्रयोश्च । अथ प्रत्यक्षकृतः । ब्रह्मपरिवृढंफर्म प्रजावत् प्रजाभिर्युक्तं प्रजाफलकमि त्यर्थः । यद्वा ब्रह्मअन्नं तत्त्व प्रजावत् प्रजाद्युपेतं तथा रयिंधनं कीदृशं अशपस्त्यं व्याप्त- गृहं तदुभयं हे इन्दो दीप्तसोम पीत इन्द्रेण पीतस्त्वं त्वमेवेन्द्रमस्मभ्यं याचतात् याचस्व ॥ ४१ ॥

9.86.42
सो अग्रे॒ अह्नां॒ हरि᳚र्हर्य॒तो मद॒ः प्र चेत᳚सा चेतयते॒ अनु॒ द्युभि᳚ः ।
द्वा जना᳚ या॒तय᳚न्न॒न्तरी᳚यते॒ नरा᳚ च॒ शंसं॒ दैव्यं᳚ च ध॒र्तरि᳚ ॥
▶ पदपाठः (Word-by-word)
सः । अग्रे᳚ । अह्ना᳚म् । हरिः᳚ । ह॒र्य॒तः । मदः᳚ । प्र । चेत᳚सा । चे॒त॒य॒ते॒ । अनु᳚ । द्यु॑भिः᳚ ।
द्वा । जना᳚ । या॒तय᳚न् । अ॒न्तः । ई॒य॒ते॒ । नरा॒शंस᳚म् । च॒ । दैव्य᳚म् । च॒ । ध॒र्तरि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमोग्ने सर्वेषां संमुखं चेतसा प्राणिनां चेतनेनसह अह्नां द्युभीर्दीप्तिभिः अनुप्रचे- तयते अनुप्रज्ञापयते यद्वा अह्नामग्ने अग्रभागे प्रातरित्यर्थः स्तोतॄणां चेतसा प्रज्ञानेन द्युभिर्दीप्तिभिः स्तुतिभिश्चानु प्रचेतयते । कीदृशः सहरिर्हरितवर्णः हर्यतः कान्तः मदो- मदकरः । किंच द्वाजना द्वौजनौ स्तोतारं यष्टारंच याचयन् प्रापयन् स्वविहितेनकर्मणा लौकिकवैदिकौ द्वौजनौ द्रष्टव्यौ एवंकुर्वन्नन्तर्द्यावापृथिव्योर्मध्ये ईयते गच्छति । ईङ्गतौ । किंकुर्वन् नराशंसैः नरैः शंसनीयं मानुषमित्यर्थः दैव्यंचोभयविधं धनं धर्तरि धारके यज- माने प्रेरयन्नितिशेषः ॥ ४२ ॥

9.86.43
अ॒ञ्जते॒ व्य᳚ञ्जते॒ सम᳚ञ्जते॒ क्रतुं᳚ रिहन्ति॒ मधु᳚ना॒भ्य᳚ञ्जते ।
सिन्धो᳚रुच्छ्वा॒से प॒तय᳚न्तमु॒क्षणं᳚ हिरण्यपा॒वाः प॒शुमा᳚सु गृभ्णते ॥
▶ पदपाठः (Word-by-word)
अ॒ञ्जते᳚ । वि । अ॒ञ्ज॒ते॒ । सम् । अ॒ञ्ज॒ते॒ । क्रतु᳚म् । रि॒ह॒न्ति॒ । मधु᳚ना । अ॒भि । अ॒ञ्ज॒ते॒ ।
सिन्धोः᳚ । उ॒त्॑श्वा॒से । प॒तय᳚न्तम् । उ॒क्षण᳚म् । हि॒र॒ण्य॒॑पा॒वाः । प॒शुम् । आ॒सु॒ । गृ॒भ्ण॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोममृत्विजः अंजते गोभिः तथा व्यंजते विविधमञ्चन्ति समंजते सम्यगंजन्ति स्तुत्य- र्थत्वादपुनरुक्तिः । तथा क्रतुं बलकर्तारं रिहन्ति लिहन्ति आस्वादयन्ति देवाः तथा पुनर्म- धुना गव्येन अभ्यंजते तमेव सोमं सिंधोरुदकस्यरसस्याधारभूते उच्छ्वासे उच्छ्रितदेशे पतयन्तं गच्छन्तं पतॢगतावित्यस्मात्स्वार्थेणिचि वृद्भ्यभावश्छान्दसः । उक्षणं सेक्तारं हिरण्य पावाः हिरण्येन पुनन्तः पशुं द्रष्टारम् । पशुः पश्यतेरितिनिरुक्तम् । आसु वसतीवरीषु गृभ्णते गृह्णन्ति ॥ ४३ ॥

