नवमं मण्डलम् - सूक्तम् 64

30 ऋचः

ऋषिः: कश्यपः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.64 - सम्पूर्णम्

1 / 30
ऋक्: 9.64.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (30)
9.64.1
वृषा᳚ सोम द्यु॒मा{4} अ᳚सि॒ वृषा᳚ देव॒ वृष᳚व्रतः ।
वृषा॒ धर्मा᳚णि दधिषे ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । सो॒म॒ । द्यु॒॑मान् । अ॒सि॒ । वृषा᳚ । दे॒व॒ । वृष᳚॑व्रतः ।
वृषा᳚ । धर्मा᳚णि । द॒धि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वृषा वर्षकस्त्वं द्युमान् दीप्तिमानसि । अपिच हे देव द्योतमान सोम वृषा त्वं वृषव्रतो वर्षणशीलकर्मासि । किंच हे सोम वृषा त्वं धर्माणि देवानां मनुष्याणां च हितानि कर्माणि दधिषे धारयसि ॥ १ ॥

9.64.2
वृष्ण᳚स्ते॒ वृष्ण्यं॒ शवो॒ वृषा॒ वनं॒ वृषा॒ मदः᳚ ।
स॒त्यं वृ᳚ष॒न्वृषेद᳚सि ॥
▶ पदपाठः (Word-by-word)
वृष्णः᳚ । ते॒ । वृष्ण्य᳚म् । शवः᳚ । वृषा᳚ । वन᳚म् । वृषा᳚ । मदः᳚ ।
स॒त्यम् । वृ॒ष॒न् । वृषा᳚ । इत् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृषन् कामानां वर्षक सोम वृष्णो वर्षितुस्ते तव शवोबलं वृष्ण्यं वर्षणशीलं भवति । वनं तवभजनमपि वृषा वर्षणशीलम् । मदस्तवरसोपि वृषा वर्षणशीलः । सत्यं सत्यमेव त्वं वृषेत् वर्षणशीलएवासि भवसि ॥ २ ॥

9.64.3
अश्वो॒ न च᳚क्रदो॒ वृषा॒ सं गा इ᳚न्दो॒ समर्व᳚तः ।
वि नो᳚ रा॒ये दुरो᳚ वृधि ॥
▶ पदपाठः (Word-by-word)
अश्वः᳚ । न । च॒क्र॒दः॒ । वृषा᳚ । सम् । गाः । इ॒न्दो॒ इति᳚ । सम् । अर्व᳚तः ।
वि । नः॒ । रा॒ये । दुरः᳚ । वृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम वृषा त्वं अश्वोनाश्वइव संचक्रदः संक्रंदसे । अपिच गाः पशूनर्वतोश्वां- श्चास्मभ्यं संप्रयच्छसीतिशेषः । किंच नोस्माकं राये धनाय दुरोद्वाराणि विवृधि विवृ- तानि कुरु ॥ ३ ॥

9.64.4
असृ᳚क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो अश्व॒या ।
शु॒क्रासो᳚ वीर॒याशवः᳚ ॥
▶ पदपाठः (Word-by-word)
असृ᳚क्षत । प्र । वा॒जिनः᳚ । ग॒व्या । सोमा᳚सः । अ॒श्व॒॑या ।
शु॒क्रासः᳚ । वी॒र॒॑या । आ॒शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजिनो बलवन्तः शुक्रासः शुक्राउज्ज्वलाः आशवो वेगवन्तश्च सोमासः सोमाः गव्या गवेच्छया अश्वयाश्वेच्छया च वीरया पुत्रेच्छयाच प्रासृक्षत ऋत्विग्भिः सृज्यन्ते ॥ ४ ॥

