ऋ॒धक्सो᳚म स्व॒स्तये᳚ संजग्मा॒नो दि॒वः क॒विः ।
पव᳚स्व॒ सूर्यो᳚ दृ॒शे ॥
पव᳚स्व॒ सूर्यो᳚ दृ॒शे ॥
पदपाठः (Word-by-word)
ऋ॒धक् । सो॒म॒ । स्व॒स्तये᳚ । स॒म्॑ज॒ग्मा॒नः । दि॒वः । क॒विः ।
पव᳚स्व । सूर्यः᳚ । दृ॒शे ॥
पव᳚स्व । सूर्यः᳚ । दृ॒शे ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम कविः क्रान्तः सूर्यः सुवीर्यस्त्वं ऋधक् ऋध्नुवन् । तथाचयास्कः—ऋधगिति- पृथग्भावस्यानुप्रवचनं भवत्यथाप्यृध्नोत्यर्थेदृश्यतइति । संजग्मानः संगच्छमानः स्वस्तये दृशे दर्शनायच दिवः द्युलोकात् पवस्व क्षर ॥ ३० ॥
वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सा- याणाचार्येण विरचिते माधवीये वेदार्थप्रकाशॆ ऋक्संहिताभाष्ये सप्तमाष्टकेप्रथमोध्यायः ॥ १ ॥