नवमं मण्डलम् - सूक्तम् 11

9 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.11 - सम्पूर्णम्

1 / 9
ऋक्: 9.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
9.11.1
उपा᳚स्मै गायता नर॒ः पव᳚माना॒येन्द᳚वे ।
अ॒भि दे॒वा{4} इय᳚क्षते ॥
▶ पदपाठः (Word-by-word)
उप᳚ । अ॒स्मै॒ । गा॒य॒त॒ । न॒रः॒ । पव᳚मानाय । इन्द᳚वे ।
अ॒भि । दे॒वान् । इय᳚क्षते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरोनेतारो यज्ञस्य देवानिन्द्रादीन् अभीयक्षते आभिमुख्येन यष्टुमिच्छति पवमानाय क्षरते अस्माअभिषूयमाणायेन्दवे सोमाय उपगायत उपगानं कुरुत ॥ १ ॥

9.11.2
अ॒भि ते॒ मधु᳚ना॒ पयो॑थ᳚र्वाणो अशिश्रयुः ।
दे॒वं दे॒वाय᳚ देव॒यु ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ते॒ । मधु᳚ना । पयः᳚ । अथ᳚र्वाणः । अ॒शि॒श्र॒युः॒ ।
दे॒वम् । दे॒वाय᳚ । दे॒व॒॑यु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव देवं देवनशीलं देवयु देवयुं देवकामं रसं देवाय देवनशीलायेन्द्राय मधुना पगः गव्येन पयसा अथर्वाणऋषयः अभ्यशिश्रयुः अभ्य- श्रीणन् समस्कुर्वन्नित्यर्थः ॥ २ ॥

9.11.3
स नः᳚ पवस्व॒ शं गवे॒ शं जना᳚य॒ शमर्व᳚ते ।
शं रा᳚ज॒न्नोष᳚धीभ्यः ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । प॒व॒स्व॒ । शम् । गवे᳚ । शम् । जना᳚य । शम् । अर्व᳚ते ।
शम् । रा॒ज॒न् । ओष᳚धीभ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् दीप्यमान सोम सःप्रसिद्धस्त्वं नोस्मकं गवे शं सुखं पवस्व क्षर । जनाय पुत्रादये च शं पवस्व । अर्वत्तेश्वायच शं पवस्व । ओषधी- भ्यश्च शं पवस्व ॥ ३ ॥

9.11.4
ब॒भ्रवे॒ नु स्वत᳚वसे॑रु॒णाय᳚ दिवि॒स्पृशे᳚ ।
सोमा᳚य गा॒थम᳚र्चत ॥
▶ पदपाठः (Word-by-word)
ब॒भ्रवे᳚ । नु । स्व॑त᳚वसे । अ॒रु॒णाय᳚ । दि॒वि॒॑स्पृशे᳚ ।
सोमा᳚य । गा॒थम् । अ॒र्च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः बभ्रवे बभ्रुवर्णाय स्वतवसे स्वबलाय अरुणाय कदाचिदरुणवर्णाय दिविस्पृशे दिवं स्पृशते सोमाय नु क्षिप्रं गाथं स्तुतिरूपां वाचं अर्चत अच्चारयतेत्यर्थः ॥ ४ ॥

9.11.5
हस्त᳚च्युतेभि॒रद्रि᳚भिः सु॒तं सोमं᳚ पुनीतन ।
मधा॒वा धा᳚वता॒ मधु᳚ ॥
▶ पदपाठः (Word-by-word)
हस्त᳚॑च्युतेभिः । अद्रि᳚॑भिः । सु॒तम् । सोम᳚म् । पु॒नी॒त॒न॒ ।
मधौ᳚ । आ । धा॒व॒त॒ । मधु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः हस्तच्युतेभिः हस्तप्रच्युतैः अद्रिभिः अभिषवग्रावभिः सुतमभिषुतं सोमं पुनीतन पवित्र पावयत । अपिच मधौ मदकरे सोमे मधु गव्यं पयआधावत प्रक्षिपत ॥ ५ ॥

9.11.6
नम॒सेदुप᳚ सीदत द॒ध्नेद॒भि श्री᳚णीतन ।
इन्दु॒मिन्द्रे᳚ दधातन ॥
▶ पदपाठः (Word-by-word)
नम᳚सा । इत् । उप᳚ । सी॒द॒त॒ । द॒ध्ना । इत् । अ॒भि । श्री॒णी॒त॒न॒ ।
इन्दु᳚म् । इन्द्रे᳚ । द॒धा॒त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजो नमसेत् नमस्कारेणैव उपसीदत सोममुपगच्छत । दध्नेत् दध्नैव अभिश्रीणीतन अभिश्रीणीतच । इन्द्रे इन्दुं सोमं दधातन धत्तच ॥ ६ ॥

9.11.7
अ॒मि॒त्र॒हा विच᳚र्षणि॒ः पव᳚स्व सोम॒ शं गवे᳚ ।
दे॒वेभ्यो᳚ अनुकाम॒कृत् ॥
▶ पदपाठः (Word-by-word)
अ॒मि॒त्र॒॑हा । वि॑च᳚र्षणिः । पव᳚स्व । सो॒म॒ । शम् । गवे᳚ ।
दे॒वेभ्यः᳚ । अ॒नु॒का॒म॒॑कृत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अमित्रहा अमित्राणां हन्ता विचर्षणिः विद्रष्टा देवेभ्यः अनुकामकृत् अभीष्टस्य कर्ता त्वं गवेस्माकं शं सुखं पवस्व क्षर ॥ ७ ॥

9.11.8
इन्द्रा᳚य सोम॒ पात᳚वे॒ मदा᳚य॒ परि᳚ षिच्यसे ।
म॒न॒श्चिन्मन᳚स॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । सो॒म॒ । पात᳚वे । मदा᳚य । परि᳚ । सि॒च्य॒से॒ ।
म॒नः॒॑चित् । मन᳚सः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम मनश्चित् मनसोज्ञाता मननस्पतिः ईश्वरः त्वमिन्द्राय इन्द्रस्य पातवे पानाय मदायच परिषिच्यसे परितः पात्रेषु सिच्यसे ॥ ८ ॥

9.11.9
पव᳚मान सु॒वीर्यं᳚ र॒यिं सो᳚म रिरीहि नः ।
इन्द॒विन्द्रे᳚ण नो यु॒जा ॥
▶ पदपाठः (Word-by-word)
पव᳚मान । सु॒॑वीर्य᳚म् । र॒यिम् । सो॒म॒ । रि॒री॒हि॒ । नः॒ ।
इन्दो॒ इति᳚ । इन्द्रे᳚ण । नः॒ । यु॒जा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो क्लिद्यमान पवमान सोम त्वं सुवीर्यं शोभनवीर्योपेतं रयिं धनं नोस्माकं संबन्धिना इन्द्रेण युजा सहायेन नोस्मभ्यं रिरीहि देहि ॥ ९ ॥

सोमाअसृग्रमिति नवर्चं द्वादशं सूक्तं ऋष्याद्याः पूर्ववत् । सोमाअसृग्रमित्यनुक्रान्तम् । उक्तोविनियोगः ।