9.64.5
शु॒म्भमा᳚ना ऋता॒युभि᳚र्मृ॒ज्यमा᳚ना॒ गभ᳚स्त्योः ।
पव᳚न्ते॒ वारे᳚ अ॒व्यये᳚ ॥
▶ पदपाठः (Word-by-word)
शु॒म्भमा᳚नाः । ऋ॒त॒यु॑भिः᳚ । मृ॒ज्यमा᳚नाः । गभ᳚स्त्योः ।
पव᳚न्ते । वारे᳚ । अ॒व्यये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतायुभिर्यज्ञकामैः शुंभमानाः अलंक्रियमाणा गभस्त्योः गभस्तिभ्यां बाहुभ्याम् । गभ- स्ती बाहू इति बाहुनामसुपाठात् । मृज्यमानाः शोध्यमानाः सोमाः अव्यये अविमये वारे वाले पवित्रे पवन्ते क्षरन्ति ॥ ५ ॥

9.64.6
ते विश्वा᳚ दा॒शुषे॒ वसु॒ सोमा᳚ दि॒व्यानि॒ पार्थि᳚वा ।
पव᳚न्ता॒मान्तरि᳚क्ष्या ॥
▶ पदपाठः (Word-by-word)
ते । विश्वा᳚ । दा॒शुषे᳚ । वसु᳚ । सोमाः᳚ । दि॒व्यानि᳚ । पार्थि᳚वा ।
पव᳚न्ताम् । आ । अ॒न्तरि᳚क्ष्या ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते सोमा दिव्यानि दिविभवानि पार्थिवा पार्थिवानि पृथिव्यां संभूतानि चान्तरिक्ष्या अन्तरिक्षाण्यन्तरिक्षेजातानिच विश्वा विश्वानि वसु वसूनि धनानि दाशुषे हविषां प्र- दात्रे यजमानाय पवन्तां क्षरन्तु ॥ ६ ॥

9.64.7
पव᳚मानस्य विश्ववि॒त्प्र ते॒ सर्गा᳚ असृक्षत ।
सूर्य᳚स्येव॒ न र॒श्मयः᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚मानस्य । वि॒श्व॒॑वि॒त् । प्र । ते॒ । सर्गाः᳚ । अ॒सृ॒क्ष॒त॒ ।
सूर्य᳚स्य॑इव । न । र॒श्मयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्वविद्विश्वस्य द्रष्टः सोम पवमानस्य क्षरतः ते तव सर्गाः प्रसृज्यमाना धाराः सूर्यस्येव रश्मयः सूर्यस्य किरणाइव प्रकाशमानाः । नेति संप्रत्यर्थे । इदानीं प्रासृक्षत प्रासृज्यन्त ॥ ७ ॥

9.64.8
के॒तुं कृ॒ण्वन्दि॒वस्परि॒ विश्वा᳚ रू॒पाभ्य᳚र्षसि ।
स॒मु॒द्रः सो᳚म पिन्वसे ॥
▶ पदपाठः (Word-by-word)
के॒तुम् । कृ॒ण्वन् । दि॒वः । परि᳚ । विश्वा᳚ । रू॒पा । अ॒भि । अ॒र्ष॒सि॒ ।
स॒मु॒द्रः । सो॒म॒ । पि॒न्व॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम समुद्रः समुद्रवन्ति यस्माद्रसाः ससमुद्रः सत्वं केतुं प्रज्ञानं कृण्वन् कुर्वन् अस्माकं विश्वा विश्वानि रूपा रूपाणि दिवोन्तरिक्षादभ्यर्षस्यभिपवसे प्ररिपिन्वसे नानाविधानि धनानि चास्मभ्यं प्रयच्छसि ॥ ८ ॥

9.64.9
हि॒न्वा॒नो वाच᳚मिष्यसि॒ पव᳚मान॒ विध᳚र्मणि ।
अक्रा᳚न्दे॒वो न सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
हि॒न्वा॒नः । वाच᳚म् । इ॒ष्य॒सि॒ । पव᳚मान । वि॑ध᳚र्मणि ।
अक्रा᳚न् । दे॒वः । न । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान सोम हिन्वानः प्रेर्यमाणस्त्वं वाचं शब्दमिष्यसि प्रेरयसि । कदेत्यत्राह— यदा तव रसः सूर्योदेवोन देवइव विधर्मणि विधारके पवित्रे अक्रानक्रमीत् तदेत्यर्थः ॥ ९ ॥

