श्रवणम्

9.11.1
उपा᳚स्मै गायता नर॒ः पव᳚माना॒येन्द᳚वे ।
अ॒भि दे॒वा{4} इय᳚क्षते ॥
▶ पदपाठः (Word-by-word)
उप᳚ । अ॒स्मै॒ । गा॒य॒त॒ । न॒रः॒ । पव᳚मानाय । इन्द᳚वे ।
अ॒भि । दे॒वान् । इय᳚क्षते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नरोनेतारो यज्ञस्य देवानिन्द्रादीन् अभीयक्षते आभिमुख्येन यष्टुमिच्छति पवमानाय क्षरते अस्माअभिषूयमाणायेन्दवे सोमाय उपगायत उपगानं कुरुत ॥ १ ॥