9.86.44
वि॒प॒श्चिते॒ पव᳚मानाय गायत म॒ही न धारात्यन्धो᳚ अर्षति ।
अहि॒र्न जू॒र्णामति᳚ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ᳚न्नसर॒द्वृषा॒ हरि᳚ः ॥
▶ पदपाठः (Word-by-word)
वि॒पः॒॑चिते᳚ । पव᳚मानाय । गा॒य॒त॒ । म॒ही । न । धारा᳚ । अति᳚ । अन्धः᳚ । अ॒र्ष॒ति॒ ।
अहिः᳚ । न । जू॒र्णाम् । अति᳚ । स॒र्प॒ति॒ । त्वच᳚म् । अत्यः᳚ । न । क्रीळ᳚न् । अ॒स॒र॒त् । वृषा᳚ । हरिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः विपश्चिते मेधाविने पवमानाय पूयमानाय गायत स्तुतिंकुरुत । सच विप श्चित्सोमः महीनधारा महतीवर्षधारेव अन्धोन्नंरसात्मकं अत्यर्षति अहिर्न अहिरिव जूर्णां जंस्तीत्वचमतिसर्पति अतिमुंचति अभिषवादिकर्मणा त्वचंमुंचतीत्यर्थः । तद्वदतिसर्पति धारा दशाद्यवित्रात् अत्योन अश्वइव क्रीळन् असरत् सरति गच्छति द्रोणकलशम् । वृषा वर्षकः कामत्वी हरि र्हरितवर्णोरसः ॥ ४४ ॥

9.86.45 समानपद
अ॒ग्रे॒गो राजाप्य᳚स्तविष्यते वि॒मानो॒ अह्नां॒ भुव᳚ने॒ष्वर्पि᳚तः ।
हरि᳚र्घृ॒तस्नु᳚ः सु॒दृशी᳚को अर्ण॒वो ज्यो॒तीर᳚थः पवते रा॒य ओ॒क्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्रे॒॑गः । राजा᳚ । अप्यः᳚ । त॒वि॒ष्य॒ते॒ । वि॒॑मानः᳚ । अह्ना᳚म् । भुव᳚नेषु । अर्पि᳚तः ।
हरिः᳚ । घृ॒त॑स्नुः᳚ । सु॒॑दृशी᳚कः । अ॒र्ण॒वः । ज्यो॒तिः॑र᳚थः । प॒व॒ते॒ । रा॒ये । ओ॒क्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्रेगः अग्रेगन्ता राजा राजमानः अप्यः अप्सुसंस्कृतः सोमः तनिष्यते स्तूयते योह्वां दिनानां विमानो विमाता । चन्द्रकलाह्रासवृद्भ्यधीनत्वादहर्व्यवहारस्य भुवनेषूद- केषु वसतीबरीसंबंधिष्वर्पितः स्थापितः सराजा तविष्यते । किंच हरिर्हरितवर्णः घृतस्नुः प्रसृतोदकः सुदृशीकः शोभनदर्शनः अर्णवः उदकवान् अर्णइत्युदकनाम । ज्योतीरथः ज्योति र्मयरथः राये सनस्य प्रापयिता ओक्यः ओकइतिनिवासनाम तस्यहितः एतादृशः सोमः पवते गच्छति ॥ ४५ ॥