9.64.10
इन्दु᳚ः पविष्ट॒ चेत᳚नः प्रि॒यः क᳚वी॒नां म॒ती ।
सृ॒जदश्वं᳚ र॒थीरि᳚व ॥
▶ पदपाठः (Word-by-word)
इन्दुः᳚ । प॒वि॒ष्ट॒ । चेत᳚नः । प्रि॒यः । क॒वी॒नाम् । म॒ती ।
सृ॒जत् । अश्व᳚म् । र॒थीः॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

चेतनः प्रज्ञापकः प्रियोदेवानां प्रीतिकरः इन्दुः सोमः कवीनां क्रान्तकर्मणां स्तोतॄणां मती मत्या स्तुत्या पविष्ट पवते । अश्वं हयं रथीरिव रथीवोर्मि सूजत् सृजति च ॥ १० ॥

9.64.11
ऊ॒र्मिर्यस्ते᳚ प॒वित्र॒ आ दे᳚वा॒वीः प॒र्यक्ष᳚रत् ।
सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्मिः । यः । ते॒ । प॒वित्रे᳚ । आ । दे॒व॒॑अ॒वीः । प॒रि॒॑अक्ष᳚रत् ।
सीद᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव योदेवावीर्देवकामः ऊर्मिस्तरंगः ऋतस्य यज्ञस्य योनिं स्थानं आसी- दन् पवित्रे पर्यक्षरत् परिक्षरति त्मूर्मिं सृजतीति पूर्वत्र संबन्धः ॥ ११ ॥

9.64.12
स नो᳚ अर्ष प॒वित्र॒ आ मदो॒ यो दे᳚व॒वीत᳚मः ।
इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । अ॒र्ष॒ । प॒वित्रे᳚ । आ । मदः᳚ । यः । दे॒व॒॑वीत᳚मः ।
इन्दो॒ इति᳚ । इन्द्रा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो यस्त्वं देववीतमः अतिशयेन देवकामो मदोमदकरश्च भवसि । सत्वं नोस्माकं पवित्रे इन्द्रायेन्द्रस्य पीतये पानायार्षापवस्व ॥ १२ ॥

9.64.13 समानपद
इ॒षे प᳚वस्व॒ धार᳚या मृ॒ज्यमा᳚नो मनी॒षिभि᳚ः ।
इन्दो᳚ रु॒चाभि गा इ᳚हि ॥
▶ पदपाठः (Word-by-word)
इ॒षे । प॒व॒स्व॒ । धार᳚या । मृ॒ज्यमा᳚नः । म॒नी॒षि॑भिः᳚ ।
इन्दो॒ इति᳚ । रु॒चा । अ॒भि । गाः । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम मनीषिभिरृत्विग्भिः मृज्यमानः शोध्यमानस्त्वमिषेस्मकमन्नाय धारया पवस्व क्षर । रुचा रोचमानेनान्धसा गाः पशूनभीह्यभिगच्छा ॥ १३ ॥

9.64.14
पु॒ना॒नो वरि᳚वस्कृ॒ध्यूर्जं॒ जना᳚य गिर्वणः ।
हरे᳚ सृजा॒न आ॒शिर᳚म् ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । वरि᳚वः । कृ॒धि॒ । ऊर्ज᳚म् । जना᳚य । गि॒र्व॒णः॒ ।
हरे᳚ । सृ॒जा॒नः । आ॒॑शिर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे गिर्वणो गीर्भिर्वननीय हरे हरितवर्ण सोम आशिरं क्षीरं प्रतिसृजानो विसृज्यमानः पुनानः पूयमानस्त्वं जनाय यजमानार्थं वरिवोधनमूर्जमन्नंच कृधि कुरु ॥ १४ ॥

9.64.15
पु॒ना॒नो दे॒ववी᳚तय॒ इन्द्र᳚स्य याहि निष्कृ॒तम् ।
द्यु॒ता॒नो वा॒जिभि᳚र्य॒तः ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । दे॒व॑वी᳚तये । इन्द्र᳚स्य । या॒हि॒ । निः॒॑कृ॒तम् ।
द्यु॒ता॒नः । वा॒जि॑भिः᳚ । य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम द्युतानो दीप्यमानो वाजिभिः बलिभिर्यजमानैर्यतः संगृहितो देववीतये यज्ञार्थं पुनानः पूयमानस्त्वं इन्द्रस्य निष्कृतं स्थानं याहि गच्छ ॥ १५ ॥

