श्रवणम्

9.86.27
अ॒स॒श्चतः᳚ श॒तधा᳚रा अभि॒श्रियो॒ हरिं᳚ नव॒न्ते॑व॒ ता उ᳚द॒न्युवः᳚ ।
क्षिपो᳚ मृजन्ति॒ परि॒ गोभि॒रावृ᳚तं तृ॒तीये᳚ पृ॒ष्ठे अधि᳚ रोच॒ने दि॒वः ॥
▶ पदपाठः (Word-by-word)
अ॒स॒श्चतः᳚ । श॒त॑धा᳚राः । अ॒भि॒॑श्रियः᳚ । हरि᳚म् । न॒व॒न्ते॒ । अव᳚ । ताः । उ॒द॒न्युवः᳚ ।
क्षिपः᳚ । मृ॒ज॒न्ति॒ । परि᳚ । गोभिः᳚ । आ॑वृ᳚तम् । तृ॒तीये᳚ । पृ॒ष्ठे । अधि᳚ । रो॒च॒ने । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

असश्चतः परस्परमसंगताः शतधाराः अभिश्रियः अभितः सोमंश्रयन्त्यः ताः प्रसिद्धाः सूर्यस्य रश्मयो हरिं अवनवन्ते गच्छन्ति । उदन्युवः उदकेच्छावत्यः यद्वा धाराशब्देनात्र सोमधारा अभिप्रेताः असश्छतोसंबद्धाः अभिश्रियःअभितोगाः श्रयंत्यः गोभिः श्रिताः ताः प्रसिद्धा उदन्युव इन्द्रसंबन्धि वृष्टिकामा हरिमिन्द्रं अवनवन्ते संगच्छन्ते क्षिपोंगुलयोपि गोभिः दीप्तिपक्षे गोभीरश्मिभिरावृतं सोमधारापक्षे गोभिः पर्यावृतं व्याप्तं सोमं मृजन्ति अवशोधयन्ति । दिव आदित्याद्रोचने रोचमाने यमादित्योरोचयति तस्मिन् तृतीयेपृष्ठे क्षित्यपेक्षायां तृतीयभूते द्युलोके अधिवसन्तं सोमंमृजन्ति ॥ २७ ॥