9.86.46 समानपद
अस᳚र्जि स्क॒म्भो दि॒व उद्य᳚तो॒ मद॒ः परि᳚ त्रि॒धातु॒र्भुव᳚नान्यर्षति ।
अं॒शुं रि᳚हन्ति म॒तय॒ः पनि᳚प्नतं गि॒रा यदि᳚ नि॒र्णिज᳚मृ॒ग्मिणो᳚ य॒युः ॥
▶ पदपाठः (Word-by-word)
अस᳚र्जि । स्क॒म्भः । दि॒वः । उत्॑य᳚तः । मदः᳚ । परि᳚ । त्रि॒॑धातुः᳚ । भुव᳚नानि । अ॒र्ष॒ति॒ ।
अं॒शुम् । रि॒ह॒न्ति॒ । म॒तयः᳚ । पनि᳚प्नतम् । गि॒रा । यदि᳚ । निः॒॑निज᳚म् । ऋ॒ग्मिणः᳚ । य॒युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोद्युलोकस्य स्कंभः स्कंभयिता धारक उद्यतः मदः मादकः सोमः असर्जि सृज्यते अभिषूयतेइत्यर्थः । किंच त्रिधातुः द्रोणलकशाधवनीयपूतभृदाख्यास्त्रयोधातवोयस्य सतथोक्तः तादृशोभुवनानि उदकानि पर्यर्षति गच्छति अंशुं सोमं पनिप्नतं शब्दायमानं मतयः पूज- कारिहन्ति लिहंति आस्वादयन्ति कदा यदि यदा निर्निजं निर्निक्तं यद्वा निर्निगितिरूप- नाम रूपवन्तमित्यर्थः तं ऋग्मिणः स्तोतारोगिरास्तुत्या ययुर्गच्छन्ति तदा ॥ ४६ ॥

9.86.47 समानपद
प्र ते॒ धारा॒ अत्यण्वा᳚नि मे॒ष्य᳚ः पुना॒नस्य᳚ सं॒यतो᳚ यन्ति॒ रंह᳚यः ।
यद्गोभि᳚रिन्दो च॒म्वो᳚ः सम॒ज्यस॒ आ सु᳚वा॒नः सो᳚म क॒लशे᳚षु सीदसि ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । धाराः᳚ । अति᳚ । अण्वा᳚नि । मे॒ष्यः᳚ । पु॒ना॒नस्य᳚ । स॒म्॑यतः᳚ । य॒न्ति॒ । रंह᳚यः ।
यत् । गोभिः᳚ । इ॒न्दो॒ इति᳚ । च॒म्वोः᳚ । स॒म्॑अ॒ज्यसे᳚ । आ । सु॒वा॒नः । सो॒म॒ । क॒लशे᳚षु । सी॒द॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानस्य पूयमानस्य ते तव संयतः संगृह्यमाणाः रंहयोरंहणस्वभावा धाराः मेष्यः अण्वानि अणूनि लोमानि प्रतियन्ति अतिक्रम्यगच्छन्ति हे इन्दो सोम यद्यदा गोभिरु- दकैः चम्वोः अधिषवणफलकयोरुपरि समज्यते तदानीं हे सोम सुवानः सूयमानस्त्वं कलशेष्वासीदसि ॥ ४७ ॥

9.86.48
पव᳚स्व सोम क्रतु॒विन्न᳚ उ॒क्थ्यो॑व्यो॒ वारे॒ परि᳚ धाव॒ मधु᳚ प्रि॒यम् ।
ज॒हि विश्वा᳚न्र॒क्षस᳚ इन्दो अ॒त्रिणो᳚ बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । सो॒म॒ । क्र॒तु॒॑वित् । नः॒ । उ॒क्थ्यः᳚ । अव्यः᳚ । वारे᳚ । परि᳚ । धा॒व॒ । मधु᳚ । प्रि॒यम् ।
ज॒हि । विश्वा᳚न् । र॒क्षसः᳚ । इ॒न्दो॒ इति᳚ । अ॒त्रिणः᳚ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम नोस्माकं क्रतुवित् कर्मज्ञः स्तुतिज्ञइत्यर्थः उक्थ्यः स्तुत्यः यतः स्तुत्यः अतः क्रतुविदित्यभिप्रायः ईदृशस्त्वं नोस्माकं यागाय पवस्व स्रव रसं अव्योवारे दशापवित्रे प्रियं मधु परिधाव परिक्षर हे इन्दो दीप्त सोम अत्रिणो भक्षकान् विश्वान् रक्षसोजहि सुवीराः सुपुत्रावयं विदथे यज्ञे बृहन्महद्धनं वदेम उच्चारयेम याचेमेत्यर्थः । यद्वा प्रभूतं स्तोत्रं वदेमः ॥ ४८ ॥

प्रतुद्रवेतिनवर्चं द्वितीयंसूक्तं काव्यस्योशनसआर्षं अनादेशपरिभाषया त्रैदुभं पवमान- सोमदेवताकम् । तथाचानुक्रान्तं—प्रतुनवोशनाइति । जागतमूर्ध्वं प्रागुशनसइतिवचनाज्जगत्य- धिकारोनिवृत्तः । गतोविनियोगः ।