9.64.16
प्र हि᳚न्वा॒नास॒ इन्द॒वो॑च्छा᳚ समु॒द्रमा॒शवः᳚ ।
धि॒या जू॒ता अ᳚सृक्षत ॥
▶ पदपाठः (Word-by-word)
प्र । हि॒न्वा॒नासः᳚ । इन्द᳚वः । अच्छ᳚ । स॒मु॒द्रम् । आ॒शवः᳚ ।
धि॒या । जू॒ताः । अ॒सृ॒क्ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशवो वेगवन्त इन्दवः सोमाः समुद्रमन्तरिक्षमच्छ प्रति हिन्वानासोहिन्वानाः प्रेर्य- माणाः धिया अंगुल्या जूताः कृष्टाश्च प्रासृक्षत सृज्यन्ते ॥ १६ ॥

9.64.17
म॒र्मृ॒जा॒नास᳚ आ॒यवो॒ वृथा᳚ समु॒द्रमिन्द᳚वः ।
अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥
▶ पदपाठः (Word-by-word)
म॒र्मृ॒जा॒नासः᳚ । आ॒यवः᳚ । वृथा᳚ । स॒मु॒द्रम् । इन्द᳚वः ।
अग्म᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मर्मृजानासो मर्मृज्यमानाः आय्वोगन्तार इन्दवः सोमाः वृथायासं विनैव समुद्रमन्त- रिक्षं गच्छन्ति । एतदेव दर्शयति ऋतस्योदकस्य योनिं स्थानं आग्मन् गच्छन्तीति ॥ १७ ॥

9.64.18
परि᳚ णो याह्यस्म॒युर्विश्वा॒ वसू॒न्योज᳚सा ।
पा॒हि न॒ः शर्म᳚ वी॒रव᳚त् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । नः॒ । या॒हि॒ । अ॒स्म॒॑युः । विश्वा᳚ । वसू᳚नि । ओज᳚सा ।
पा॒हि । नः॒ । शर्म᳚ । वी॒र॑व᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमास्मयुरस्मत्कामस्त्वं नोस्माकं विश्वा विश्वानि वसूनि धनानि ओजसा बलेन सह परियाहि रक्षार्थं परिगच्छ । अपिच नोस्माकं वीरवत् पुत्रवत् शर्म गृहं पाहि रक्ष ॥ १८ ॥

9.64.19
मिमा᳚ति॒ वह्नि॒रेत᳚शः प॒दं यु᳚जा॒न ऋक्व᳚भिः ।
प्र यत्स᳚मु॒द्र आहि᳚तः ॥
▶ पदपाठः (Word-by-word)
मिमा᳚ति । वह्निः᳚ । एत᳚शः । प॒दम् । यु॒जा॒नः । ऋक्व᳚॑भिः ।
प्र । यत् । स॒मु॒द्रे । आ॑हि᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम यद्यदा योवह्निर्वहनशील एतशोश्वः मिमाति शब्दंकरोति ऋक्वभिरृत्विग्भिः स्तोतृभिः पदं युजानो यज्ञे युंजानो निदधत् स्तोत्रश्रवणार्थमागच्छति च । सतदा यज्ञवाहका- श्वात्मा त्वं समुद्रे उदके वसतीवरीषु प्राहितोभवसि ॥ १९ ॥

9.64.20
आ यद्योनिं᳚ हिर॒ण्यय᳚मा॒शुरृ॒तस्य॒ सीद᳚ति ।
जहा॒त्यप्र᳚चेतसः ॥
▶ पदपाठः (Word-by-word)
आ । यत् । योनि᳚म् । हि॒र॒ण्यय᳚म् । आ॒शुः । ऋ॒तस्य᳚ । सीद᳚ति ।
जहा᳚ति । अप्र᳚॑चेतसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदाशुर्वेगवान् सोम ऋतस्य यज्ञस्य हिरण्ययं हिरण्मयं योनिं स्थानं हिरण्यपाणिर- भिषुणोतीत्युक्तमासीदति । तदानीमप्रचेतसो जहाति विसृजति अस्तोतॄणां यज्ञं नाभिगच्छ- ति । किंतु स्तोतॄणामेव यज्ञमभिगच्छतीत्यर्थः ॥ २० ॥

