नवमं मण्डलम् - सूक्तम् 26

6 ऋचः

ऋषिः: इध्मवाहो दार्ढच्युतः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.26 - सम्पूर्णम्

1 / 6
ऋक्: 9.26.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.26.1
तम᳚मृक्षन्त वा॒जिन᳚मु॒पस्थे॒ अदि᳚ते॒रधि᳚ ।
विप्रा᳚सो॒ अण्व्या᳚ धि॒या ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒मृ॒क्ष॒न्त॒ । वा॒जिन᳚म् । उ॒प॑स्थे᳚ । अदि᳚तेः । अधि᳚ ।
विप्रा᳚सः । अण्व्या᳚ । धि॒या ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं वाजिनमश्वं अश्ववदाशुं व्याप्तमित्यर्थः अदितेः पृथिव्याउपस्थे उत्संगे अधीति सप्तम्यर्थानुवादी । अमृक्षन्त शोधितवन्तः । के विप्रासो मेधाविनोध्वर्य्वादयः । केन साधनेन अण्व्या अंगुल्या धिया प्रज्ञया स्तुत्या वा अमृक्षन्त अथवा अण्व्या सूक्ष्मया धिया अंगुल्येति विशेष्य- विशेषणभावः ॥ १ ॥

9.26.2
तं गावो᳚ अ॒भ्य᳚नूषत स॒हस्र᳚धार॒मक्षि᳚तम् ।
इन्दुं᳚ ध॒र्तार॒मा दि॒वः ॥
▶ पदपाठः (Word-by-word)
तम् । गावः᳚ । अ॒भि । अ॒नू॒ष॒त॒ । स॒हस्र᳚॑धारम् । अक्षि᳚तम् ।
इन्दु᳚म् । ध॒र्तार᳚म् । आ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं सोमं गावोगंत्र्यः स्तुतयः अभ्यनूषत अस्तुवन् । कीदृशं तं सहस्रधारं बहुधारं अक्षितं अक्षिणं इन्दुं दीप्तं दिवोद्युलोकस्य आधर्तारं सर्वतोधारकं सोमाधारत्वात् द्युलोकवासिनां संस्थानस्य ॥ २ ॥

9.26.3
तं वे॒धां मे॒धया᳚ह्य॒न्पव᳚मान॒मधि॒ द्यवि᳚ ।
ध॒र्ण॒सिं भूरि᳚धायसम् ॥
▶ पदपाठः (Word-by-word)
तम् । वे॒धाम् । मे॒धया᳚ । अ॒ह्य॒न् । पव᳚मानम् । अधि᳚ । द्यवि᳚ ।
ध॒र्ण॒सिम् । भूरि᳚॑धायसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेधां विधातारं पवमानं तं मेधया प्रज्ञया अह्यन् प्रहिन्वन्ति कं प्रति अधिद्यवि द्युलोकं प्रति । पुनः कीदृशं धर्णसिं सर्वस्यधारकं भूरिधायसं बहूनां कर्तारं ॥ ३ ॥

9.26.4
तम᳚ह्यन्भु॒रिजो᳚र्धि॒या सं॒वसा᳚नं वि॒वस्व᳚तः ।
पतिं᳚ वा॒चो अदा᳚भ्यम् ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒ह्य॒न् । भु॒रिजोः᳚ । धि॒या । स॒म्॑वसा᳚नम् । वि॒वस्व᳚तः ।
पति᳚म् । वा॒चः । अदा᳚भ्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं सोमं विवस्वतः परिचरतः ऋत्विजोभुरिजोर्बाह्वोर्धिया अंगुल्या अह्यन् प्राहिन्वन् । कीदृशं तं संवसानं वसन्तं पात्रे । वाचः स्तुतेःपतिं स्वामिनं अदाभ्यं अदंभनीयम् ॥ ४ ॥

9.26.5
तं साना॒वधि᳚ जा॒मयो॒ हरिं᳚ हिन्व॒न्त्यद्रि᳚भिः ।
ह॒र्य॒तं भूरि᳚चक्षसम् ॥
▶ पदपाठः (Word-by-word)
तम् । सानौ᳚ । अधि᳚ । जा॒मयः᳚ । हरि᳚म् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ।
ह॒र्य॒तम् । भूरि᳚॑चक्षसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं सोमं हरिं हरितवर्णं सानावधि समुच्छ्रितेदेशे अधीति सप्तम्यर्थानुवादी जामयोंगुलयः हिन्वंति प्रेरयन्ति अधिषुण्वंत्यद्रिभिर्ग्रावभिः । कीदृशं हर्यतं कमनीयं भूरिचक्षसं बहुद्रष्टारं ॥ ५ ॥

9.26.6
तं त्वा᳚ हिन्वन्ति वे॒धस॒ः पव᳚मान गिरा॒वृध᳚म् ।
इन्द॒विन्द्रा᳚य मत्स॒रम् ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । हि॒न्व॒न्ति॒ । वे॒धसः᳚ । पव᳚मान । गि॒रा॒॑वृध᳚म् ।
इन्दो॒ इति᳚ । इन्द्रा᳚य । म॒त्स॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम उक्तगुणविशिष्टं तं त्ग्वा त्वां हिन्वन्ति प्रेरयन्ति कस्मै इन्द्राय के वेधसोविधातारऋत्विजः । कीदृशं त्वां गिरावृधं स्तुत्या वर्धमानं इंदुं दीप्तं सरूपं वा मत्सरं मदकरं ॥ ६ ॥

एषकविरिति षळृचं तृतीयं सूक्तं नृमेधनाम्नआंगिरसस्यार्षं गायत्रं सौम्यम् । एषकविर्नृमेधइत्यनुक्रान्तम् । उक्तोविनियोगः ।