असृ᳚क्षत॒ प्र वा॒जिनो᳚ ग॒व्या सोमा᳚सो अश्व॒या ।
शु॒क्रासो᳚ वीर॒याशवः᳚ ॥
शु॒क्रासो᳚ वीर॒याशवः᳚ ॥
पदपाठः (Word-by-word)
असृ᳚क्षत । प्र । वा॒जिनः᳚ । ग॒व्या । सोमा᳚सः । अ॒श्व॒॑या ।
शु॒क्रासः᳚ । वी॒र॒॑या । आ॒शवः᳚ ॥
शु॒क्रासः᳚ । वी॒र॒॑या । आ॒शवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
वाजिनो बलवन्तः शुक्रासः शुक्राउज्ज्वलाः आशवो वेगवन्तश्च सोमासः सोमाः गव्या गवेच्छया अश्वयाश्वेच्छया च वीरया पुत्रेच्छयाच प्रासृक्षत ऋत्विग्भिः सृज्यन्ते ॥ ४ ॥