9.64.21
अ॒भि वे॒ना अ᳚नूष॒तेय᳚क्षन्ति॒ प्रचे᳚तसः ।
मज्ज॒न्त्यवि᳚चेतसः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । वे॒नाः । अ॒नू॒ष॒त॒ । इय᳚क्षन्ति । प्र॑चे᳚तसः ।
मज्ज᳚न्ति । अवि᳚॑चेतसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वेनाः कान्ताः स्तोतारोभ्यनूषत सोममभिष्टुवन्ति प्रचेतसः सुम्रतयः इयक्षन्ति यष्टुमिच्छ- न्ति च । अविचेतसो विशिष्टमतयो विचेतसः अविचेतसोविपरीतमतयइत्यर्थः मज्जन्ति नि- मज्जन्ति । येसोमं नाभिष्टुभन्ति न यजंति च ते नरके पतन्तीत्यर्थः ॥ २१ ॥

9.64.22
इन्द्रा᳚येन्दो म॒रुत्व᳚ते॒ पव᳚स्व॒ मधु᳚मत्तमः ।
ऋ॒तस्य॒ योनि᳚मा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । म॒रुत्व᳚ते । पव᳚स्व । मधु᳚मत्॑तमः ।
ऋ॒तस्य᳚ । योनि᳚म् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम मधुमत्तमोतिशयेन मधुमान् त्वं ऋतस्य यज्ञस्य योनिं स्थानमासदमुपवेष्टुं मरुत्वते इन्द्रायेद्रार्थं पवस्व क्षर ॥ २२ ॥

9.64.23
तं त्वा॒ विप्रा᳚ वचो॒विद॒ः परि᳚ ष्कृण्वन्ति वे॒धसः᳚ ।
सं त्वा᳚ मृजन्त्या॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । विप्राः᳚ । व॒चः॒॑विदः᳚ । परि᳚ । कृ॒ण्व॒न्ति॒ । वे॒धसः᳚ ।
सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम तं पवमानं त्वा त्वां विप्राः प्राज्ञा वेधसः कर्मणांकर्तारो वचोविदः स्तोतारः परिष्कृण्वन्ति अलंकुर्वन्ति । अपिच त्वा त्वामायवोमनुष्याः संमृजन्ति सम्यक् शोधयन्ति ॥ २३ ॥

9.64.24
रसं᳚ ते मि॒त्रो अ᳚र्य॒मा पिब᳚न्ति॒ वरु᳚णः कवे ।
पव᳚मानस्य म॒रुतः᳚ ॥
▶ पदपाठः (Word-by-word)
रस᳚म् । ते॒ । मि॒त्रः । अ॒र्य॒मा । पिब᳚न्ति । वरु᳚णः । क॒वे॒ ।
पव᳚मानस्य । म॒रुतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कवे क्रान्तकर्मन् सोम पवमानस्य क्षरतस्ते तव रसं मित्रः अर्यमा च वरुणश्च मरुतश्चैते सर्वेदेवाः पिबन्ति ॥ २४ ॥

9.64.25
त्वं सो᳚म विप॒श्चितं᳚ पुना॒नो वाच᳚मिष्यसि ।
इन्दो᳚ स॒हस्र᳚भर्णसम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । वि॒पः॒॑चित᳚म् । पु॒ना॒नः । वाच᳚म् । इ॒ष्य॒सि॒ ।
इन्दो॒ इति᳚ । स॒हस्र᳚॑भर्णसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो दीप्तसोम पुनानः पूयमानस्त्वं विपश्चितं प्रज्ञया पवित्रां सहस्रभर्णसं बहु- भरणां वाचमिष्यसि प्रेरयसि ॥ २५ ॥

9.64.26
उ॒तो स॒हस्र᳚भर्णसं॒ वाचं᳚ सोम मख॒स्युव᳚म् ।
पु॒ना॒न इ᳚न्द॒वा भ᳚र ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । स॒हस्र᳚॑भर्णसम् । वाच᳚म् । सो॒म॒ । म॒ख॒स्युव᳚म् ।
पु॒ना॒नः । इ॒न्दो॒ इति᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपिच हे इन्दो दीप्तसोम पुनानः पूयमानस्त्वं सहस्रभर्णसं सहस्रभरणां मखस्युवं धनकामां यज्ञकामां वाचमस्मभ्यमाभराहर ॥ २६ ॥

9.64.27
पु॒ना॒न इ᳚न्दवेषां॒ पुरु᳚हूत॒ जना᳚नाम् ।
प्रि॒यः स᳚मु॒द्रमा वि᳚श ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । इ॒न्दो॒ इति᳚ । ए॒षा॒म् । पुरु᳚॑हूत । जना᳚नाम् ।
प्रि॒यः । स॒मु॒द्रम् । आ । वि॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पुरुहूत बहुभिराहूत इन्दो सोम पुनानः पूयमानस्त्वं एषामस्मिन् यागे स्तोत्रं कुर्वतां जनानां प्रियः सन् समुद्रं द्रोणकलशमाविश प्रविश ॥ २७ ॥

9.64.28
दवि᳚द्युतत्या रु॒चा प᳚रि॒ष्टोभ᳚न्त्या कृ॒पा ।
सोमा᳚ः शु॒क्रा गवा᳚शिरः ॥
▶ पदपाठः (Word-by-word)
दवि᳚द्युतत्या । रु॒चा । प॒रि॒॑स्तोभ᳚न्त्या । कृ॒पा ।
सोमाः᳚ । शु॒क्राः । गो॑आ᳚शिरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुक्रा उज्ज्वलाः दविद्युतत्या द्योतमानया रुचा दीप्त्या परिष्टोभंत्या परितः शब्दाय- मानया कृपा धारयाच युक्ताः सोमाः गवाशिरो भवन्ति गव्येन पयसा मिश्रिता भवन्ती- त्यर्थः ॥ २८ ॥

9.64.29
हि॒न्वा॒नो हे॒तृभि᳚र्य॒त आ वाजं᳚ वा॒ज्य᳚क्रमीत् ।
सीद᳚न्तो व॒नुषो᳚ यथा ॥
▶ पदपाठः (Word-by-word)
हि॒न्वा॒नः । हे॒तृ॑भिः᳚ । य॒तः । आ । वाज᳚म् । वा॒जी । अ॒क्र॒मी॒त् ।
सीद᳚न्तः । व॒नुषः᳚ । य॒था॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजी बलवान् सोमो हेतृभिः प्रेरकैः स्तोतृभिः हिन्वानः स्तोत्रैः प्रेर्यमाणो यतः संयतः सन् वाजं यागाख्यं युद्धमाक्रमीदाक्रमति । तत्रदृष्टान्तः—यथावनुषोहन्तारोभटाः सीदन्तो- युद्धं प्रविशन्तः आक्रमन्ति तद्वदित्यर्थः ॥ २९ ॥

9.64.30
ऋ॒धक्सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः ।
पव᳚स्व॒ सूर्यो᳚ दृ॒शे ॥
▶ पदपाठः (Word-by-word)
ऋ॒धक् । सो॒म॒ । स्व॒स्तये᳚ । स॒म्॑ज॒ग्मा॒नः । दि॒वः । क॒विः ।
पव᳚स्व । सूर्यः᳚ । दृ॒शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम कविः क्रान्तः सूर्यः सुवीर्यस्त्वं ऋधक् ऋध्नुवन् । तथाचयास्कः—ऋधगिति- पृथग्भावस्यानुप्रवचनं भवत्यथाप्यृध्नोत्यर्थेदृश्यतइति । संजग्मानः संगच्छमानः स्वस्तये दृशे दर्शनायच दिवः द्युलोकात् पवस्व क्षर ॥ ३० ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- याणाचार्येण विरचिते माधवीये वेदार्थप्रकाशॆ ऋक्संहिताभाष्ये सप्तमाष्टकेप्रथमोध्यायः ॥ १ ॥